श्रीः अध्यायः 139

भीष्मेण युधिष्ठिरम् प्रति निमिकृतश्राद्धप्रकारानुवादेन श्राद्धविधिकथनम् ॥ 1 ॥

भीष्म उवाच 001
तथा विधौ प्रवृत्ते तु सर्व एव महर्षयः । 001a
पितृयज्ञानकुर्वन्त विधिदृष्टेन कर्मणा ॥ 001c
ऋषयो धर्मनित्यास्तु कृत्वा निवपनान्युत । 002a
तर्पणं चापि कुर्वन्त तीर्थाम्भोभिर्यतव्रताः ॥ 002c
निवापैर्दीयमानैश्च चातुर्वर्ण्येन भारत । 003a
तर्पिताः पितरो देवास्तत्रान्नं जरयन्ति वै ॥ 003c
अजीर्णैस्त्वभिहन्यन्ते ते देवाः पितृभिः सह ॥ 004a
सोममेवाभ्यपद्यन्त तदा ह्यन्नाभिपीडिताः ॥ 004c
तेऽब्रुवन्सोममासाद्य पितरोऽजीर्णपीडिताः । 005a
निवापान्नेन पीड्यामः श्रेयो नोत्र विधीयताम् ॥ 005c
तान्सोमः प्रत्युवाचाथ श्रेयश्चेदीप्सितं सुराः । 006a
स्वयम्भूसदनं यात स वः श्रेयोऽभिधास्यति ॥ 006c
ते सोमवचनाद्देवाः पितृभिः सह भारत । 007a
मेरुशृङ्गे समासीनं पितामहमुपागमन् ॥ 007c
पितर ऊचुः 008
निवापान्नेन भगवन्भृशं पीड्यामहे वयम् । 008a
प्रसादं कुरु नो देव श्रेयो नः संविधीयताम् ॥ 008c
इति तेषां वचः श्रुत्वा स्वयम्भूरिदमब्रवीत् । 009a
एष मे पार्श्वतो वह्निर्युष्मच्छ्रेयो विधास्यति || 009c
अग्निरुवाच 010
सहितास्तस्य भोक्ष्यामो निवापे समुपस्थिते । 010a
जरयिष्यथ चाप्यन्नं मया सार्धं न संशयः ॥ 010c
एतच्छ्रुत्वा तु पितरस्ततस्ते विज्वराऽभवन् । 011a
एतस्मात्कारणाच्चाग्नेः प्राग्भागो दीयते नृप ॥ 011c
निवापे चाग्निपूर्वं वै निवृत्ते पुरुषर्षभ । 012a
न ब्रह्मराक्षसास्तं वै निवापं धर्षयन्त्युत ॥ 012c
रक्षांसि नाभिवर्धन्ते स्थिते देवे हुताशने । 013a
पूर्वं पिण्डं पितुर्दद्यात्ततो दद्यात्पितामहे ॥ 013c
प्रपितामहाय च तत एष श्राद्धविधिः स्मृतः । 014a
ब्रूयाच्छ्राद्धे च सावित्रीं पिण्डे पिण्डे समाहितः । 014c
सोमायेति च वक्तव्यं तथा पितृमतेति च ॥ 014e
रजस्वला च या नारी व्यङ्गिता कर्णयोश्च या । 015a
निवापे नोपतिष्ठेत सङ्ग्राह्या नान्यवंशजा ॥ 015c
जलं प्रतरमाणश्च कीर्तयेत पितामहान् । 016a
नदीमासाद्य कुर्वीत पितॄणां पितृतर्पणम् ॥ 016c
पूर्वं स्ववंशजानां तु कृत्वाऽद्भिस्तर्पणं पुनः । 017a
सुहृत्सम्बन्धिवर्गाणां ततो दद्याज्जलाञ्जलिम् ॥ 017c
कल्माषगोयुगेनाथ युक्तेन तरतो जलम् । 018a
पितरोऽभिलषन्ते वै नावं चाप्यधिरोहिताः ॥ 018c
सदा नावि जलं तज्ज्ञाः प्रयच्छन्ति समाहिताः । 019a
मासार्धे कृष्णपक्षस्य कुर्यान्निर्वपणानि वै ॥ 019c
पुष्टिरायुस्तथा वीर्यं श्रीश्चैव पितृभक्तितः ॥ 020ac
पितामहः पुलस्त्यश्च वसिष्ठः पुलहस्तथा । 021a
अङ्गिराश्च क्रतुश्चैव कश्यपश्च महानृषिः । 021c
एते कुरुकुलश्रेष्ठ महायोगेश्वराः स्मृताः ॥ 021e
एते च पितरो राजन्नेष श्राद्धविधिः परः । 022a
प्रेतास्तु पिण्डसम्बन्धान्मुच्यन्ते तेन कर्मणा ॥ 022c
इत्येषा पुरुषश्रेष्ठ श्राद्धोत्पत्तिर्यथागमम् । 023a
व्याख्याता पूर्वनिर्दिष्टा किं ते वक्ष्याम्यतः परम् ॥ 023c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकोनचत्वारिंशदधिकशततमोऽध्यायः ॥ 139 ॥

7-139-1 तथानिमौ प्रवृत्ते इति झ. पाठः । तथा पित्र्ये प्रवृत्ते इति ध. पाठः ॥ 7-139-15 अन्यवंशजापि पाकार्थं न सङ्ग्राह्या । न ग्राह्याश्चाप्यवंशजा इति ट. थ. पाठः ॥ 7-139-18 युक्तेन शकटेन ॥ 7-139-19 मासार्धे अमावास्यायाम् । कृष्णपक्षस्येत्युक्तेर्नात्र शुक्लादिमासो विवक्षितः ॥