श्रीः अध्यायः 142

वने विचरतां सप्तर्षीणाम् परिव्राड्रूपधारिणेन्द्रेण समागमः ॥ 1 ॥ अरुन्धत्या तस्यातिपीनाङ्गत्वे कारणं पृष्टैस्तैस्तत्कथनम् ॥ 2 ॥ तथा कामपि पद्मिनीमवलोकितवद्भिस्तैर्बिसग्रहणाय तत्समीपगमनम् ॥ 3 ॥ तत्र तद्रक्षिण्या वृषादर्भिनिर्मितकृत्यया स्वस्वनामनिर्वचनेन सरःप्रवेशं चोदिसैस्ताम्प्रति तन्निर्वचनम् ॥ 4 ॥ भिक्षुरूपिणेन्द्रेण सकृत्स्वनामनिर्वचनेऽपि पुन पृच्छन्त्याः कृत्याया दण्डेन मारणपूर्वकमृषीन्प्रति स्वस्वरूपप्रकटनम् ॥ 5 ॥

भीष्म उवाच 001
अथात्रिप्रमुखा राजन्वने तस्मिन्महर्षयः । 001a
व्यचरन्भक्षयन्तो वै मूलानि च फलानि च ॥ 001c
अथापश्यन्सुपीनांसपाणिपादमुखोदरम् । 002a
परिव्रजन्तं स्थूलाङ्गं परिव्राजं शुनस्सखम् ॥ 002c
अरुन्धती तु तं दृष्ट्वा सर्वाङ्गोपचितं शुभम् । 003a
भवितारो भवन्तो वै नैवमित्यब्रवीदृषीन् ॥ 003c
वसिष्ठ उवाच 004
नैतस्येह यथाऽस्माकमग्निहोत्रमनिर्हुतम् । 004a
सायं प्रातश्च होतव्यं तेन पीवाञ्शुनस्सखः ॥ 004c
अत्रिरुवाच 005
नैतस्येह यथाऽस्माकं क्षुधया वीर्यमाहतम् । 005a
कृच्छ्राधीतं प्रनष्टं च तेन पीवाञ्छुनस्सखः ॥ 005c
विश्वामित्र उवाच 006
नैतस्येह यथाऽस्माकं शश्वच्छास्त्रकृतो ज्वरः । 006a
अलसः क्षुत्परो मूर्खस्तेन पीवाञ्शुनस्सखः ॥ 006c
जमदग्निरुवाच 007
नैतस्येह यथाऽस्माकं भक्तमिन्धनमेव च 007a
सञ्चित्यं वार्षिकं चित्ते तेन पीवाञ्शुनस्सखः ॥ 007c
कश्यप उवाच 008
नैतस्येह यथाऽस्माकं चत्वारश्च सहोदराः । 008a
देहिदेहीति भिक्षन्ति तेन पीवाञ्शुनस्सखः ॥ 008c
भरद्वाज उवाच 009
नैतस्येह यथाऽस्माकं ब्रह्मबन्धोरचेतसः । 009a
शोको भार्यापवादेन तेन पीवाञ्शुनस्सखः ॥ 009c
गौतम उवाच 010
नैतस्येह यथाऽस्माकं त्रिकौशेयं च राङ्कवम् । 010a
एकैकं वै त्रिवर्षीयं तेन पीवाञ्शुनस्सखः ॥ 010c
भीष्म उवाच 011
अथ दृष्ट्वा परिव्राट् स तान्महर्षीञ्शुनस्सखः । 011a
अभिवाद्य यथान्यायं पाणिस्पर्शमथाचरत् ॥ 011c
परिचर्यां वने तां तु क्षुत्प्रतीकारकाङ्क्षिणः । 012a
अन्योन्येन निवेद्याथ प्रातिष्ठन्त सहैव ते ॥ 012c
एकनिश्चयकार्याश्च व्यचरन्त वनानि ते । 013a
आददानाः समुद्धृत्य मूलानि च फलानि च ॥ 013c
कदाचिद्विचरन्तस्ते वृक्षैरविरलैर्वृताम् । 014a
शुचिपूर्णप्रसन्नोदां ददृशुः पद्मिनीं शुभाम् ॥ 014c
बालादित्यवपुःप्रख्यैः पुष्करैरुपशोभिताम् । 015a
वैडूर्यवर्णसदृशैः पद्मपत्रैरथावृताम् ॥ 015c
नानाविधैश्च विहगैर्जलप्रवरसेविभिः । 016a
एकद्वारामनादेयां सूपतीर्थामकर्दमाम् ॥ 016c
