श्रीः अध्यायः 143

सम्भूय तीर्थयात्रां कुर्वद्भिर्द्विजर्षिभी राजर्षिभिश्च क्रमेण ब्रह्मसरःप्रति गमनम् ॥ 1 ॥ तत्रागस्त्येन ह्रदात्समुद्धृतपद्मस्य धर्मशुश्रूषुणेन्द्रेण गूढमपहारे ऋषिभी राजभिश्च स्वेषु पुष्करस्तेयं शङ्कमानमगस्त्यम् प्रति प्रत्येकशो नानाशपथकरणम् ॥ 2 ॥ पश्चादिन्द्रेण स्वस्वरूपप्रकाशनपूर्वकं स्वेन पुष्करापहारस्य प्रयोजननिवेदनेन तत्प्रसादनम् ॥ 3 ॥

भीष्म उवाच 001
अत्रैवोदाहरन्तीममितिहासं पुरातनम् । 001a
यद्वृत्तं तीर्थयात्रायां शपथं प्रति तच्छृणु ॥ 001c
पुष्करार्थं कृतं स्तैन्यं पुरा भरतसत्तम । 002a
राजर्षिभिर्महाराज तथैव च द्विजर्षिभिः ॥ 002c
पुरा प्रभासे ऋषयः समग्राः समेता वै मन्त्रममन्त्रयन्त । 003a
चराम सर्वां पृथिवीं पुण्यतीर्थां तन्नः कामं हन्त गच्छाम सर्वे ॥ 003c
शुक्रोऽङ्गिराश्चैव कविश्च विद्वांस्तथा ह्यगस्त्यो नारदपर्वतौ च | 004a
भृगुर्वसिष्ठः कश्यपो गौतमश्च विश्वामित्रो जमदग्निश्च राजन् ॥ 004c
ऋषिस्तथा गालवोऽथाष्टकश्च भरद्वाजोऽरुन्धती वालखिल्याः । 005a
शिबिर्दिलीपो नहुषोऽम्बरीषो राजा ययातिर्धुन्धुमारोऽथ पूरुः ॥ 005c
जग्मुः पुरस्कृत्य महानुभावं शतक्रतुं वृत्रहणं नरेन्द्राः । 006a
तीर्थानि सर्वाणि परिभ्रमन्तो माघ्यां ययुः कौशिकीं पुण्यतीर्थाम् ॥ 006c
सर्वेषु तीर्थेष्ववधूतपापा जग्मुस्ततो ब्रह्मसरः सुपुण्यम् । 007a
देवस्य तीर्थे जलमग्निकल्पा विगाह्य ते भुक्तबिसप्रसूनाः ॥ 007c
केचिद्बिसान्यखनंस्तत्र राजन्नन्ये मृणालान्यखनंस्तत्र विप्राः । 008a
अथापश्यन्पुष्करं ते ह्रियन्तं ह्रदादगस्त्येन समुद्धृतं तत् ॥ 008c
तानाह सर्वानृषिमुख्यानगस्त्यः केनाहृतं पुष्करं मे सुजातम् । 009a
युष्माञ्शङ्के पुष्करं दीयतां मे न वै भवन्तो हर्तुमर्हन्ति पद्मम् ॥ 009c
शृणोमि कालो हिंसते धर्मवीर्यं सेयं प्राप्ता वर्तते धर्मपीडा । 010a
पुराऽधर्मो वर्तते नेह यावत्तावद्गच्छामः सुरलोकं चिराय ॥ 010c
पुरा वेदान्ब्राह्मणा ग्राममध्ये घुष्टस्वरा वृषलान्श्रावयन्ति । 011a
पुरा राजा व्यवहारानधर्मान्पश्यत्यहं परलोकं व्रजामि ॥ 011c
पुरा राजा प्रत्यवरान्गरीयसो मंस्यत्यथैनमनुयास्यन्ति सर्वे । 012a
धर्मोत्तरं यावदिदं न वर्तते तावद्व्रजामि परलोकं चिराय ॥ 012c
पुरा प्रपश्यामि परेण मर्त्यान्बलीयसा दुर्बलान्भुज्यमानान् । 013a
तस्माद्यास्यामि परलोकं चिराय न ह्युत्सहे द्रष्टुमीदृङ्नृलोके ॥ 013c
