श्रीः अध्यायः 146
भीष्मेण युधिष्ठिरम् प्रति शूद्रधर्माणां मृत्तिकाशौचादीनां च निरूपणम् ॥ 1 ॥
*युधिष्ठिर उवाच 001
शूद्राणामिह शुश्रूषा नित्यमेवानुवर्णिता । 001a
कैः कारणैः कतिविधा शुश्रूषा समुदाहृता ॥ 001c
के च शुश्रूषया लोका विहिता भरतर्षभ । 002a
शुद्राणां भरतश्रेष्ठ ब्रूहि मे धर्मलक्षणम् ॥ 002c
भीष्म उवाच 003
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 003a
शूद्राणामनुकम्पार्थं यदुक्तं ब्रह्मवादिना ॥ 003c
वृद्धः पराशरः प्राह धर्मं शुभ्रमनामयम् । 004a
अनुग्रहार्थं वर्णानां शौचाचारसमन्वितम् ॥ 004c
धर्मोपदेशमखिलं यथावदनुपूर्वशः । 005a
शिष्यानध्यापयामास शास्त्रमर्थवदर्थवित् ॥ 005c
क्षान्तेन्द्रियेण मानेन शुचिनाऽचापलेन वै । 006a
अदुर्बलेन धीरेण शान्तेनोत्तरवादिना ॥ 006c
अलुब्धेनानृशंसेन ऋजुना ब्रह्मवादिना । 007a
चारित्रतत्परेणैव सर्वभूतहितात्मना ॥ 007c
अरयः षड्विजेतव्या नित्यं स्वं देहमाश्रिताः । 008a
कामक्रोधौ च लोभश्च मानमोहौ मदस्तथा ॥ 008c
विधिना धृतिमास्थाय शुश्रूषुरनहङ्कृतः । 009a
वर्णत्रयस्यानुमतो यथाशक्ति यथाबलम् ॥ 009c
कर्मणा मनसा वाचा चक्षुषा च चतुर्विधम् । 010a
आस्थाय नियमं धीमाञ्शान्तो दान्तो जितेन्द्रियः ॥ 010c
रक्षोयक्षजनद्वेषी शेषान्नकृतभोजनः । 011a
वर्णत्रयान्मधु यथा भ्रमरो धर्ममाचरेत् ॥ 011c
यदि शूद्रस्तपः कुर्याद्वेददृष्टेन कर्मणा | 012a
इह चास्य परिक्लेशः प्रेत्य चास्याशुभागतिः ॥ 012c
अधर्म्यमयशस्यं च तपः शूद्रे प्रतिष्ठितम् । 013a
अमार्गेण तपस्तप्त्वा म्लेच्छेषु फलमश्नुते ॥ 013c
अन्यथा वर्तमानो हि न शूद्रो धर्ममर्हति । 014a
अमार्गेणि प्रयातानां प्रत्यक्षादुपलभ्यते । 014c
चातुर्वर्ण्यव्यपेतानां जातिमूर्तिपरिग्रहः ॥ 014e
तथा ते हि शकाश्चीनाः काम्भोजाः पारदास्तथा । 015a
शबराः पप्लवाश्चैव तुषारयवनास्तथा ॥ 015c
दार्वाश्च दरदाश्चैव उज्जिहानास्तथेतराः । 016a
वेणाश्च कङ्कणाश्चैव सिंहला मद्रकास्तथा ॥ 016c
किष्किन्धकाः पुलिन्दाश्च कह्वाश्चान्ध्राः सनीरगाः । 017a
गन्धिका द्रमिडाश्चैव बर्बराश्चूचुकास्तथा ॥ 017c
किराताः पार्वतेयाश्च कोलाश्चोलाः सखाषकाः । 018a
आरूकाश्चैव दोहाश्च याश्चान्याम्लेच्छजातयः ॥ 018c
विकृता विकृताचारा दृश्यन्ते क्रूरबुद्धयः । 019a
अमार्गेणाश्रिता धर्मं ततो जात्यन्तरं गताः ॥ 019c
अमार्गोपार्जितस्यैतत्तपसो विदितं फलम् । 020a
न नश्यति कृतं कर्म शुभं वा यदि वाऽशुभम् ॥ 020c
अत्राप्येते वसु प्राप्य विकर्म तपसार्जितम् । 021a
पाषण्डानर्चयिष्यन्ति धर्मकामा वृथा श्रमाः ॥ 021c
एवं चतुर्णां वर्णानामाश्रमाणां च पार्थिव । 022a
विपरीतं वर्तमाना म्लेच्छा जायन्त्यबुद्धयः ॥ 022c
अध्यायधनिनो विप्राः क्षत्रियाणां बलं धनम् । 023a