वृषादर्भिप्रयुक्ता तु कृत्या विकृतदर्शना । 017a
यातुधानीति विख्याता पद्मिनीं तामरक्षत ॥ 017c
शुनस्सखसहायास्तु बिसार्थं ते महर्षयः । 018a
पद्मिनीमभिजग्मुस्ते सर्वे कृत्याभिरक्षिताम् ॥ 018c
ततस्ते यातुधानीं तां दृष्ट्वा विकृतदर्शनाम् । 019a
स्थितां कमलिनीतीरे कृत्यामूचुर्महर्षयः ॥ 019c
एका तिष्ठसि का च त्वं कस्यार्थे किं प्रयोजनम् । 020a
पद्मिनीतीरमाश्रित्य ब्रूहि त्वं किं चिकीर्षसि ॥ 020c
यातुधान्युवाच 021
याऽस्मि काऽस्म्यनुयोगो मे न कर्तव्यः कथञ्चन । 021a
आरक्षिणीं मा पद्मिन्या वित्त सर्वे तपोधनाः ॥ 021c
ऋषय ऊचुः 022
सर्व एव क्षुधार्ताः स्म न चान्यत्किञ्चिदस्ति नः । 022a
भवत्याः सम्मते सर्वे गृह्णीयाम बिसान्युत ॥ 022c
यातुधान्युवाच 023
समयेन बिसानीतो गृह्णीध्वं कामकारतः । 023a
एकैको नाम मे प्रोक्त्वा ततो गृह्णीत माचिरम् ॥ 023c
भीष्म उवाच 024
विज्ञाय यातुधानीं तां कृत्यामृषिवधैषिणीम् । 024a
अत्रिः क्षुधा परीतात्मा ततो वचनमब्रवीत् ॥ 023c
अत्त्रिरुवाच 025
अरात्त्रिरत्त्रिः सा रात्रिर्यां नाधीते त्रिरद्य वै । 025a
अरात्रिरत्रिरित्येव नाम मे विद्धि शोभने ॥ 025c
यातुधान्युवाच 026
यथोदाहृतमेतत्ते त्वया नाम महाद्युते । 026a
दुर्धार्यमेतन्मनसा गच्छाऽवतर पद्मिनीम् ॥ 026c
वसिष्ठ उवाच 027
वसिष्ठोऽस्मि वरिष्ठोऽस्मि वसे वासगृहेष्वपि । 027a
वरिष्ठत्वाच्च वासाच्च वसिष्ठ इति विद्धि माम् ॥ 027c
यातुधान्युवाच 028
नाम नैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम् । 028a
नैतद्धारयितुं शक्यं गच्छाऽवतर पद्मिनीम् ॥ 028c
कश्यप उवाच 029
कुलङ्कुलं च कुवमः कुवमः कश्यपो द्विजः । 029a
काश्यः काशनिकाशत्वादेतन्मे नाम धारय ॥ 029c
यातुधान्युवाच 030
यथोदाहृतमेतत्ते मयि नाम महाद्युते । 030a
दुर्धार्यमेतन्मनसा गच्छाऽवतर पद्मिनीम् ॥ 030c
भरद्वाज उवाच 031
भरेऽसुतान्भरे पोष्यान्भरे देवान्भरे द्विजान् । 031a
भरे भार्यामहं व्याजाद्भरद्वाजोऽस्मि शोभने ॥ 031c
यातुधान्युवाच 032
नाम नैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम् । 032a
नैतद्धारयितुं शक्यं गच्छाऽवतर पद्मिनीम् ॥ 032c
गौतम उवाच 033
गोदमो दमतोऽधूमोऽदमस्ते समदर्शनात् । 033a
विद्धि मां गोतमं कृत्ये यातुधानि निबोध माम् || 033c
यातुधान्युवाच 034
यथोदाहृतमेतत्ते मयि नाम महामुने । 034a
नैतद्धारयितुं शक्यं गच्छाऽवतर पद्मिनीम् ॥ 034c
विश्वामित्र उवाच 035
विश्वेदेवाश्च मे मित्रं मित्रमस्मि गवां तथा । 035a