तमाहुरार्ता ऋषयो महर्षिं न ते वयं पुष्करं चोरयामः । 014a
मिथ्याभिशंसा भवता न कार्या शपाम तीक्ष्णैः शपथैर्महर्षे ॥ 014c
ते निश्चितास्तत्र महर्षयस्तु सम्पश्यन्तो धर्ममेतं नरेन्द्राः । 015a
ततोऽशपन्त शपथान्पर्ययेण सहैव ते पार्थिव पुत्रपौत्रैः ॥ 015c
भृगुरुवाच 016
प्रत्याक्रोशेदिहाक्रुष्टस्ताडितः प्रतिताडयेत् । 016a
खादेच्च पृष्ठमांसानि यस्ते हरति पुष्करम् ॥ 016c
वसिष्ठ उवाच 017
अस्वाध्यायपरो लोके श्वानं च परिकर्षतु । 017a
पुरे च भिक्षुर्भवतु यस्ते हरति पुष्करम् ॥ 017c
कश्यप उवाच 018
सर्वत्र सर्वं पणतु न्यासे लोभं करोतु च | 018a
कूटसाक्षित्वमभ्येतु यस्ते हरति पुष्करम् ॥ 018c
गौतम उवाच 019
जीवत्वहङ्कृतो बुद्ध्या विषमेणासमेन सः । 019a
कर्षको मत्सरी चास्तु यस्ते हरति पुष्करम् ॥ 019c
अङ्गिरा उवाच 020
अशुचिर्ब्रह्मकूटोस्तु श्वानं च परिकर्षतु । 020a
ब्रह्महाऽनिकृतिश्चास्तु यस्ते हरति पुष्करम् ॥ 020c
धुन्धुमार उवाच 021
अकृतज्ञस्तु मित्राणां शूद्रायां च प्रजायतु । 021a
एकः सम्पन्नमश्नातु यस्ते हरति पुष्करम् ॥ 021c
पुरूरवा उवाच 022
चिकित्सायां प्रचरतु भार्यया चैव पुष्यतु । 022a
श्वशुरात्तस्य वृत्तिः स्याद्यस्ते हरति पुष्करम् ॥ 022c
दिलीप उवाच 023
उदपानप्लवे ग्रामे ब्राह्मणो वृषलीपतिः । 023a
तस्य लोकान्स व्रजतु यस्ते हरति पुष्करम् ॥ 023c
शुक्र उवाच 024
वृथा मांसं समश्नातु दिवा गच्छतु मैथुनम् । 024a
प्रेष्यो भवतु राज्ञश्च यस्ते हरति पुष्करम् ॥ 024c
जमदग्निरुवाच 025
अनध्यायेष्वधीयीत मित्रं श्राद्धे च भोजयेत् । 025a
श्राद्धे शूद्रस्य चाश्नीयाद्यस्ते हरति पुष्करम् ॥ 025c
शिबिरुवाच 026
अनाहिताग्निर्म्रियतां यज्ञे विघ्नं करोतु च | 026a
तपस्विभिर्विरुध्येच्च यस्ते हरति पुष्करम् ॥ 026c
ययातिरुवाच 027
अनृतौ व्रतनियतायां भार्यायां स प्रजायतु । 027a
निराकरोतु वेदांश्च यस्ते हरति पुष्करम् ॥ 027c
नहुष उवाच 028
अतिथिर्गृहसंस्थोऽस्तु कामवृत्तस्तु दीक्षितः । 028a
विद्यां प्रयच्छतु भृतो यस्ते हरति पुष्करम् ॥ 028c
अम्बरीष उवाच 029
नृशंसस्त्यक्तधर्मोऽस्तु स्त्रीषु ज्ञातिषु गोषु च | 029a
निहन्तु ब्राह्मणं चापि यस्ते हरति पुष्करम् ॥ 029c
नारद उवाच 030
गृहज्ञानी बहिःशास्त्रं पठतां विस्वरं पदम् । 030a
गरीयसोऽवजानातु यस्ते हरति पुष्करम् ॥ 030c
नाभाग उवाच 031
