श्रीः अध्यायः 147
भीष्मेण युधिष्ठिरम् प्रति ब्राह्मणादिधर्मनिरूपणपूर्वकं शूद्रस्य यतिशुश्रूषाप्रकारनिरूपणम् ॥ 1 ॥
'पराशर उवाच 001
क्षत्रा आरम्भयज्ञास्तु वीर्ययज्ञा विशः स्मृताः । 001a
शूद्रा परिचरायज्ञा जपयज्ञास्तु ब्राह्मणाः ॥ 001c
शुश्रूषाजीविनः शूद्रा वैश्या विपणिजीविनः । 002a
अनिष्टनिग्रहः क्षत्रा विप्राः स्वाध्यायजीविनः ॥ 002c
तपसा शोभते विप्रो राजन्यः पालनादिभिः । 003a
आतिथ्येन तथा वैश्यः शूद्रो दास्येन शोभते ॥ 003c
यतात्मना तु शूद्रेण शुश्रूषा नित्यमेव च | 004a
कर्तव्या त्रिषु वर्णेषु प्रायेणाश्रमवासिषु ॥ 004c
अशक्तेन त्रिवर्गस्य सेव्या ह्याश्रमवासिनः । 005a
यथाशक्यं यथाप्रज्ञं यथाधर्मं यथाश्रुतम् ॥ 005c
विशेषेणैव कर्तव्या शुश्रूषा भिक्षुकाश्रमे ॥ 006ac
आश्रमाणां तु सर्वेषां चतुर्णां भिक्षुकाश्रमम् । 007a
प्रधानमिति वर्ण्यन्ते शिष्टाः शास्त्रविनिश्चये ॥ 007c
यच्चोपदिश्यते शिष्टैः श्रुतिस्मृतिविधानतः । 008a
तथाऽऽस्थेयमशक्तेन स धर्म इति निश्चितः ॥ 008c
अतोऽन्यथा तु कुर्वाणः श्रेयो नाप्नोति मानवः । 009a
तस्माद्भिक्षुषु शूद्रेण कार्यमात्महितं सदा ॥ 009c
इह यत्कुरुते श्रेयस्तत्प्रेत्य समुपाश्नुते । 010a
तच्चानसूयता कार्यं कर्तव्यं यद्धि मन्यते ॥ 010c
असूयता तु तस्येह फलं दुःखादवाप्यते । 011a
प्रियवादी जितक्रोधो वीततन्द्रीरमत्सरः ॥ 011c
क्षमावाञ्शीलसम्पन्नः सत्यधर्मपरायणः । 012a
आपद्भावेन कुर्याद्धि शुश्रूषां भिक्षुकाश्रमे ॥ 012c
अयं मे परमो धर्मस्त्वनेनेदं सुदुष्करम् । 013a
संसारसागरं घोरं तरिष्यामि न संशयः ॥ 013c
विभयो देहमुत्सृज्य यास्यामि परमां गतिम् । 014a
नातः परं ममाप्यन्य एष धर्मः सनातनः ॥ 014c
एवं सञ्चिन्त्य मनसा शूद्रो बुद्धिसमाधिना । 015a
कुर्यादविमना नित्यं शुश्रूषाधर्ममुत्तमम् ॥ 015c
शुश्रूषानियमेनेह भाव्यं शिष्टाशिना सदा । 016a
शमान्वितेन दान्तेन कार्याकार्यविदा सदा ॥ 016c
सर्वकार्येषु कृत्यानि कृतान्येव तु दुर्शयेत् । 017a
यथा प्रियो भवेद्भिक्षुस्तथा कार्यं प्रसाधयेत् ॥ 017c
यदकल्प्यं भवेद्भिक्षोर्न तत्कार्यं समाचरेत् । 018a
यथाऽऽश्रमस्याविरुद्धं धर्ममात्राभिसंहितम् ॥ 018c
तत्कार्यमविचारेण नित्यमेव शुभार्थिना । 019a
मनसा कर्ममा वाचा नित्यमेव प्रसादयेत् ॥ 019c
स्थातव्यं तिष्ठमानेषु गच्छमानाननुव्रजेत् । 020a
आसीनेष्वासितव्यं च नित्यमेवानुवर्तता ॥ 020c
धर्मलब्धेन स्नेहेन पादौ सम्पीडयेत्सदा । 021a
उद्वर्तनादींश्च तथा कुर्यादप्रतिचोदितः ॥ 021c
नैजकार्याणि कृत्वा तु नित्यं चैवानुचोदितः । 022a
यथाविधिरुपस्पृश्य सन्न्यस्य जलभाजनम् ॥ 022c
भिक्षूणां निलयं गत्वा प्रणम्य विधिपूर्वकम् । 023a
ब्रह्मपूर्वान्गुरूंस्तत्र प्रणम्य नियतेन्द्रियः ॥ 023c
तथाऽऽचार्यपुरोगाणामनुकुर्यान्नमस्क्रियाम् । 024a
स्वधर्मचारिणां चापि सुखं पृष्ट्वाऽभिवाद्य च ॥ 024c
यो भवेत्पूर्वसंसिद्धस्तुल्यकर्मा भवेत्सदा । 025a
तस्मै प्रणामः कर्तव्यो नेतरेषु कदाचन ॥ 025c
अनुक्त्वा तेषु चोत्थाय नित्यमेव यतव्रतः । 026a
सम्मार्जनमथो गत्वा कृत्वा चाप्युपलेपनम् ॥ 026c
ततः पुष्पबलिं दद्यापुष्पाण्यादाय धर्मतः । 027a
निष्क्रम्यावसथात्तूर्णमन्यत्कर्म समाचरेत् ॥ 027c
यथोपघातो न भवेत्स्वाध्यायेऽऽश्रमिणां तथा । 028a
उपघातं तु कुर्वाण एनसा सम्प्रयुज्यते । 028c
तथाऽऽत्मा प्रणिधातव्यो यथा ते प्रीतिमाप्नुयुः ॥ 028e
परिचारकोऽहं वर्णानां त्रयाणां धर्मतः स्मृतः । 029a
किमुताश्रमवृद्धानां यथालब्धोपजीविनाम् ॥ 029c
भिक्षूणां गतरागाणां केवलं ज्ञानदर्शिनाम् । 030a
विशेषेण मया कार्या शुश्रूषा नियतात्मना ॥ 030c
तेषां प्रसादात्तपसा प्राप्स्यामीष्टां शुभां गतिम् । 031a
एवमेतद्विनिश्चित्य यदि सेवेत भिक्षुकान् । 031c
विधिना स्वोपदिष्टेन प्राप्नोति परमां गतिम् ॥' 031e
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि सप्तचत्वारिंशदधिकशततमोऽध्यायः ॥ 147 ॥
7-147-1 हविर्यज्ञा विशः स्मृता इति ङ. थ. पाठः ॥