श्रीः अध्यायः 148
भीष्मेण युधिष्ठिरम् प्रति यतिशुश्रूषाप्रशंसनम् ॥ 1 ॥
'पराशर उवाच 001
न तथा सम्प्रदानेन नोपवासादिभिस्तथा । 001a
इष्टां गतिमवाप्नोति यथा शुश्रूषकर्मणा ॥ 001c
यादृशेन तु तोयेन शुद्धिं प्रकुरुते नरः । 002a
तादृग्भवति तद्धौतमुदकस्य प्रभावतः ॥ 002c
शूद्रोप्येतेन मार्गेण यादृशं सेवते जनम् । 003a
तादृग्भवति संसर्गादचिरेण न संशयः ॥ 003c
तस्मात्प्रयत्नतः सेव्या भिक्षवो नियतात्मना । 004a
उदकग्रहणाद्येन स्नपनोद्वर्तनैस्तथा ॥ 004c
अध्वना कर्शितानां च व्याधितानां तथैव च । 005a
शुश्रूषां नियतं कुर्यात्तेषामापदि यत्नतः ॥ 005c
दर्भाजिनान्यवेक्षेत भैक्षभाजनमेव च । 006a
यथाकामं च कार्याणि सर्वाण्येवोपसाधयेत् । 006c
प्रायश्चित्तं यता न स्यात्तथा सर्वं समाचरेत् ॥ 006e
व्याधितानां तु भिक्षूणां चेलप्रक्षालनादिभिः । 007a
प्रतिकर्मक्रिया कार्या भेषजानयनैस्तथा ॥ 007c
पिंषणालेपनं चूर्णं कषायमथ साधनम् । 008a
नान्यस्य प्रतिचारेषु सुखार्थमुपपादयेत् ॥ 008c
भिक्षाटनोऽभिगच्छेत भिषजश्च विपश्चितः । 009a
ततो विनिष्क्रियार्थानि द्रव्याणि समुपार्जयेत् ॥ 009c
यश्च प्रीतमना दद्यादादद्याद्भेषजं नरः । 010a
अश्रद्धया हि दत्तानि तान्यभोक्ष्याणि भिक्षुभिः ॥ 010c
श्रद्धया यदुपादत्तं श्रद्धया चोपपादितम् । 011a
तस्योपभोगाद्धर्मः स्याद्व्याधिभिश्च निवर्त्यते ॥ 011c
आदेहपतनादेवं शुश्रूषेद्विधिपूर्वकम् । 012a
न त्वेवं धर्ममुत्सृज्य कुर्यात्तेषां प्रतिक्रियाम् ॥ 012c
स्वभावतो हि द्वन्द्वानि विप्रयान्त्युपयान्ति च । 013a
स्वभावतः सर्वभावा भवन्ति नभवन्ति च । 013c
सागरस्योर्मिसदृशा विज्ञातव्या गुणात्मकाः ॥ 013e
विद्यादेवं हि यो धीमांस्तत्ववित्तत्वदर्शनः । 014a
न स लिप्येत पापेन पद्मपत्रमिवाम्भसा ॥' 014c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि अष्टचत्वारिंशदधिकशततमोऽध्यायः ॥ 148 ॥