श्रीः अध्यायः 150
भीष्मेण युधिष्ठिरम् प्रति पुरुषस्य मृतिसूचकलिङ्गैः स्वमरणनिश्चयेन भगवत्स्मरणादिपूर्वकं देहत्यागे स्वर्गभोगप्रकारस्य सुकृतशेषेण पुनर्भूलोके जननादिप्रकारादेश्च कथनम् ॥ 1 ॥
'पराशर उवाच 001
शुश्रूषानिरतो नित्यमरिष्टान्युपलक्षयेत् । 001a
त्रैवार्षिकं द्विवार्षिकं वा वार्षिकं वा समुत्थितम् ॥ 001c
षाण्मासिकं मासिकं वा साप्तरात्रिकमेव वा । 002a
सर्वांस्तदर्थान्वा विद्यात्तेषां चिह्नानि लक्षयेत् ॥ 002c
पुरुषं हिरण्मयं यस्तु तिष्ठन्तं दक्षिणामुखम् । 003a
लक्षयेदुत्तरेणैव मृत्युस्त्रैवार्षिको भवेत् ॥ 003c
शुद्धमण्डलमादित्यमरश्मिं सम्प्रपश्यतः । 004a
संवत्सरद्वयेनैव तस्य मृत्युं समादिशेत् ॥ 004c
ज्योत्स्नायामात्मनश्छायां सच्छिद्रां यः प्रपश्यति । 005a
मृत्युं संवत्सरेणैव जानीयात्सुविचक्षणः ॥ 005c
विशिरस्कां यदा छायां पश्येत्पुरुष आत्मनः । 006a
जानीयादात्मनो मृत्युं षाण्मासेनेह बुद्धिमान् ॥ 006c
कर्णौ पिधाय हस्ताभ्यां शब्दं न शृणुते यदि । 007a
जानीयादात्मनो मृत्युं मासेनैव विचक्षणः ॥ 007c
शवगन्धमुपाघ्राति अन्यद्वा सुरभिं नरः । 008a
देवतायतनस्थो वै सप्तरात्रेण मृत्युभाक् ॥ 008c
कर्णनासापनयनं दन्यदृष्टिविरागता । 009a
लुप्तसञ्ज्ञं हि करणं सद्यो मृत्युं समादिशेत् ॥ 009c
एवमेषामरिष्टानां पश्येदन्यतमं यदि । 010a
न तं कालं परीक्षेत यथाऽरिष्टं प्रकल्पितम् ॥ 010c
अभ्यासेन तु कालस्य गच्छेत पुलिनं शुचि । 011a
तत्र प्राणान्प्रमुञ्चेत तमीशानमनुस्मरन् ॥ 011c
ततोऽन्यदेहमासाद्य गान्धर्वं स्थानमाप्नुयात् । 012a
तत्रस्थो वसते विंशत्पद्मानि सुहहाद्युतिः ॥ 012c
गन्धर्वैश्चित्रसेनाद्यैः सहितः सत्कृतस्तथा । 013a
नीलवैडूर्यवर्णेन विमानेनावभासयन् ॥ 013c
नभस्थलमदीनात्मा सार्धमप्सरसां गणैः । 014a
छन्दकामानुसारी च तत्रतत्र महीयते ॥ 014c
मोदतेऽमरतुल्यात्मा सदाऽमरगणैः सह । 015a
पतितश्च क्षये काले क्षणेन विमलद्युतिः ॥ 015c
वैश्यस्य बहुवित्तस्य कुलेऽग्र्ये बहुगोधने । 016a
अवाप्य तत्र वै जन्म स पूतो देवकर्मणा ॥ 016c
छन्दसा जागतेनैव प्राप्तोपनयनं ततः । 017a
क्षौमवस्त्रोपकरणं द्विजत्वं समवाप्य तु ॥ 017c
अधीयमानो वेदार्थान्गुरुशुश्रूषणे रतः । 018a
ब्रह्मचारी जितक्रोधस्तपस्वी जायते ततः ॥ 018c
