श्रीः अध्यायः 151

भीष्मेण युधिष्ठिरम् प्रति पुरुषस्य पुण्यविशेषेण पुनःपुनः स्वर्गभूम्यादिषु परिवर्तनेन जातवैराग्यस्य ब्रह्मज्ञानेनापुनरावृत्तिशाश्वतपदप्राप्त्यादिप्रकारप्रतिपादनम् ॥ 1 ॥

'पराशर उवाच 001
ततः श्रुतिसमापन्नः संस्कृतश्च यथाविधि । 001a
चौलोपनयनं तस्य यथावत्क्रियते द्विजैः ॥ 001c
ततोऽष्टमे स वर्षे तु व्रतोपनयनादिभिः । 002a
क्रियाभिर्विधिदृष्टाभिर्ब्रह्मत्वमुपनीयते ॥ 002c
गायत्रेण छन्दसा तु संस्कृतश्चरितव्रतः । 003a
अधीयमानो मेधावी शुद्धात्मा नियतव्रतः ॥ 003c
अचिरेणैव कालेन साङ्गान्वेदानवाप्नुते । 004a
समावृत्तः स धर्मात्मा समावृत्तक्रियस्तथा ॥ 004c
याजनाध्यापनरतः कुशले कर्मणि स्थितः । 005a
अग्निहोत्रपरो नित्यं देवतातिथिपूजकः ॥ 005c
यजते विविधैर्यज्ञैर्जपयज्ञैस्तथैव च । 006a
न्यायागतधनान्वेषी न्यायवृत्तस्तपोधनः ॥ 006c
सर्वभूतहितश्चैव सर्वशास्त्रविशारदः । 007a
स्वदारपरितुष्टात्मा क्रतुगामी जितेन्द्रियः ॥ 007c
परापवादविरतः सत्यव्रतपरः सदा । 008a
स कालपरिणामात्तु संयुतः कालधर्मणा ॥ 008c
संस्कृतश्चाग्निहोत्रेण यथावद्विधिपूर्वकम् । 009a
सोमलोकमवाप्नोति देहन्यासान्न संशयः ॥ 009c
तत्र सोमप्रभैर्देवैरग्निष्वात्तैश्च भास्वरैः । 010a
तथा बर्हिषदैश्चैव देवैराङ्गिरसैरपि ॥ 010c
विश्वेभिश्चैव देवैश्च तथा ब्रह्मर्षिभिः पुनः । 011a
देवर्षिभिश्चाप्रतिमैस्तथैवाप्सरसां गणैः । 011c
साध्यैः सिद्धैश्च सततं सत्कृतस्तत्र मोदते ॥ 011e
जातरूपमयं दिव्यमर्कतुल्यं मनोजवम् । 012a
देवगन्धर्वसङ्कीर्णं विमानमधिरोहति ॥ 012c
सौम्यरूपा मनःकान्तास्तप्तकाञ्चनभूषणाः । 013a
सोमकन्या विमानस्थं रमयन्ति मुदान्विताः ॥ 013c
स तत्र रमते प्रीतः सह देवैः सहर्षिभिः । 014a
लोकान्सर्वाननुचरन्दीप्ततेजा मनोजवः ॥ 014c
सभां कामजवीं चापि नित्यमेवाभिगच्छति । 015a
सर्वलोकेश्वरमृषिं नमस्कृत्य पितामहम् ॥ 015c
परमेष्ठिरनन्तश्रीर्लोकानां प्रभवाप्ययः । 016a
यतः सर्वाः प्रवर्तन्ते सर्गप्रलयविक्रियाः । 016c
स तत्र वर्तते श्रीमान्द्विशतं द्विजसत्तम ॥ 016e
अथ कालक्षयात्तस्मात्स्थानादावर्तते पुनः । 017a
जातिधर्मांस्तथा सर्वान्सर्गादावर्तनानि च ॥ 017c
अशाश्वतमिदं सर्वमिति चिन्त्योपलभ्य च । 018a
शाश्वतं दिव्यमचलमदीनमपुनर्भवम् ॥ 018c
आस्थास्यत्यभयं नित्यं यत्रावृत्तिर्न विद्यते । 019a
यत्र गत्वा न म्रियते जन्म चापि न विद्यते ॥ 019c
गर्भक्लेशामयाः प्राप्ता जायता च पुनः पुनः । 020a
कायक्लेशाश्च विविधा द्वन्द्वानि विविधानि च ॥ 020c
शीतोष्णसुखदुःखानि ईर्ष्याद्वेषकृतानि च । 021a
तत्रतत्रोपभुक्तानि न क्वचिच्छाश्वती स्थितिः ॥ 021c
एवं स निश्चयं कृत्वा निर्मुच्य ग्रहबन्धनात् । 022a
छित्त्वा भार्यामयं पाशं तथैवापत्यसम्भवम् ॥ 022c
यतिधर्ममुपाश्रित्य गुरुशुश्रूषणे रतः । 023a
अचिरेणैव कालेन श्रेयः समभिगच्छति ॥ 023c
योगशास्त्रं च साङ्ख्यं च विदित्वा सोऽर्थतत्वतः । 024a
अनुज्ञातश्च गुरुणा यथाशास्त्रमवस्थितः ॥ 024c
पुण्यतीर्थानुसेवी च नदीनां पुलिनाश्रयः । 025a
शून्यागारनिकेतश्च वनवृक्षगुहाशयः ॥ 025c
अरण्यानुचरो नित्यं देवारण्यनिकेतनः । 026a
एकरात्रं द्विरात्रं वा न क्वचित्सज्जते द्विजः ॥ 026c
शीर्णपर्णभुगेवापि वने चरति भिक्षुकः । 027a
न भोगार्थमनुप्रेत्य यात्रामात्रं समश्नुते ॥ 027c
धर्मलब्धं समश्नाति न कामात्किञ्चिदश्नुते । 028a
युगमात्रदृगध्वानं क्रोशादूर्ध्वं न गच्छति ॥ 028c
समो मानावमानाभ्यां समलोष्टाश्मकाञ्चनः । 029a
सर्वभूताभयकरस्तथैवाभयदक्षिणः ॥ 029c
निर्द्वन्द्वो निर्नमस्कारो निरानन्दपरिग्रहः । 030a
निर्ममो निरहङ्कारः सर्वभूतनिराश्रयः ॥ 030c
परिसङ्ख्यानतत्वज्ञस्तदा सत्यरतः सदा । 031a
ऊर्ध्वं नाधो न तिर्यक्च न किञ्चिदभिकामयेत् ॥ 031c
एवं हि रममाणस्तु यतिधर्मं यथाविधि । 032a
कालस्य परिणामात्तु यथा पक्वफलं तथा ॥ 032c
स विसृज्य स्वकं देहं प्रविशेद्ब्रह्म शाश्वतम् । 033a
निरामयमनाद्यन्तं गुणसौम्यमचेतनम् ॥ 033c
निरक्षरमबीजं च निरिन्द्रियमजं तथा । 034a
अजय्यमक्षयं यत्तदभेद्यं सूक्ष्ममेव च ॥ 034c
निर्गुणं च प्रकृतिमन्निर्विकारं च सर्वशः । 035a
भूतभव्यभविष्यस्य कालस्य परमेश्वरम् । 035c
अव्यक्तं पुरुषं क्षेत्रमानन्त्याय प्रपद्यते ॥' 035e

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकपञ्चाशदधिकशततमोऽध्यायः ॥ 151 ॥

7-151-33 गुणसाम्यमचेतनमिति क. थ. पाठः ॥ 7-151-35 निर्गुणं चाप्रकृतिमदिति थ. पाठः ॥