अनृतं भाषतु सदा सद्भिश्चैव विरुध्यतु । 031a
शुल्केन ददतु कन्यां यस्ते हरति पुष्करम् ॥ 031c
कविरुवाच 032
पदा च गां संस्पृशतु सूर्यं च प्रति मेहतु । 032a
शरणागतं सन्त्यजतु यस्ते हरति पुष्करम् ॥ 032c
विश्वामित्र उवाच 033
करोतु भृतकोऽवर्षां राज्ञश्चास्तु पुरोहितः । 033a
ऋत्विगस्तु ह्ययाज्यस्य यस्ते हरति पुष्करम् ॥ 033c
पर्वत उवाच 034
ग्रामे चाधिकृतः सोऽस्तु खरयानेन गच्छतु । 034a
शुनः कर्षतु वृत्त्यर्थे यस्ते हरति पुष्करम् ॥ 034c
भरद्वाज उवाच 035
सर्वपापसमादानं नृशंसे चानृते च यत् । 035a
तत्तस्यास्तु सदा पापं यस्ते हरति पुष्करम् ॥ 035c
अष्टक उवाच 036
स राजास्त्वकृतप्रज्ञः कामवृत्तश्च पापकृत् । 036a
अधर्मेणाभिशास्तूर्वीं यस्ते हरति पुष्करम् ॥ 036c
गालव उवाच 037
पापिष्ठेभ्यो ह्यनर्घार्हः स नरोऽस्तु स्वपापकृत् । 037a
दत्त्वा दानं कीर्तयतु यस्ते हरति पुष्करम् ॥ 037c
अरुन्धत्युवाच 038
श्वश्र्वाऽपवादं वदतु भर्तुर्भवतु दुर्मनाः । 038a
एका स्वादु समश्नातु या ते हरति पुष्करम् ॥ 038c
वालखिल्या ऊचुः 039
एकपादेन वृत्त्यर्थं ग्रामद्वारे स तिष्ठतु । 039a
धर्मज्ञस्त्यक्तधर्मास्तु यस्ते हरति पुष्करम् ॥ 039c
पशुसख उवाच 040
अग्निहोत्रमनादृत्य स सुखं स्वपतु द्विजः । 040a
परिव्राट् कामवृत्तोस्तु यस्ते हरति पुष्करम् ॥ 040c
सुरभ्युवाच 041
वालजेन निदानेन कांस्यं भवतु दोहनम् । 041a
दुह्येत परवत्सेन या ते हरति पुष्करम् ॥ 041c
भीष्म उवाच 042
ततस्तु तैः शपथैः शप्यमानैर्नानाविधैर्बहुभिः कौरवेन्द्र । 042a
सहस्राक्षो देवराट् सम्प्रहृष्टः समीक्ष्य तं कोपनं विप्रमुख्यम् ॥ 042c
अथाब्रवीन्मघवा प्रत्ययं स्वं स्वयं समागत्य तमृषिं जातरोषम् । 043a
ब्रह्मर्षिदेवर्षिनृपर्षिमध्ये यं तं निबोधेह ममाद्य राजन् ॥ 043c
शक्र उवाच 044
अध्वर्यवे दुहितरं ददातु छन्दोगे वाऽऽचरितब्रह्मचर्ये । 044a
अथर्वणं वेदमधीत्य विप्रः स्नायीत यः पुष्करमाददाति ॥ 044c
सर्वान्वेदानधीयीत पुण्यशीलोऽस्तु धार्मिकः । 045a
ब्रह्मणः सदनं यातु यस्ते हरति पुष्करम् ॥ 045c
अगस्त्य उवाच 046
आशीर्वादस्त्वया प्रोक्तः शपथो बलसूदन । 046a
दीयतां पुष्करं मह्यमेष धर्मः सनातनः ॥ 046c
इन्द्र उवाच 047
न मया भगवल्ँलोभाद्धृतं पुष्करमद्य वै । 047a
धर्मांस्तु श्रोतुकामेन हृतं न क्रोद्धुमर्हसि ॥ 047c
धर्मश्रुतिसमुत्कर्षो धर्मसेतुरनामयः । 048a
