श्रीः अध्यायः 144

भीष्मेण युधिष्ठिरम् प्रति छत्रोपानत्प्रवृत्तिप्रदाननिदानकथनाय सूर्यजमदग्निसंवादानुवादः ॥ 1 ॥ जमदग्निना रेणुकायाः स्वधनुर्निस्सृतशराणाम् पुनःपुनरादाने नियोजनेन बाणक्रीडारम्भः ॥ 2 ॥ रेणुकया सूर्यतेजःप्रतप्तशिरःपादतया तरुच्छायाश्रयणेन शरानयनविलम्बने रुष्टेन मुनिना तत्कारणप्रश्नः ॥ 3 ॥ रेणुकया तन्निवेदने मुनिना कोपाच्छस्त्रेण भूमौ सूर्यनिपातनोद्यमनम् ॥ 4 ॥ भयात्सूर्येण विप्ररूपधारणेन भुवमेत्य तत्प्रसादनम् ॥ 5 ॥

युधिष्ठिर उवाच 001
यदिदं श्राद्धकृत्येषु दीयते भरतर्षभ । 001a
छत्रं चोपानहौ चैव केनैतत्सम्प्रवर्तितम् ॥ 001c
कथं चैतत्समुत्पन्नं किमर्थं चैव दीयते । 002a
न केवलं श्राद्धकृत्ये पुण्यकेष्वपि दीयते ॥ 002c
बहुष्वपि निमित्तेषु पुण्यमाश्रित्य दीयते । 003a
एतद्विस्तरतो ब्रह्मञ्श्रोतुमिच्छामि तत्त्वतः ॥ 003c
भीष्म उवाच 004
शृणु राजन्नवहितश्छत्रोपानहविस्तरम् । 004a
यथैतत्प्रथितं लोके यथा चैतत्प्रवर्तितम् ॥ 004c
यथा चाक्षय्यतां प्राप्तं पुण्यतां च यथागतम् । 005a
सर्वमेतदशेषेण प्रवक्ष्यामि नराधिप ॥ 005c
'इतिहासं पुरावृत्तमिदं शृणु नराधिप ।' 006a
जमदग्नेश्च संवादं सूर्यस्य च महात्मनः ॥ 006c
पुरा स भगवान्साक्षाद्धनुषा क्रीडति प्रभो । 007a
सन्धायसन्धाय शरांश्चिक्षेप किल भार्गवः ॥ 007c
तान्क्षिप्तान्रेणुका सर्वांस्तस्येषून्दीप्ततेजसः । 008a
आनीय सा तदा तस्मै प्रादादसकृदच्युत ॥ 008c
अथ तेन स शब्देन ज्यायाश्चैव शरस्य च | 009a
प्रहृष्टः सम्प्रचिक्षेप सा च प्रत्याजहार तान् ॥ 009c
ततो मध्याह्नमारूढे ज्येष्ठामूले दिवाकरे । 010a
स सायकान्द्विजो मुक्त्वा रेणुकामिदमब्रवीत् ॥ 010c
गच्छानय विशालाक्षि शरानेतान्धनुश्च्युतान् । 011a
यावदेतान्पुनः सुभ्रु क्षिपामीति जनाधिप ॥ 011c
सा गच्छन्त्यन्तरा छायां वृक्षमाश्रित्य भामिनी । 012a
तस्थौ तस्या हि सन्तप्तं शिरः पादौ तथैव च ॥ 012c
स्थिता सा तु मूहूर्तं वै भर्तुः शापभयाच्छुभा । 013a
ययावानयितुं भूयः सायकानसितेक्षणा । 013c
प्रत्याजगाम च शरांस्तानादाय यशस्विनी ॥ 013e
सा वै प्रस्विन्नसर्वाङ्गी पद्भ्यां दुःखं नियच्छती । 014a
उपाजगाम भर्तारं भयाद्भर्तुः प्रवेपती ॥ 014c
स तामृषिस्तदा क्रुद्धो वाक्यमाह शुभाननाम् । 015a
रेणुके किं चिरेण त्वमागतेति पुनःपुनः ॥ 015c
रेणुकोवाच 016
शिरस्तप्तं प्रदीप्तौ मे पादौ चैव तपोधन । 016a
सूर्यतेजोनिरुद्धाऽहं वृक्षच्छायां समाश्रिता ॥ 016c
एतस्मात्कारणाद्ब्रह्मंश्चिरायैतत्कृतं मया । 017a
एतच्छ्रुत्वा मम विभो मा क्रुधस्त्वं तपोधन ॥ 017c
जमदग्निरुवाच 018
अद्यैनं दीप्तकिरणं रेणुके तव दुःखदम् । 018a
शरैर्निपातयिष्यामि सूर्यमस्त्राग्नितेजसा ॥ 018c
भीष्म उवाच 019
स विष्फार्य धनुर्दिव्यं गृहीत्वा च शरान्बहून् । 019a
अतिष्ठत्सूर्यमभितो यतो याति ततोमुखः ॥ 019c
अथ तं प्रेक्ष्य सन्नद्धं सूर्योऽभ्येत्य वचोऽब्रवीत् । 020a
द्विजरूपेण कौन्तेय किं ते सूर्योऽपराध्यति ॥ 020c
आदत्ते रश्मिभिः सूर्यो दिवि तिष्ठंस्ततस्ततः । 021a
रसं हृतं वै वर्षासु प्रवर्षति दिवाकरः ॥ 021c
ततोऽन्नं जायते विप्र मनुष्याणां सुखावहम् । 022a
अन्नं प्राणा इति यथा वेदेषु परिपठ्यते ॥ 022c
अथाऽभ्रेषु निगूढश्च रश्मिभिः परिवारितः । 023a
सप्तद्वीपानिमान्ब्रह्मन्वर्षेणाभिप्रवर्षति ॥ 023c
ततस्तदौषधीनां च वीरुधां पुष्पपत्रजम् । 024a
सर्वं वर्षाभिनिर्वृत्तमन्नं सम्भवति प्रभो ॥ 024c
जातकर्माणि सर्वाणि व्रतोपनयनानि च | 025a
गोदानानि विवाहाश्च तथा यज्ञसमृद्धयः ॥ 025c
सत्राणि दानानि तथा संयोगा वित्तसञ्चयाः । 026a
अन्नतः सम्प्रवर्तन्ते यथा त्वं वेत्थ भार्गव ॥ 026c
रमणीयानि यावन्ति यावदारम्भिकाणि च | 027a
सर्वमन्नात्प्रभवति विदितं कीर्तयामि ते ॥ 027c
सर्वं हि वेत्थ विप्र त्वं यदेतत्कीर्तितं मया । 028a
प्रसादये त्वां विप्रर्षे किं ते सूर्यो निपात्यते ॥ 028c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि चतुश्चत्वारिंशदधिकशततमोऽध्यायः ॥ 144 ॥

7-144-2 पुण्यकेषु स्त्रीणां व्रतोत्सवेषु ॥ 7-144-4 ज्येष्ठामूले दक्षिणावर्ते भ्रममाणे भचक्रे ज्येष्ठानां समसूत्रे पतितं रोहिणीनक्षत्रं तदेव ज्येष्ठानां मूलम् । यथाश्रुतार्थग्रहणं तु न । ज्येष्ठामूलस्थेर्के हेमन्ते शिरःपाददाहस्यानवसरात् । लोके येन चैव प्रकीर्तितमिति ध. पाठः ॥ 7-144-10 द्विजो विङ्क्तेति ट. ध. पाठः ॥ 7-144-28 किं ते सूर्यं निपात्य वै इति झ. पाठः ॥