श्रीः अध्यायः 141
भीष्मेण युधिष्ठिरम्प्रत्यसाधुभ्यः प्रतिग्रहस्य निन्द्यत्वे प्रमाणतया सप्तर्षिवृषादर्भिसंवादानुवादः ॥ 1 ॥ वृषादर्भिणा राज्ञा कश्यपादिसप्तर्षिभिः स्वस्मात्प्रतिग्रहनिराकरणे तज्जिघांसया कृत्योत्पादनम् ॥ 2 ॥ तन्नामार्थपरिज्ञानेन तद्वधं चोदितया कृत्यया वने तत्समीपम् प्रति गमनम् ॥ 3 ॥
युधिष्ठिर उवाच 001
ब्राह्मणेभ्यः प्रयच्छन्ति दानानि विविधानि च । 001a
दातृप्रतिग्रहीत्रोर्वै को विशेषः पितामह ॥ 001c
भीष्म उवाच 002
साधोर्यः प्रतिगृह्णीयात्तथैवासाधुतो द्विजः । 002a
गुणवत्यल्पदोषः स्यान्निर्गुणे तु निमज्जति ॥ 002c
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 003a
वृषादर्भेश्च संवादं सप्तर्षीणां च भारत ॥ 003c
कश्यपोऽत्रिर्वसिष्ठश्च भरद्वाजोऽथ गौतमः । 004a
विश्वामित्रो जमदग्निः साध्वी चैवाप्यरुन्धती ॥ 004c
सर्वेषामथ तेषां तु गण्डाभूत्परिचारिका । 005a
शूद्रः पशुसखश्चैव भर्ता चास्या बभूव ह ॥ 005c
ते च सर्वे तपस्यन्तः पुरा चेरुर्महीमिमाम् । 006a
समाधिना प्रतीक्षन्तो ब्रह्मलोकं सनातनम् ॥ 006c
अथाभवदनावृष्टिर्महती कुरुनन्दन । 007a
कृच्छ्रप्राणोऽभवद्यत्र लोकोऽयं वै क्षुधान्वितः ॥ 007c
कस्मिंश्चिच्च पुरा यज्ञे याज्येन शिबिसूनुना । 008a
दक्षिणार्थेऽथ ऋत्विग्भ्यो दत्तः पुत्रोऽनिलः किल || 008c
अस्मिन्कालेऽथ सोऽल्पायुर्दिष्टान्तमगमत्प्रभुः । 009a
ते तं क्षुधाभिसन्तप्ताः परिवार्योपतस्थिरे ॥ 009c
याज्यात्मजमथो दृष्ट्वा गतासुमृषिसत्तमाः । 010a
अपचन्त तदा स्थाल्यां क्षुधार्ताः किल भारत || 010c
नाजीव्ये मर्त्यलोकेऽस्मिन्नात्मानं ते परीप्सवः । 011a
कृच्छ्रामापेदिरे वृत्तिमन्नहेतोस्तपस्विनः ॥ 011c
अटमानोऽथ तान्मार्गे पचमानान्महीपतिः । 012a
राजा शैब्यो वृषादर्भिः क्लिश्यमानान्ददर्श ह ॥ 012c
वृषादर्भिरुवाच 013
प्रतिग्रहस्तारयति पुष्टिर्वै प्रतिगृह्णताम् । 013a
मयि यद्विद्यते वित्तं तद्वृणुध्वं तपोधनाः ॥ 013c
'प्रतिग्रहो ब्राह्मणानां सृष्टा वृत्तिरनिन्दिता । 014a
तस्माद्ददामि वो वित्तं तद्वृणुध्वं तपोधनाः ॥' 014c
प्रियो हि मे ब्राह्मणो याचमानो दद्यामहं वोऽश्वतरीसहस्रम् । 015a
धेनूनां दद्यामयुतं समग्रमेकैकशः सवृषाः सम्प्रसूताः ॥ 015c
अश्वांस्तथा शीघ्रगाञ्श्वेतरूपान्न्मनोजवान्प्रददाम्यर्बुदानि । 016a
कुलम्भराननडुहः शतं शतान्धुर्याञ्श्वेतान्सर्वशोऽहं ददामि । 016c
प्रष्ठौहीनां पीवराणां च तावदग्र्या गृष्टीर्धेनवः सुव्रताश्च ॥ 016e
वरान्ग्रामान्व्रीहिरसं यवांश्च रत्नं चान्यद्दुर्लभं किं ददानि । 017a
नास्मिन्नभक्ष्ये भावमेवं कुरुध्वं पुष्ट्यर्थं वः किं प्रयच्छाम्यहं वै ॥ 017c