विश्वामित्र इति ख्यातं यातुधानि निबोध माम् || 035c
यातुधान्युवाच 036
नाम नैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम् । 036a
नैतद्धारयितुं शक्यं गच्छाऽवतर पद्मिनीम् ॥ 036c
जमदग्निरुवाच 037
जाजमद्यजजानेऽहं जिजाहीह जिजायिषि । 037a
जमदग्निरिति ख्यातं ततो मां विद्धि शोभने ॥ 037c
यातुधान्युवाच 038
यथोदाहृतमेतत्ते मयि नाम महामुने । 038a
नैतद्धारयितुं शक्यं गच्छाऽवतर पद्मिनीम् ॥ 038c
अरुन्धत्युवाच 039
धरान्धरित्रीं वसुधां भर्तुस्तिष्ठाम्यनन्तरम् । 039a
मनोऽनुरुन्धती भर्तुरिति मां विद्ध्यरुन्धतीम् ॥ 039c
यातुधान्युवाच 040
नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम् । 040a
नैतद्धारयितुं शक्यं गच्छाऽवतर पद्मिनीम् ॥ 040c
गण्डोवाच 041
वक्त्रैकदेशे गण्डेति धातुमेतं प्रचक्षते । 041a
तेनोन्नतेन गण्डेति विद्धि माऽनलसम्भवे ॥ 041c
यातुधान्युवाच 042
नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम् । 042a
नैतद्धारयितुं शक्यं गच्छाऽवतर पद्मिनीम् ॥ 042c
पशुसख उवाच 043
पशून्रञ्जामि दृष्ट्वाऽहं पशूनां च सदा सखा । 043a
गौणं पशुसखेत्येवं विद्धि मामग्निसम्भवे ॥ 043c
यातुधान्युवाच 044
नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम् । 044a
नैतद्धारयितुं शक्यं गच्छाऽवतर पद्मिनीम् ॥ 044c
शुनःसख उवाच 045
एभिरुक्तं यथा नाम नाहं वक्तुमिहोत्सहे । 045a
शुनःसखसखायं मां यातुधान्युपधारय ॥ 045c
यातुधान्युवाच 046
नाम न व्यक्तमुक्तं वै वाक्यं सन्दिग्धया गिरा । 046a
तस्मात्सकृदिदानीं त्वं ब्रूहि यन्नाम ते द्विज ॥ 046c
शुनःसख उवाच 047
सकृदुक्तं मया नाम न गृहीतं त्वया यदि । 047a
तस्मात्त्रिदण्डाभिहता गच्छ भस्मेति माचिरम् ॥ 047c
भीष्म उवाच 048
सा ब्रह्मदण्डकल्पेन तेन मूर्ध्नि हता तदा । 048a
कृत्या पपात मेदिन्यां भस्म साच जगाम ह ॥ 048c
शुनःसखश्च हत्वा तां यातुधानीं महाबलाम् । 049a
भुवि त्रिदण्डं विष्टभ्य शाद्वले समुपाविशत् ॥ 049c
ततस्ते मुनयः सर्वेः पुष्कराणि बिसानि च | 050a
यथाकाममुपादाय समुत्तस्थुर्मुदाऽन्विताः ॥ 050c
श्रमेण महता युक्तास्ते बिसानि कलापशः । 051a
तीरे निक्षिप्य पद्मिन्यास्तर्पणं चक्रुरम्भसा ॥ 051c
अथोत्थाय जलात्तस्मात्सर्वे ते समुपागमन् । 052a
नापश्यंश्चापि ते तानि बिसानि पुरुषर्षभाः ॥ 052c
ऋषय ऊचुः 053
केन क्षुधाभिभूतानामस्माकं पापकर्मणाम् । 053a
नृशंसेनापनीतानि बिसान्याहारकाङ्क्षिणाम् ॥ 053c
भीष्म उवाच 054
ते शङ्कमानास्त्वन्योन्यं पप्रच्छुर्द्विजसत्तमाः । 054a