अधीत्य दक्षिणां दत्त्वा गुरवे विधिपूर्वकम् । 019a
कृतदारः समुपैति गृहस्थव्रतमुत्तमम् ॥ 019c
ददाति यजते चैव चज्ञैर्विपुलदक्षिणैः । 020a
अग्निहोत्रमुपासन्वै जुह्वच्चैव यथाविधिः ॥ 020c
धर्मं सञ्चिनुते नित्यं मृदुगामी जितेन्द्रियः । 021a
स कालपरिणामात्तु मृत्युना सम्प्रयुज्यते ॥ 021c
संस्कृतश्चाग्निहोत्रेण कृतपात्रोपधानवान् । 022a
संस्कृतो देहमुत्सृज्य मरुद्भिरुपपद्यते ॥ 022c
मरुद्भिः सहितश्चापि तुल्यतेजा महाद्युतिः । 023a
बालार्कसमवर्णेन विमानेन विराजता ॥ 023c
सुखं चरति तत्रस्थो गन्थर्वाप्सरसां गणैः । 024a
विरजोम्बरसंवीतस्तप्तकाञ्चनभूषणः ॥ 024c
छन्दकामानुसारी च द्विगुणं कालमावसेत् । 025a
सन्निवर्तेत कालेन स्थानादस्मात्परिच्युतः ॥ 025c
अवितृप्तविहारार्थो दिव्यभोगान्विहाय तु । 026a
सञ्जायते नृपकुले गजाश्वरथसङ्कुले ॥ 026c
पार्थिवीं श्रियमापन्नः श्रीमान्धर्मपतिर्यथा । 027a
जन्मप्रभृति संस्कारं चौलोपनयनानि च ॥ 027c
प्राप्य राजकुले तत्र यथावद्विधिपूर्वकम् । 028a
छ्दसा त्रैष्टुभेनेह द्विजत्वमुपनीयते ॥ 028c
अधीत्य वेदमखिलं धनुर्वेदं च मुख्यशः । 029a
समावृत्तस्ततः पित्रा यौवराज्येऽभिषिच्यते ॥ 029c
कृतदारक्रियः श्रीमान्राज्यं सम्प्राप्य धर्मतः । 030a
प्रजाः पालयते सम्यक् षड्भागकृतसंविधिः ॥ 030c
यज्ञैर्बहुभिरीजानः सम्यगाप्तार्थदक्षिणैः । 031a
प्रशासति महीं श्रीमान्राज्यमिन्द्रसमद्युतिः ॥ 031c
स्वधर्मनिरतो नित्यं पुत्रपौत्रसहायवान् । 032a
कालस्य वशमापन्नः प्राणांस्त्यजति संयुगे ॥ 032c
देवराजस्य भवनमिन्द्रलोकमवाप्नुते । 033a
सम्पूज्यमानस्त्रिदिवैर्विचचार यथासुखम् ॥ 033c
राजर्षिभिः पुण्यकृद्भिर्यथा देवपतिस्तथा । 034a
तैः स्तूयते वन्दिभिस्तु नानावाद्यैः प्रबोध्यते ॥ 034c
दिव्यजाम्बूनदमयं भ्राजमानं समन्ततः । 035a
वराप्सरोभिः सम्पूर्णं देवगन्धर्वसेवितम् ॥ 035c
यानमारुह्य विचरेद्यथा शक्रः शचीपतिः । 036a
स तत्र वसते षष्टिं पद्मानीह मुदान्वितः ॥ 036c
सर्वाल्ँलोकाननुचरन्महर्द्धिरवभासयन् । 037a
अथ पुण्यक्षयात्तस्मात्स्थाप्यते भुवि भारत । 037c
जायते च द्विजकुले वेदवेदाङ्गपारगे ॥' 037e
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि पञ्चाशदधिकशततमोऽध्यायः ॥ 150 ॥