वणिक्कृषिश्च वैश्यानां शूद्राणां परिचारिका ॥ 023c
व्युच्छेदात्तस्य धर्मस्य निरयायोपपद्यते । 024a
ततो म्लेच्छा भवन्त्येते निर्घृणा धर्मवर्जिताः । 024c
पुनश्च निरयं तेषां तिर्यग्योनिश्च शाश्वती ॥ 024e
ये तु सत्यथमास्थाय वर्णाश्रमकृतं पुरा । 025a
सर्वान्विमार्गानुत्सृज्य स्वधर्मविधिमाश्रिताः ॥ 025c
सर्वभूतदयावन्तो दैवतद्विजपूजकाः । 026a
शास्त्रदृष्टेन विधिना श्रद्धया जितमन्यवः ॥ 026c
तेषां विधिं प्रवक्ष्यामि यथावदनुपूर्वशः । 027a
उपादानविधिं कृत्स्नं शुश्रूषाधिगमं तथा ॥ 027c
शिष्टोपनयनं चैव मन्त्राणि विविधानि च | 028a
तथा शिष्यपरीक्षां च शास्त्रप्रामाण्यदर्शनात् ॥ 028c
प्रवक्ष्यामि यथातत्वं यथावदनुपूर्वशः । 029a
शौचकृत्यस्य शौचार्थान्सर्वानेव विशेषतः ॥ 029c
महाशौचप्रभृतयो दृष्टास्तत्वार्थदर्शिभिः । 030a
तत्रापि शूद्रो भिक्षूणामिदं शेषं च कल्पयेत् ॥ 030c
भिक्षुभिः सुकृतप्रज्ञैः केवलं धर्ममाश्रितैः । 031a
सम्यद्गर्शनसम्पन्नैर्गताध्वनि हितार्थिभिः । 031c
अवकाशमिमं मेध्यं निर्मितं कामवीरुधम् ॥ 031e
निर्जनं संवृतं बुद्ध्वा नियतात्मा जितेन्द्रियः । 032a
सजलं भाजनं स्थाप्य मृत्तिकां च परीक्षिताम् ॥ 032c
परीक्ष्य भूमिं मूत्रार्थी तत आसीत वाग्यतः । 033a
उदङ्मुखो दिवा कुर्याद्रात्रौ चेद्दक्षिणामुखः ॥ 033c
अन्तर्हितायां भूमौ तु अन्तर्हितशिरास्तथा । 034a
असमाप्ते तथा शौचे न वाचं किञ्चिदीरयेत् ॥ 034c
कृतकृत्यस्तथाऽऽचम्य गच्छन्नोदीरयेद्वचः । 035a
शौचार्थमुपविष्टस्तु मृद्भाजनपुरस्कृतः ॥ 035c
स्थाप्यं कमण्डलुं गृह्य पार्श्वोरुभ्यामथान्तरे । 036a
शौचं कुर्याच्छनैर्वीरो बुद्धिपूर्वमसङ्करम् ॥ 036c
पाणिना शुद्धमुदकं सङ्गृह्य विधिपूर्वकम् । 037a
विप्रुषश्च यता न स्युर्यथा चोरू न संस्पृशेत् ॥ 037c
अपाने मृत्तिकास्तिस्रः प्रदेयास्त्वनुपूर्वशः । 038a
हस्ताभ्यां च तथा विप्रो हस्तं हस्तेन संस्पृशेत् || 038c
अपाने नव देयाः स्युरिति वृद्धानुशासनम् । 039a
मृत्तिका दीयमाना हि शोधयेद्देशमञ्जसा ॥ 039c
तस्मात्पाणितले देया मृत्तिकास्तु पुनः पुनः । 040a
बृद्धिपूर्वं प्रयत्नेन यथा नैव स्पृशेत्स्फिजौ ॥ 040c
यथा घातो हि न भवेत्क्लेदजः परिधानके । 041a
तथा गुदं प्रमार्जेत शौचार्थं तु पुनःपुनः ॥ 041c
प्रतिपादं ततस्त्यक्त्वा शौचमुत्थाय कारयेत् । 042a
सव्ये द्वादश देयाः स्युस्तिस्रस्तिस्रः पुनः पुनः || 042c
देया कूर्परके हस्ते पृष्ठे बन्धे पुनः पनः । 043a
तथैवादर्शके दद्याच्चतस्रस्तूभयोरपि । 043c
उभयोर्हस्तयोरेवं सप्तसप्त प्रदापयेत् ॥ 043e
ततोऽन्यां मृत्तिकां गृह्य कार्यं शौचं पुनस्तयोः । 044a
हस्तयोरेवमेतद्धि महाशौचं विधीयते । 044c
ततोऽन्यथा न कुर्वीत विधिरेष सनातनः ॥ 044e