त ऊचुः शपथं सर्वे कुर्म इत्यरिकर्शन ॥ 054c
त उक्त्वा बाढमित्येव सर्व एव तदा समम् । 055a
क्षुधार्ताः सुपरिश्रान्ताः शपथायोपचक्रमुः ॥ 055c
अत्रिरुवाच 056
स गां स्पृशतु पादेन सूर्यं च प्रतिमेहतु । 056a
अध्यायेष्वधीयीत बिसस्तैन्यं करोति यः ॥ 056c
वसिष्ठ उवाच 057
अनध्याये पठेल्लोके शुनः स परिकर्षतु । 057a
परिव्राट् कामवृत्तिस्तु बिसस्तैन्यं करोति यः ॥ 057c
शरणागतं हन्तु मित्रं स्वसुतां चोपजीवतु । 058a
अर्थान्काङ्क्षतु कीनाशाद्बिसस्तैन्यं करोति यः ॥ 058c
कश्यप उवाच 059
'विष्णुं ब्रह्मण्यदेवेशं देवदेवं जगद्गुरुम् । 059a
आधातारं विधातारं सन्धातारं जगद्गुरुम् । 059c
विहाय स भजत्वन्यं बिसस्तैन्यं करोति यः ॥' 059e
सर्वत्र सर्वं लपतु न्यासलोपं करोतु च | 060a
कूटसाक्षित्वमभ्येतु बिसस्तैन्यं करोति यः ॥ 060c
वृथा मांसाशनश्चास्तु वृथा दानं करोतु च | 061a
यातु स्त्रियं दिवा चैव बिसस्तैन्यं करोति यः ॥ 061c
भरद्वाज उवाच 062
नृशंसस्त्यक्तधर्माऽस्तु स्त्रीषु ज्ञातिषु गोषु च | 062a
ब्राह्मणं चापि जयतां बिसस्तैन्यं करोति यः ॥ 062c
उपाध्यायमधः कृत्वा ऋचोऽध्येतु यजूंषि च | 063a
जुहोतु च स कक्षाग्नौ बिसस्तैन्यं करोति यः ॥ 063c
जमदग्निरुवाच 064
पुरीषमुत्सृजत्वप्सु हन्तु गां चैव द्रुह्यतु । 064a
अनृतौ मैथुनं यातु बिसस्तैन्यं करोति यः ॥ 064c
द्वेष्यो भार्योपजीवी स्याद्दुरबन्धुश्च वैरवान् । 065a
अन्योन्यस्यातिथिश्चास्तु बिसस्तैन्यं करोति यः ॥ 065c
गौतम उवाच 066
अधीत्य वेदांस्त्यजतु त्रीनग्नीनपविध्यतु । 066a
विक्रीणातु तथा सोमं बिसस्तैन्यं करोति यः ॥ 066c
उदपानोदके ग्रामे ब्राह्मणो वृषलीपतिः । 067a
तस्य सालोक्यतां यातु बिसस्तैन्यं करोति यः ॥ 067c
विश्वामित्र उवाच 068
जीवतो वै गुरून्भृत्यान्भरन्त्वस्य परे जनाः । 068a
दरिद्रो बहुपुत्रः स्याद्बिसस्तैन्यं करोति यः ॥ 068c
अशुचिर्ब्रह्मकूटोऽस्तु मिथ्या चैवाप्यहङ्कृतः । 069a
कर्षको मत्सरी चास्तु बिसस्तैन्यं करोति यः ॥ 069c
हर्षं करोतु भृतको राज्ञश्चास्तु पुरोहितः । 070a
अयाज्यस्य भवेदृत्विक् बिसस्तैन्यं करोति यः || 070c
अरुन्धत्युवाच 071
नित्यं परिभवेच्छ्वश्रूं भर्तुर्भवतु दुर्मनाः । 071a
एका स्वादु समश्नातु बिसस्तैन्यं करोति या ॥ 071c
ज्ञातीनां गृहमध्यस्था सक्तूनत्तु दिनक्षये । 072a
अभोग्या वीरसूरस्तु बिसस्तैन्यं करोति या ॥ 072c
गण्डोवाच 073
अनृतं भाषतु सदा बन्धुभिश्च विरुध्यतु । 073a
ददातु कन्यां शुल्केन बिसस्तैन्यं करोति या ॥ 073c
