श्रीः अध्यायः 140

भीष्मेण युधिष्ठिरम्प्रत्युपवासब्रह्मचर्यादीनां लक्षणकथनम् ॥ 1 ॥

युधिष्ठिर उवाच 001
द्विजातयो व्रतोपेता हविस्ते यदि भुञ्जते । 001a
अन्नं ब्राह्मणकामाय कथमेतत्पितामह ॥ 001c
भीष्म उवाच 002
अवेदोक्तव्रताश्चैव भुञ्जानाः कामकारणे । 002a
वेदोक्तेषु तु भुञ्जाना व्रतलुप्ता युधिष्ठिर ॥ 002c
युधिष्ठिर उवाच 003
यदिदं तप इत्याहुरुपवासं पृथग्जनाः । 003a
तपः स्यादेतदेवेह तपोऽन्यद्वाऽपि किं भवेत् ॥ 003c
भीष्म उवाच 004
मासार्धमासोपवासाद्यत्तपो मन्यते जनः । 004a
आत्मतन्त्रोपघाती यो न तपस्वी न धर्मवित् ॥ 004c
त्यागस्य चापि सम्पत्तिः शिष्यते तप उत्तमम् । 005a
सदोपवासी च भवेद्ब्रह्मचारी तथैव च ॥ 005c
मुनिश्च स्यात्सदा विप्रो देवांश्चैव सदा यजेत् । 006a
कुटुम्बिको धर्मकामः सदाऽस्वप्नश्च मानवः ॥ 006c
अमृताशी सदा च स्यात्पवित्रं च सदा पठेत् । 007a
ऋतवादी सदा च स्यान्नियतश्च सदा भवेत् ॥ 007c
विघसाशी कथं च स्यात्सदा चैवातिथिप्रियः । 008a
अमृताशी सदा च स्यात्पवित्री च सदा भवेत् ॥ 008c
युधिष्ठिर उवाच 009
कथं सदोपवासी स्याद्ब्रह्मचारी च पार्थिव । 009a
विघसाशी कथं च स्यात्कथं चैवातिथिप्रियः ॥ 009c
भीष्म उवाच 010
अन्तरा सायमाशं च प्रातराशं च यो नरः । 010a
सदोपवासी भवति यो न भुङ्क्तेऽन्तरा पुनः ॥ 010c
भार्या गच्छन्ब्रह्मचारी ऋतौ भवति चैव ह । 011a
ऋतवादी सदा च स्याद्दानशीलस्तु मानवः ॥ 011c
अभक्षयन्वृथा मांसममांसाशी भवत्युत । 012a
दानं ददत्पवित्री स्यादस्वप्नश्च दिवाऽस्वपन् ॥ 012c
भृत्यातिथिषु यो भुङ्क्ते भुक्तवत्सु नरः सदा । 013a
अमृतं केवलं भुङ्क्ते इति विद्धि युधिष्ठिर ॥ 013c
अभुक्तवत्सु नाश्नाति ब्राह्मणेषु तु यो नरः । 014a
अभोजनेन तेनास्य जितः स्वर्गो भवत्युत ॥ 014c
देवेभ्यश्च पितृभ्यश्च संश्रितेभ्यस्तथैव च । 015a
अवशिष्टानि यो भुङ्क्ते तमाहुर्विघसाशिनम् ॥ 015c
तेषां लोका ह्यपर्यन्ताः सदने ब्रह्मणः स्मृताः । 016a
उपस्थिता ह्यप्सरसो गन्धर्वैश्च जनाधिप ॥ 016c
देवतातिथिभिः सार्धं पितृभिश्चोपभुञ्जते । 017a
रमन्ते पुत्रपौत्रैश्च तेषां गतिरनुत्तमा ॥ 017c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि चत्वारिंशदधिकशततमोऽध्यायः ॥ 140 ॥

7-140-2 कामकारणे इच्छया हेतुना भुञ्जाना भोजनं कुर्वन्तु नाम ॥ 7-140-4 आत्मतन्त्रं शरीररूपं कुटुम्बरूपं वा तदुपघाती ॥ 7-140-6 अस्वप्नः स्वधर्मे जागरूकः । वेदांश्चैव सदा जपेदिति झ. पाठः ॥ 7-140-8 सदा च स्यादस्वप्नश्च तथैव चेति ड. पाठः ॥ 7-140-12 वृथा यज्ञादिनिमित्तं विना ॥