आर्षो वै शाश्वतो नित्यमव्ययोऽयं मया श्रुतः ॥ 048c
तदिदं गृह्यतां विद्वन्पुष्करं द्विजसत्तम । 049a
अतिक्रमं मे भगवन्क्षन्तुमर्हस्यनिन्दित ॥ 049c
इत्युक्तः स महेन्द्रेण तपस्वी कोपनो भृशम् । 050a
जग्राह पुष्करं धीमान्प्रसन्नश्चाभवन्मुनिः ॥ 050c
प्रययुस्ते ततो भूयस्तीर्थानि वनगोचराः । 051a
पुण्येषु तीर्थेषु तथा गात्राण्याप्लावयन्त ते ॥ 051c
आख्यानं य इदं युक्तः पठेत्वर्वणिपर्वणि । 052a
न मूर्खं जनयेत्पुत्रं न भवेच्च निराकृतिः ॥ 052c
न तमापत्स्पृशेत्काचिद्विज्वरो न जरावहः । 053a
विरजाः श्रेयसा युक्तः प्रेत्य स्वर्गमवाप्नुयात् ॥ 053c
यश्च शास्त्रमधीयीत ऋषिभिः परिपालितम् । 054a
स गच्छेद्ब्रह्मणो लोकमव्ययं च नरोत्तम ॥ 054c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि त्रिचत्वारिंशदधिकशततमोऽध्यायः ॥ 143 ॥

7-143-1 अत्र शपथेनैव निषिद्धार्थप्रकाशने ॥ 7-143-2 पुष्करार्थम् इन्द्रेण स्तैन्यं कृतम् । मुनिभिः शपथाः कृता इत्यर्थः ॥ 7-143-8 बिसमृणालयोः कमलकुमुदवदवान्तरभेदो ज्ञेयः । ह्रियन्तं ह्रियमाणम् ॥ 7-143-12 प्रत्यवरान्मध्यमान् । तमोत्तरं यावदिदं न वर्तत इति झ. पाठः ॥ 7-143-16 पृष्ठमांसानि पृष्ठवाहानां हयवृषभोष्ट्रादीनां मांसानि । खादेच्च ब्रह्ममांसानीति ड. पाठः ॥ 7-143-17 भिक्षुः सन्न्यासी ॥ 7-143-18 पणतु क्रयविक्रयं करोतु । सर्वम् अपण्यमपि ॥ 7-143-19 विगतः समभावो यस्मात्तेनासमेन कामक्रोधादिना । कृपणत्वं समेतु स इति ट. ध. पाठः ॥ 7-143-20 अनिकृतिः अकृतप्रायश्चित्तः ॥ मानं च परिकर्षत्विति ट. ध. पाठः ॥ 7-143-22 चोरकार्यं प्रचरतु इति ट. ध. पाठः । भार्यां स्वां चैव दूष्यतु इति थ. पाठः । भार्या वाचैव तुष्यत्विति ध. पाठः ॥ 7-143-23 उदपाने प्लव आप्लवः स्नानं यस्मिन् ॥ 7-143-24 यतिर्गच्छतु मैथुनमिति ट. ध. पाठः ॥ 7-143-28 अतिथिर्यतिः । गृहसंस्थो गृहवासी । अतिथिं गृहस्थस्त्यजत्विति थ. पाठः । भृतो वित्तेन क्रीतः ॥ 7-143-30 गूढो ज्ञातुं बहिश्शास्त्रमिति थ. ध. पाठः ॥ 7-143-33 भृतकौ धान्यविक्रीतः सन् अवर्षां वृष्टिनिर्बन्धं करोतु ॥ 7-143-37 पापिष्ठा एव अनर्घार्हाः अपूज्याः । अयं तु ततोप्यपूज्योस्तु । स्वपापकृत् स्वेषु ज्ञातिषु पापकृत् ॥ 7-143-41 निदानं दोहनकाले गवां पादबन्धनी रज्जुस्तेन ॥ 7-143-43 प्रत्ययमभिप्रायम् ॥ 7-143-48 धर्मश्रुतीनां सम्यगुत्कर्षः । धर्म एव सेतुस्तरणोपायः ॥