साधयित्वा स्वयं प्राशेद्दास्ये जीर्यतु चैव ह । 074a
विकर्मणा प्रमीयेत बिसस्तैन्यं करोति या ॥ 074c
पशुसख उवाच 075
दास एव प्रजायेतामप्रसूतिरकिञ्चनः । 075a
दैवतेष्वनमस्कारो बिसस्तैन्यं करोति यः ॥ 075c
शुनःसख उवाच 076
अध्वर्यवे दुहितरं वा ददातु च्छन्दोगे वाऽऽचरितब्रह्मचर्ये । 076a
आथर्वणं वेदमधीत्य विप्रः स्नायीत वा यो हरते बिसानि ॥ 076c
ऋषय ऊचुः 077
इष्टमेतद्द्विजातीनां योऽयं ते शपथः कृतः । 077a
त्वया कृतं बिसस्तैन्यं सर्वेषां नः शुनःसख ॥ 077c
शुनःसख उवाच 078
न्यस्तमद्यं न पश्यद्भिर्यदुक्तं कृतकर्मभिः । 078a
सत्यमेतन्न मिथ्यैतद्बिसस्तैन्यं कृतं मया ॥ 078c
मया ह्यन्तर्हितानीह बिसानीमानि पश्यत । 079a
परीक्षार्थं भगवतां कृतमेवं मयाऽनघाः ॥ 079c
रक्षणार्थं च सर्वेषां भवतामहमागतः । 080a
यातुधानी ह्यतिक्रूरा कृत्यैषा वो वधैषिणी ॥ 080c
वृषादर्भिप्रयुक्तैषा निहता मे तपोधनाः । 081a
दुष्टा हिंस्यादियं पापा युष्मान्प्रत्यग्निसम्भवा ॥ 081c
तस्मादस्म्यागतो विप्रा वासवं मां निबोधत । 082a
अलोभादक्षया लोकाः प्राप्ता वः सार्वकामिकाः । 082c
उत्तिष्ठध्वमितः क्षिप्रं तानवाप्नुत वै द्विजाः ॥ 082e
भीष्म उवाच 083
ततो महर्षयः प्रीतास्तथेत्युक्त्वा पुरन्दरम् । 083a
सहैव त्रिदशेन्द्रेण सर्वे जग्मुस्त्रिविष्टपम् ॥ 083c
एवमेते महात्मानो योगैर्बहुविधैरपि । 084a
क्षुधा परमया युक्ताश्छन्द्यमाना महात्मभिः । 084c
नैव लोभं तदा चक्रुस्ततः स्वर्गमवाप्नुवन् ॥ 084e
तस्मात्सर्वास्ववस्थासु नरो लोभं विवर्जयेत् । 085a
एष धर्मः परो राजंस्तस्माल्लोभं विवर्जयेत् ॥ 085c
इदं नरः सुचरितं समवायेषु कीर्तयन् । 086a
अर्थभागी च भवति न च दुर्गाण्यवाप्नुते ॥ 086c
प्रीयन्ते पितरश्चास्य ऋषयो देवतास्तथा । 087a
यशोधर्मार्थभागी च भवति प्रेत्य मानवः ॥ 087c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि द्विचत्वारिंशदधिकशततमोऽध्यायः ॥ 142 ॥

7-142-2 परिव्राजं शुना सहेति झ. पाठः ॥ 7-142-4 तेन पीवान्शुना सहेति झ. पाठः ॥ 7-142-9 भार्यापवादः कृत्तिकास्वभिशापात् ॥ 7-142-10 त्रिकौशेयं कुशा रज्जुस्तया निर्वृत्तं काशेयं पाटितसन्धानम् । त्रीणि कौशेयानि यस्मिन् । राङ्कवं रङ्कोर्मृगावेशेषस्य चर्म तदपि त्रिवर्षीयमतिजीर्णम् ॥ 7-142-12 परिचर्यां करिष्यामि कुर्वित्यन्योन्यमुक्त्वेत्यर्थः ॥ 7-142-13 एकरूप एव निश्चयः कार्यं च येषां ते ॥ 7-142-16 उपतीर्थमवतरणमार्गः ॥ 7-142-24 नामार्थद्वारा सामर्थ्यं ज्ञात्वा अस्माकं वधैषिणीयमिति विज्ञायेत्यर्थः ॥ 