ऋषय ऊचुः 018
राजन्प्रतिग्रहो राज्ञं मध्वास्वादो विषोपमः । 018a
तज्जानमानः कस्मात्त्वं कुरुषे नः प्रलोभनम् ॥ 018c
'दशसूनासमश्चक्री दशचक्रिसमो ध्वजी । 019a
दशध्वजिसमा वेश्या दशवेश्यासमो नृपः ॥ 019c
दशसूनासहस्राणि यो वाहयति सौनिकः । 020a
तेन तुल्यो भवेद्राजा घोरस्तस्य प्रतिग्रहः ॥' 020c
क्षेत्रं हि दैवतमिव ब्राह्मणान्समुपाश्रितम् । 021a
अमलो ह्येष तपसा प्रीतः प्रीणाति देवताः ॥ 021c
अह्नायेह तपो जातु ब्राह्मणस्योपजायते । 022a
तद्दाव इव निर्दह्यात्प्राप्तो राजप्रतिग्रहः ॥ 022c
कुशलं सह दानेन राजन्नस्तु सदा तव । 023a
अर्थिभ्यो दीयतां सर्वमित्युक्त्वा तेन्यतो ययुः ॥ 023c
अपक्वमेव तन्मांसमभूत्तेषां महात्मनाम् । 024a
अथ हित्वा ययुः सर्वे वनमाहारकाङ्क्षिणः ॥ 024c
ततः प्रचोदिता राज्ञा वनं गत्वाऽस्य मन्त्रिणः । 025a
प्रचीयोदुम्बराणि स्म दातुं तेषां प्रचक्रिरे ॥ 025c
'दृष्ट्वा फलानि मुनयस्ते ग्रहीतुमुपाद्रवन् ॥' 026ac
उदुम्बराण्यथान्यानि हेमगर्भाण्युपाहरन् । 027a
भृत्यास्तेषां ततस्तानि प्रग्राहितुमुपाद्रवन् ॥ 027c
गुरूणीति विदित्वाऽथ न ग्राह्याण्यत्रिरब्रवीत् । 028a
नास्महे मन्दविज्ञाना नास्म मानुषबुद्धयः ॥ 028c
हैमानीमानि जानीमः प्रतिबुद्धाः स्म जागृम । 029a
इह ह्येतदुपावृत्तं प्रेत्य स्यात्कटुकोदयम् । 029c
अप्रतिग्राह्यमेवैतत्प्रेत्येह च सुखेप्सुना ॥ 029e
वसिष्ठ उवाच 030
शतेन निष्कगुणितं सहस्रेण च सम्मितम् । 030a
तथा बहु प्रतीच्छन्वै पापिष्ठां लभते गतिम् ॥ 030c
कश्यप उवाच 031
यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः । 031a
सर्वं तन्नालमेकस्य तस्माद्विद्वाञ्शमं व्रजेत् ॥ 031c
भरद्वाज उवाच 032
उत्पन्नस्य रुरोः शृङ्गं वर्धमानस्य वर्धते । 032a
प्रार्थना पुरुषस्येव तस्य मात्रा न विद्यते ॥ 032c
गौतम उवाच 033
न तल्लोके द्रव्यमस्ति यल्लोभं प्रतिपूरयेत् । 033a
समुद्रकल्पः पुरुषो न कदाचन पूर्यते ॥ 033c
विश्वामित्र उवाच 034
कामं कामयमानस्य यदा कामः समृध्यते । 034a
अथैनमपरः काम इष्टो विध्यति बाणवत् ॥ 034c
'अत्रिरुवाच 035
न जातु कामः कामानामुपभोगेन शाम्यति । 035a
हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥' 035c
जमदग्निरुवाच 036
प्रतिग्रहे संयमो वै तपो धारयते ध्रुवम् । 036a
तद्धनं ब्राह्मणस्येह लुभ्यमानस्य विस्रवेत् ॥ 036c
अरुन्धत्युवाच 037
धर्मार्थं सञ्चयो यो वा द्रव्याणां पक्षसम्मतः । 037a
तपःसञ्चय एवेह विशिष्टो द्रव्यसञ्चयात् ॥ 037c
चण्डोवाच 038
उग्रादितो भयाद्यस्माद्बिभ्यतीमे ममेश्वराः । 038a
