श्रीः अध्यायः 149

भीष्मेण युधिष्ठिरम् प्रति यतिशुश्रूषादिनानाधर्मकथनम् ॥ 1 ॥

'पराशर उवाच 001
एवं प्रयतितव्यं हि शुश्रूषार्थमतन्द्रितैः । 001a
सर्वाभिरुपसेवाभिस्तुष्यन्ति यतयो यथा ॥ 001c
नापराध्येत भिक्षोस्तु न चैनमवधीरयेत् । 002a
उत्तरं च न सन्दद्यात्क्रुद्धं चैव प्रसादयेत् ॥ 002c
श्रेय एवाभिधातव्यं कर्तव्यं च प्रहृष्टवत् । 003a
तूष्णीम्भावेन वै तत्र न क्रुद्धमभिसंवदेत् ॥ 003c
नाददीत परस्वानि न गृह्णीयादयाचितम् । 004a
लब्धालब्धेन जीवेत तथैव परितोषयेत् ॥ 004c
कोपिनं तु न याचेत ज्ञानविद्वेषकारितः । 005a
स्थावरेषु दयां कुर्याज्जङ्गमेषु च प्राणिषु ॥ 005c
यथाऽऽत्मनि तथाऽन्येषु समां दृष्टिं निपातयेत् । 006a
सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि । 006c
सम्पश्यमानो विचरन्ब्रह्मभूयाय कल्पते ॥ 006e
हिंसां वा यदि वाऽहिंसां न कुर्यादात्मकारणात् । 007a
यत्रेतरो भवेन्नित्यं दोषं तत्र न कारयेत् ॥ 007c
एवं स मुच्यते दोषात्परानाश्रित्य वर्तयन् । 008a
आत्माश्रयेण दोषेण लिप्यते ह्यल्पबुद्धिमान् ॥ 008c
जरायुजाण्डजाश्चैव उद्भिज्जाः स्वेदजाश्व ये । 009a
अवध्याः सर्व एतैते बुधैः समनुवर्णिताः ॥ 009c
निश्चयार्थं विबुद्धानां प्रायश्चित्तं विधीयते । 010a
हिंसा यथाऽन्या विहिता तथा दोषं प्रयोजयेत् । 010c
तथोपदिष्टं गुरुणा शिष्यस्य चरतो विधिम् ॥ 010e
न हि लोभः प्रभवति हिंसा वाऽपि तदात्मिका । 011a
शास्त्रदर्शनमेतद्धि विहितं विश्वयोनिना ॥ 011c
यद्येतदेवं मन्येत शूद्रो ह्यपि च बुद्धिमान् । 012a
कृतं कृतवतां गच्छेत्किं पुनर्यो निषेवते ॥ 012c
न शूद्रः पतते कश्चिन्न च संस्कारमर्हति । 013a
नास्याधिकारो धर्मेऽस्ति न धर्मात्प्रतिषेधनम् ॥ 013c
अनुग्रहार्थं मनुना सर्ववर्णेषु वर्णितम् ।| 014ac
यदापवादस्तु भवेत्स्त्रीकृतः परिचारके | 015a
अभ्रावकाशशयनं तस्य संवत्सरं स्मृतम् । 015c
तेन तस्य भवेच्छान्तिस्ततो भूयोप्युपाव्रजेत् ॥ 015e
सवर्णाया भवेदेतद्धीनायास्त्वर्धमर्हति । 016a
वर्षत्रयं तु वैश्यायाः क्षत्रियायास्तु षट् समाः || 016c
ब्राह्मण्या तु समेतस्य समा द्वादश कीर्तिताः । 017a
कटाग्निना वा दग्धव्यस्तस्मिन्नेव क्षणे भवेत् । 017c
शिश्नावपातनाद्वाऽपि विशुद्धिं समवाप्नुयात् ॥ 017e
अनस्थिबन्धमेकं तु यदि प्राणैर्वियोजयेत् । 018a
उपोष्यैकाहमादद्यात्प्राणायामांस्तु द्वादश ॥ 018c
त्रिः स्नानमुदके कृत्वा तस्मात्पापात्प्रमुच्यते । 019a
अस्थिबन्धेषु द्विगुणं प्रायश्चित्तं विधीयते ॥ 019c
अनेन विधिना वाऽपि स्थावरेषु न संशयः । 020a
कायेन पद्भ्यां हस्ताभ्यामपराधात्तु मुच्यते ॥ 020c
अदुष्टं क्षपयेद्यस्तु सर्ववर्णेषु यश्चरेत् । 021a
तस्याप्यष्टगुणं विद्यात्प्रायश्चित्तं तदेव तु ॥ 021c
चतुर्गुणं कर्मकृते द्विगुणं वाक्प्रदूषिते । 022a
कृत्वा तु मानसं पापं तथैवैकगुणं स्मृतम् ॥ 022c
तस्मादेतानि सर्वाणि विदित्वा न समाचरेत् । 023a
सर्वभूतहितार्थं हि कुशलानि समाचरेत् ॥ 023c
एवं समाहितमनाः सेवते यदि सत्तमान् । 024a
तद्गतिस्तत्समाचारस्तन्मनास्तत्परायणः ॥ 024c
नाभिनन्देत मरणं नाभिनन्देत जीवितम् । 025a
कालमेव प्रतीक्षेत निर्वेशं भृतको यथा ॥ 025c
एवं प्रवर्तमानस्तु विनीतः प्रयतात्मवान् । 026a
निर्णयं पुण्यपापाभ्यामचिरेणोपगच्छति ॥' 026c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकोनपञ्चाशदधिकशततमोऽध्यायः ॥ 149 ॥