श्रीः अध्यायः 145
जमदग्निना सौरातपतापनिवारणोपायकल्पनं चोदितेन सूर्येण तस्मै छत्रोपानत्प्रदानम् ॥ 1 ॥ एवं भीष्मेण युधिष्ठिरम् प्रति तत्प्रवृत्तिकथनपूर्वकं तद्वानप्रशंसनम् ॥ 2 ॥
युधिष्ठिर उवाच 001
एवं प्रयाचति तदा भास्करे मुनिसत्तमः । 001a
जमदग्निर्महातेजाः किं कार्यं प्रत्यपद्यत ॥ 001c
भीष्म उवाच 002
स तथा याचमानस्य मुनिरग्निसमप्रभः । 002a
जमदग्निः शमं नैव जगाम कुरुनन्दन ॥ 002c
ततः सूर्यो मधुरया वाचा तमिदमब्रवीत् । 003a
कृताञ्जलिर्विप्ररूपी प्रणम्यैनं विशाम्पते ॥ 003c
चलं निमित्तं विप्रर्षे सदा सूर्यस्य गच्छतः । 004a
कथं चलं भेत्स्यसि त्वं सदा यान्तं दिवाकरम् ॥ 004c
जमदग्निरुवाच 005
स्थिरं चापि चलं चापि जाने त्वां ज्ञानचक्षुषा । 005a
अवश्यं विनयाधानं कार्यमद्य मया तव ॥ 005c
मध्याह्ने वै निमेषार्धं तिष्टसि त्वं दिवाकर । 006a
तत्र भेत्स्यामि सूर्य त्वां न मेऽत्रास्ति विचारणा ॥ 006c
सूर्य उवाच 007
असंशयं मां विप्रर्षे भेत्स्यसे धन्विनांवर । 007a
अपकारिणं मां विद्धि भगवञ्शरणागतम् ॥ 007c
भीष्म उवाच 008
ततः प्रहस्य भगवाञ्जमदग्निरुवाच तम् । 008a
न भीः सूर्य त्वया कार्या प्रणिपातगतो ह्यसि ॥ 008c
ब्राह्मणेष्वार्जवं यच्च स्थैर्यं च धरणीतले । 009a
सौम्यतां चैव सोमस्य गाम्भीर्यं वरुणस्य च ॥ 009c
दीप्तिमग्नेः प्रभां मेरोः प्रतापं धनदस्य च । 010a
एतान्यतिक्रमेद्यो वै स हन्याच्छरणागतम् ॥ 010c
भवेत्स गुरुतल्पी च ब्रह्महा च स वै भवेत् । 011a
सुरापानं स कुर्याच्च यो हन्याच्छरणागतम् ॥ 011c
एतस्य त्वपनीतस्य समाधिं तात चिन्तय । 012a
यथा सुखगमः पन्था भवेत्त्वद्रश्मितापितः ॥ 012c
भीष्म उवाच 013
एतावदुक्त्वा स तदा तूष्णीमासीद्भृगूत्तमः । 013a
अथ सूर्योऽददत्तस्मै छत्रोपानहमाशु वै ॥ 013c
सूर्य उवाच 014
महर्षे शिरसस्त्राणां छत्रं मद्रश्मिवारणम् । 014a
प्रतिगृह्णीष्व पद्भ्यां च त्राणार्थं चर्मपादुके || 014c
अद्यप्रभृति चैवेह लोके सम्प्रचरिष्यति । 015a
पुण्यकेषु च सर्वेषु परमक्षय्यमेव च ॥ 015c
भीष्म उवाच 016
उपानहौ च च्छत्रं च सूर्येणैतत्प्रवर्तितम् । 016a
पुण्यमेतदभिख्यातं त्रिषु लोकेषु भारत ॥ 016c
तस्मात्प्रयच्छ विप्रेषु छत्रोपानहमुत्तमम् । 017a
धर्मस्ते सुमहान्भावी न मेऽत्रास्ति विचारणा ॥ 017c
छत्रं हि भरतश्रेष्ठः यः प्रदद्याद्द्विजातये । 018a
शुभ्रं शतशलाकं वै स प्रेत्य सुखमेधते ॥ 018c
स शक्रलोके वसति पूज्यमानो द्विजातिभिः । 019a
अप्सरोभिश्च सततं देवैश्च भरतर्षभ ॥ 019c
उपानहौ च यो दद्याच्छ्लक्ष्णौ स्नेहसमन्वितौ । 020a
स्नातकाय महाबाहो संशिताय द्विजातये ॥ 020c
सोपि लोकानवाप्नोति देवतैरभिपूजितान् । 021a
गोलोके स मुदा युक्तो वसति प्रेत्य भारत ॥ 021c
एतत्ते भरतश्रेष्ठ मया कार्त्स्न्येन कीर्तितम् । 022a
छत्रोपानहदानस्य फलं भरतसत्तम ॥ 022c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि पञ्चचत्वारिंशदधिकशततमोऽध्यायः ॥ 145 ॥
7-145-4 निमित्तं लक्ष्यम् ॥ 7-145-9 ब्राह्मणेष्वपि यज्झानमिति ट. ध. पाठः ॥ 7-145-12 अपनीतस्यापनयस्य सन्तापनरूपस्य समाधिं समाधानम् ॥