7-142-25 अरात्त्रिः अरयः कामादयः सन्त्यस्मिन्नित्यरं पापम् अर्शआदिभ्योऽजित्यच् । तस्मात्त्रायत इत्यरात्त्रिः । अरशब्दादलुप्तपञ्चमीकात् परस्य त्रायतेरुपरि क्विप्प्रत्ययः । यस्मादरात्रिस्तस्मादत्रिः । अत्तीत्यद् मृत्युस्तस्मात्त्रायत इत्यत्रिः । मृत्युशब्दस्य पाप्मनि प्रयोगदर्शनात् ॥ 7-142-26 मयि नाम महामुने इति झ. पाठः ॥ 7-142-27 वायुश्च पृथिवी चेति श्रुतिप्रसिद्धा वाय्वादयो वसवस्ते यस्य स्वाधीना भवन्ति स वसुमान्प्राप्ताणिमाद्यैश्वर्यो महायोगी । अतिशयेन वसुमानिति वसिष्ठस्तादृशोऽहमस्मि । वसुमच्छब्दादिष्ठन्प्रत्यये परे मतुब्लोपे टिलोपे च वसिष्ठः । वासगृहेषु वासयोग्येषु गृहस्थाश्रमेषु सर्वेषामुपजीव्येषु वसे वसामि अतोऽहं वस्तॄणां मध्ये अतिश्रेष्ठ इति वसिष्ठोऽस्मि ॥ 7-142-29 कशा अश्वताडनरज्जुस्तामर्हन्ति ते कश्या अश्वाः । इन्द्रियाण्येवाश्वाः कश्यास्तदाश्रयत्वाच्छरीराण्यपि कश्यानि । कुलङ्कुलमिति वीप्सायां द्विर्वचनम् । सर्वशरीरेष्वहमेवैकः कश्यपो नाम द्विजोऽस्मि । कश्यानि शरीराणि पाति रक्षति पिबति भुङ्क्ते पाययति शोषयति वा कश्यप इति योगात् । कुवमः कुवम इति । कुः पृथवीं तस्यां वमति वर्षतीति कुवम आदित्यः पूर्ववद्द्विवचनम् । सर्वोप्यादित्योऽहमेव । मत्पुत्रत्वात्सर्वेषामादित्यानामित्यर्थः । काश्यो दीप्तिमान् । तत्र हेतुः । काशनिकाशत्वात् बहुकालीनत्वेन काशपुष्पसदृशः सर्वतः पलितश्चिरन्तनस्तपसा दीप्तोऽस्मीस्तर्थः । कुलं कुलं च कुशलः कुपयः काश्यपो द्विजः । काश्यपः काशनीकाश एतन्मे नाम धारयेति क. ङ. थ. पाठः ॥ 7-142-31 प्रजा वै वाजस्ता एष बिभर्तीति श्रुत्यनुसारेण स्वनामाह भरे इति । असुतान् अपुत्रानुदासीनानपि दीनानदीनान्पालयामि । भरे सुतान्भरे शिष्यानिति झ. पाठः ॥ 7-142-33 गोपदार्थं स्वर्गं भूमिं च दमयति वशीकरोतीति गोदमः । तत्र हेतुः दमत इति । दमेन इन्द्रियजयेन दमयतीति जितेन्द्रियत्वात् गां द्यां च दमितुं शक्तोस्मीत्यर्थः । अधूमः निर्धूमाग्नितुल्यः । अत एवादमः अन्येन दमितुमयोग्यः तत्र हेतुः । ते त्वयि । समदर्शनात्समस्य ब्रह्मणो दर्शनात् ब्रह्मज्ञानित्वादित्यर्थः । अत्र दकारस्थाने तकारः । गौतमो दमगोधूमो धूमो दुर्दर्शनश्च ते इति थ. ध. पाठः ॥ 7-142-35 मित्रे चर्षौ इति विश्वपदान्तस्य दीर्घः । गवाम् इन्द्रियाणाम् ॥ 7-142-37 जजामाद्यं जजामायं जजामाहं जजायुषीति क. थ. ध. पाठः । भूयोभूयोऽतिशयेन जमन्ति युगपदनेकेषु यज्ञादिष्वनेकवारं पुनःपुनर्भक्षयन्ति हवींषि ते जाजमन्तो देवाः । 