बलीयसो दुर्बलवद्बिभेम्यहमतः परम् ॥ 038c
पशुसख उवाच 039
यद्वै धर्मात्परं नास्ति तादृशं ब्राह्मणा विदुः । 039a
विनयात्साधु विद्वांसमुपासेयं यथातथम् ॥ 039c
ऋषय ऊचुः 040
कुशलं सह दानेन तस्मै यस्य प्रजा इमाः । 040a
फलान्युपधियुक्तानि य एवं नः प्रयच्छति ॥ 040c
भीष्म उवाच 041
इत्युक्त्वा हेमगर्भाणि हित्वा तानि फलानि ते । 041a
ऋषयो जग्मुरन्यत्र सर्व एव दृढव्रताः ॥ 041c
अथ ते मन्त्रिणः सर्वे राजानमिदमब्रुवन् । 042a
उपधिं शङ्कमानास्ते हित्वा तानि फलानि वै । 042c
ततोऽन्यत्रैव गच्छन्ति विदितं तेऽस्तु पार्थिव ॥ 042e
इत्युक्तः स तु भृत्यैस्तैर्वृषादर्भिश्चुकोप ह । 043a
तेषां वै प्रतिकर्तुं च सर्वेषामगमद्गृहम् ॥ 043c
स गत्वाऽऽहवनीयेऽग्नौ तीव्रं नियममास्थितः । 044a
जुहाव संस्कृतैर्मन्त्रैरेकैकामाहुतिं नृपः ॥ 044c
तस्मादग्नेः समुत्तस्थौ कृत्या लोकभयङ्करी । 045a
तस्या नाम वृषादर्भिर्यातुधानीत्यथाकरोत् ॥ 045c
सा कृत्या कालरात्रीव कृताञ्जलिरुपस्थिता । 046a
वृषादर्भिं नरपतिं किं करोमीति चाब्रवीत् ॥ 046c
वृषादर्भिरुवाच 047
ऋषीणां गच्छ सप्तानामरुन्धत्यास्तथैव च । 047a
दासीभर्तुश्च दास्याश्च मनसा नाम धारय ॥ 047c
ज्ञात्वा नामानि चैवैषां सर्वानेतान्विनाशय । 048a
विनष्टेषु तथा स्वैरं गच्छ यत्रेप्सितं तव ॥ 048c
सा तथेति प्रतिश्रुत्य यातुधानी स्वरूपिणी । 049a
जगाम तद्वनं यत्र विचेरुस्ते महर्षयः ॥ 049c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकचत्वारिंशदधिकशततमोऽध्यायः ॥ 141 ॥
7-141-3 वृषा दर्वेश्च संवादमिति थ. ध. पाठः ॥ 7-141-5 गण्डाभूत्कर्मकारिकेति झ. पाठः । गण्डा नामतः ॥ 7-141-9 दिष्टान्तं मरणम् ॥ 7-141-11 आत्मानं शरीरं परीप्सवः रक्षितुकामाः । निरन्ने मर्त्यलोकेऽस्मिन्निति झ. पाठः ॥ 7-141-13 पुष्टिः पुष्टिहेतुः । तच्छृणुध्वं तपोधना इति ट. थ. ध. पाठः ॥ 7-141-30 प्रतीच्छन् प्रतिगृह्णन् ॥ 7-141-32 तस्य लाभसुखस्य मात्रा इयत्ता ॥ 7-141-36 तद्धनं तपोधनम् ॥ 7-141-37 पक्षसम्मतः पाक्षिकत्वेन मतः ॥ 7-141-39 यद्वै धर्मे परं नास्ति ब्राह्मणास्तद्धनं विदुरिति झ. पाठः । यत् यतो हेतोः । वैधर्मे विधर्म एव वैधर्मः तस्मिँलोभादिदोषे सति परम् उत्कृष्टं पदं नास्ति न लभ्यतेऽतस्तदलोभाख्यमेव धनं ब्राह्मणा विदुः ॥ 7-141-40 उपधिश्छलम् । कश्मलाधमदानाय प्रतियत्नः प्रजाधमाः । फलान्युपधियुक्तानि यत्र यः सम्प्रच्छतीति थ. ध. पाठः ॥ 7-141-47 नाम नाम्नोर्थम् ॥ 7-141-48 ज्ञात्वा नामानुरूपं तेषां सामर्थ्यं परीक्ष्य तान् विनाशय । अन्यथा त्वामेव ते विनाशयिष्यन्तीति भावः ॥