उपस्थे मूत्रशौचं स्यादत ऊर्ध्वं विधीयते । 045a
अतोऽन्यथा तु यः कुर्यात्प्रायश्चित्तीयते तु सः ॥ 045c
मलोपहतचेलस्य द्विगुणं तु विधीयते । 046a
सहपादमथोरुभ्यां हस्तशौचमसंशयम् ॥ 046c
अवधीरयमाणस्य सन्देह उपजायते । 047a
यथायथा विशुद्ध्येत तत्तथा तदुपक्रमे ॥ 047c
सकर्दमं तु वर्षासु गृहमाविश्य सङ्कटम् । 048a
हस्तयोर्मृत्तिकास्तिस्रः पादयोः षट् प्रदापयेत् ॥ 048c
कामं दत्त्वा गुदे दद्यात्तिस्रः पद्भ्यां तथैव च | 049a
हस्तशौचं प्रकर्तव्यं मूत्रशौचविधेस्तथा ॥ 049c
मूत्रशौचे तथा हस्तौ पादाभ्यां चानुपूर्वशः । 050a
नैष्ठिके स्थानशौचे तु महाशौचं विधीयते ॥ 050c
क्षारौषराभ्यां वस्त्रस्य कुर्याच्छौचं मृदा सह । 051a
लेपगन्धापनयनममेध्यस्य विधीयते ॥ 051c
स्नानशाट्यां मृदस्तिस्रो हस्ताभ्यां चानुपूर्वशः । 052a
शौचं प्रयत्नतः कृत्वा कम्पमानः समुद्धरेत् ॥ 052c
देयाश्चतस्रस्तिस्रो वा द्वे वाऽप्येकां तथाऽऽपदि । 053a
कालमासाद्य देशं च शौचस्य गुरुलाघवम् ॥ 053c
विधिनाऽनेन शौचं तु नित्यं कुर्यादतन्द्रितः । 054a
अविप्रेक्षन्नसम्भ्रान्तः पादौ प्रक्षाल्य तत्परः ॥ 054c
अप्रक्षालितपादस्तु पाणिमामणिबन्धनात् । 055a
अधस्तादुपरिष्टाच्च ततः पाणिमुपस्पृशेत् ॥ 055c
मनोगतास्तु निश्शब्दा निश्शब्दं त्रिरपः पिबेत् । 056a
द्विर्मुखं परिमृज्याच्च खानि चोपस्पृशेद्बुधः ॥ 056c
ऋग्वेदं तेन प्रीणाति प्रथमं यः पिबेदपः । 057a
द्वितीयं तु यजुर्वेदं तृतीयं साम एव च ॥ 057c
मृज्यते प्रथमं तेन अथर्वा प्रीतिमाप्नुयात् । 058a
द्वितीयेनेतिहासं च पुराणस्मृतिदेवताः ॥ 058c
यच्चक्षुषि समाधत्ते तेनादित्यं तु प्रीणयेत् । 059a
प्रीणाति वायुं घ्राणं च दिशश्चाप्यथ श्रोत्रयोः ॥ 059c
ब्रह्माणं तेन प्रीणाति यन्मूर्धनि समापयेत् । 060a
समुत्क्षिपति चापोर्ध्वमाकाशं तेन प्रीणयेत् ॥ 060c
प्रीणाति विष्णुः पद्भ्यां तु सलिलं वै समादधत् ॥ 061ac
प्राङ्मुखोदङ्मुखो वाऽपि अन्तर्जानुरुपस्पृशेत् । 062a
सर्वत्र विधिरित्येष भोजनादिषु नित्यशः ॥ 062c
अन्नेषु दन्तलग्नेषु उच्छिष्टः पुनराचमेत् । 063a
विधिरेष समुद्दिष्टः शौचे चाभ्युक्षणं स्मृतम् ॥ 063c
शूद्रस्यैष विधिर्दृष्टो गृहान्निष्क्रमतस्ततः । 064a
नित्यं त्वलुप्तशौचेन वर्तितव्यं कृतात्मना । 064c
यशस्कामेन भिक्षुभ्यः शूद्रेणात्महितार्थिना ॥' 064e
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि षट्चत्वारिंशदधिकशततमोऽध्यायः ॥
- एतदाद्यष्टाध्याया दाक्षिण्यत्यकोशेष्वेव दृश्यन्ते । 7-146-2 शुश्रूषां भरतश्रेष्ठति ट. पाठः ॥ 7-146-11 नित्यं रक्ष जनाद्वेषीति क. पाठः ॥ 7-146-12 विकृताकारा इति थ. पाठः ॥ 7-146-25 स्वधर्मपथमाश्रिताः इति क. ट. थ. पाठः ॥ 7-146-48 पदमाविश्य सङ्कटम् इति थ. पाठः ॥