'जमु भक्षणे' यङ्लुकि शत्रन्तस्य रूपम् । इज्यन्ते देवता अस्मिन्निति यजोऽग्निः तेषां जान आविर्भावस्तस्मिन् जिजायिषि जातोऽस्मि इहलोके अतो मां जिजाहि जानीहि । ततो योगात् मां जमदग्निरिति नामतो विद्धि । जाजमदित्यत्राद्यपदे प्रथमाक्षरलोपे द्वितीयस्याग्नित्वे जमदग्निरिति सिद्धम् । ततो जाजमन्तोऽग्निश्चास्मिन् सन्तीति जमदग्निमान् । ततो मतुब्लोपेन जमदग्निरिति पदम् । एतेनापि स्वस्याधर्षणीयत्वमुक्तम् ॥ 7-142-39 धरान्पर्वतान् । धरित्रीं भुवम् । वसून्देवान्धत्ते इति व्युत्पत्त्या वसुधां दिवं च तिष्ठामि अधितिष्ठामि । भर्तुर्वसिष्ठस्यानन्तरम् अव्यवधानेन अनुरुन्धतीत्यत्र नुकारलोपः । सारं धरित्रीवसुधां नेच्छे भर्तुरनन्तरम् । इति ध. पाठः । वसुधामिच्छे भर्तुरिति क. थ. पाठः ॥ 7-142-41 गडि वदनैकदेश इति धातोः गण्डेति नुमा सहितस्यानुकरणम् । मा माम् । वृषादर्भिणाऽग्नौ हुत्वाऽस्या उत्पादितत्वादनलसम्भवत्वम् । गण्डं गतवती गण्डं गण्डा गण्डेति सञ्ज्ञिता । गण्डं गण्डेति गण्डेतीति ध. पाठः । चण्डं गतवती चण्डा चण्डाचण्डेति सञ्ज्ञिता । चण्डाचण्डेति चण्डेतीति थ. पाठः ॥ 7-142-43 पशून् जीवान् रञ्जामि रञ्जयामि । मां मम नामेत्यर्थः । सखे सखायौ सख्येय इति ड. पाठः । सहेऽपराधं सख्येय इति ङ. पाठः ॥ 7-142-45 श्वा धर्मः तत्सखायो मुनयः तेषां सखा शुनःसखसखः तम् । शुनां सदा सखायं मामिति ङ. थ. पाठः ॥ 7-142-47 भस्म भस्मताम् ॥ 7-142-51 कलापशः सङ्घशः ॥ 7-142-55 सर्व एव शुनस्सखमिति थ. ध. पाठः ॥ 7-142-57 शुनः सारमेयान्परिकर्षतु क्रीडार्थं मृगयार्थं वा । परिव्राट् कर्मवृत्तिस्त्विति थ. ध. पाठः ॥ 7-142-58 स्वसुतां शुल्कग्रहणेन । कीनाशात् कर्षकात् ॥ 7-142-60 सर्वत्र सर्वं पणतु न्यासलोभं करोतु चेति ट. थ. पाठः ॥ 7-142-61 वृथा यागादिनिमित्तं विना । वृथा नटनर्तकादौ ॥ 7-142-62 जयतां युद्धे वादे वा । मातरं चापि जहत्विति क. पाठः ॥ 7-142-63 कक्षाग्नौ तत्र हि हुतं भस्मीभावमप्राप्य होतुर्दोषकरमित्याशयः ॥ 7-142-67 निर्गुणान्बिभृयाद्भृत्यानिति क. ट. थ. पाठः ॥ 7-142-69 ऋद्ध्या चैवाप्यहङ्कृत इति झ. पाठः ॥ 7-142-70 वर्षाचरोस्तु भृतक इति झ. पाठः ॥ 7-142-72 ज्ञातीनाम् अनादरे षष्ठी । ज्ञातीननादृत्येत्यर्थः । अभोग्या योनिदूषिता ॥ 7-142-73 साधुभिश्च विरुध्यत्विति ट. थ. पाठः ॥ 7-142-74 साधयित्वा अन्नं पक्त्वा ॥ 7-142-78 अद्यं भक्ष्यम् ॥ 7-142-79 अन्तर्हितानि अन्तर्धानं प्रापितानि ॥ 7-142-85 राजन्ब्राह्मणस्य प्रकीर्तित इति क. थ. पाठः ॥