श्रीः अध्यायः 152

भीष्मेण युधिष्ठिरम् प्रति चातुर्वर्ण्यस्य श्रेयस्साधनोपायप्रतिपादकपराशरवचनानुवादः ॥ 1 ॥

'पराशर उवाच 001
एवं स भिक्षुर्निर्वाणं प्राप्नुयाद्दग्धकिल्बिषः । 001a
इहस्थो देहमुत्सृज्य नीडं शकुनिवद्यथा ॥ 001c
सत्पथालम्बनादेव शूद्रः प्राप्नोति सद्गतिम् । 002a
ब्रह्मणः स्थानमचलं स्थानात्स्थानमवाप्नुयात् ॥ 002c
यथा खनन्खनित्रेण जाङ्गले वारि विन्दति । 003a
अनिर्वेदात्ततः स्थानमीप्सितं प्रतिपद्यते ॥ 003c
सैषा गतिरनाद्यन्ता सर्वैरप्युपधारिता । 004a
तस्माच्छूद्रैरनिर्वेदाच्छ्रद्दधानैस्तु नित्यदा | 004c
वर्तितव्यं यथाशक्त्या यथा प्रोक्तं मनीषिभिः || 004e
यत्करोति तदश्नाति शुभं वा यदि वाऽशुभम् । 005a
नाकृतं भुज्यते कर्म न कृतं नश्यते फलम् ॥ 005c
तथा शुभसमाचारः शुभमेवाप्नुते फलम् । 006a
तथाऽशुभसमाचारो ह्यशुभं समवाप्नुते । 006c
शुभान्येव समादद्याद्य इच्छेद्भूतिमात्मनः ॥ 006e
भूतिश्च नान्यतः शक्त्या शूद्राणामिति निश्चयः । 007a
क्रते यतीनां शुश्रूषामिति सन्तो व्यवस्थिताः ॥ 007c
तस्मादागमसम्पन्नो भवेत्सुनियतेन्द्रियः । 008a
शक्यते ह्यागमादेव गतिं प्राप्तुमनामयाम् ॥ 008c
वरा चैषा गतिर्दृष्टा यामन्वेषन्ति साधवः । 009a
यत्रामृतत्वं लभते त्यक्त्वा दुःखमनन्तरम् ॥ 009c
इमं हि धर्ममास्थाय येऽपि स्युः पापयोनयः । 010a
स्त्रियो वैश्याश्च शूद्राश्च प्राप्नुयुः परमां गतिम् । 010c
किं पुनर्ब्राह्मणो विद्वान्क्षत्रियो वा बहुश्रुतः ॥ 010e
न चाप्यक्षीणपापस्य ज्ञानं भवति देहिनः । 011a
ज्ञानोपलब्धिर्भवति कृतकृत्यो यदा भवेत् ॥ 011c
उपलभ्य तु विज्ञानं ज्ञानं वाऽप्यनसूयकः । 012a
तथैव वर्तेद्गुरुषु भूयांसं वा समाहितः ॥ 012c
अथावमन्येत गुरुं तथा तेषु प्रवर्तते । 013a
व्यर्थमस्य श्रुतं भवति ज्ञानमज्ञानतां व्रजेत् ॥ 013c
गतिं चाप्यशुभां गच्छेन्निरयाय न संशयः । 014a
प्रक्षीयते तस्य पुण्यं ज्ञानमस्य विरुध्यते ॥ 014c
अदृष्टपूर्वकल्याणो यथा दृष्ट्वा विधिं नरः । 015a
उत्सेकान्मोहमापद्य तत्वज्ञानमवाप्तवान् ॥ 015c
एवमेवि हि नोत्सेकः कर्तव्यो ज्ञानसम्भवः । 016a
फलं ज्ञानस्य हि शमः प्रशामाय यतेत्सदा ॥ 016c
उपशान्तेन दान्तेन क्षमायुक्तेन सर्वदा । 017a
शुश्रूषा प्रतिपत्तव्या नित्यमेवानसूयता ॥ 017c
धृत्या शिश्नोदरं रक्षेत्पाणिपादं च चक्षुषा । 018a
इन्द्रियार्थांश्च मनसा मनो बुद्धौ समादधेत् ॥ 018c
धृत्याऽऽसीत ततो गत्वा शुद्धदेशं सुसंवृतम् । 019a
लब्धासनं यथा दृष्टं विधिपूर्वं समाचरेत् ॥ 019c
ज्ञानयुक्तस्तथा देवं हृदिस्थमुपलक्षयेत् । 020a
आदीप्यमानं वपुषा विधूममनलं यथा ॥ 020c
रश्मिमन्तमिवादित्यं वैद्युताग्निमिवाम्बरे । 021a
संस्थितं हृदये पश्येदीशं शाश्वतमव्ययम् ॥ 021c
न चायुक्तेन शक्येत द्रष्टुं देहे महेश्वरः । 022a
युक्तस्तु पश्यते बुद्ध्या सन्निवेश्य मनो हृदि ॥ 022c
अथ त्वेवं न शक्नोति कर्तुं हृदयधारणम् । 023a
यथासाङ्ख्यमुपासीत यथावद्योगमास्थितः ॥ 023c
पञ्च बुद्धीन्द्रियाणीह पञ्च कर्मेन्द्रियाणि वै । 024a
पञ्च भूतविशेषाश्च मनश्चैव तु षोडश ॥ 024c
तन्मात्राण्यपि पञ्चैव मनोऽहङ्कार एव च । 025a
अष्टमं चाप्यथाव्यक्तमेताः प्रकृतिसञ्ज्ञिताः । 025c
एताः प्रकृतयश्चाष्टौ विकाराश्चापि षोडश ॥ 025e
एवमेतदिहस्थेन विज्ञेयं तत्वबुद्धिना । 026a
एवं वर्ष्म समुत्तीर्य तीर्णो भवति नान्यथा ॥ 026c
परिसङ्ख्यानमेवैतन्मन्तव्यं ज्ञानबुद्धिना ॥ 027ac
अहन्यहनि शान्तात्मा पावनाय हिताय च । 028a
एवमेव प्रसङ्ख्याय तत्वबुद्धिर्विमुच्यते । 028c
निष्कलं केवलं भवति शुद्धतत्वार्थतत्ववित् ॥ 028e
भिक्षुकाश्रममास्थाय शुश्रूषानिरतो बुधः । 029a
शूद्रो निर्मुच्यते सत्वसंसर्गादेव नान्यथा ॥ 029c
सत्सन्निक्रषे परिवर्तितव्यं विद्याधिकाश्चापि निषेवितव्याः । 030a
सवर्णतां गच्छति सन्निकर्षान्नीलः खगो मेरुमिवाश्रयन्वै ॥ 030c
भीष्म उवाच 031
इत्येवमाख्याय महामुनिस्तदा चतुर्षु वर्णेषु विधानमर्थवित् । 031a
शुश्रूषया वृत्तगतिं समाधिना समाधियुक्तः प्रययौ स्वमाश्रमम् ॥' 031c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि द्विपञ्चाशदधिकशततमोऽध्यायः ॥ 152 ॥