श्रीः अध्यायः 138

भीष्मेण युधिष्ठिरम् प्रति श्राद्धे वर्जनीयधान्यशाकादिप्रतिपादकात्रिनिमिसंवादानुवादः ॥ 1 ॥

युधिष्ठिर उवाच 001
केन सङ्कल्पितं श्राद्धं कस्मिन्काले किमात्मकम् । 001a
भृग्वङ्गिरसिके काले मुनिना कतरेण वा ॥ 001c
'येन सङ्कल्पितं चैव तन्मे ब्रूहि पितामह ।' 002a
कानि श्राद्धेषु वर्ज्यानि कानि मूलफलानि च । 002c
धान्यजात्यश्च का वर्ज्यास्तन्मे ब्रूहि पितामह ॥ 002e
भीष्म उवाच 003
यथा श्राद्धं सम्प्रवृत्तं यस्मिन्काले सदात्मकम् । 003a
येन सङ्कल्पितं चैव तन्मे शृणु जनाधिप ॥ 003c
स्वायम्भुवोऽत्रिः कौरव्य परमर्षिः प्रतापवान् । 004a
तस्य वंशे महाराज दत्तात्रेय इति स्मृतः ॥ 004c
दत्तात्रेयस्य पुत्रोऽभून्निमिर्नाम तपोधनः । 005a
निमेश्चाप्यभवत्पुत्रः श्रीमान्नाम श्रिया वृतः ॥ 005c
पूर्णे वर्षसहस्रान्ते स कृत्वा दुष्करं तपः । 006a
कालधर्मपरीतात्मा निधनं समुपागतः ॥ 006c
निमिस्तु कृत्वा शौचानि विधिदृष्टेन कर्मणा । 007a
सन्तापमगमत्तीव्रं पुत्रशोकपरायणः ॥ 007c
अथ कृत्वोपकार्याणि चतुर्दश्यां महामतिः । 008a
तमेव गणयञ्शोकं विरात्रे प्रत्यबुध्यत ॥ 008c
तस्यासीत्प्रतिबुद्धस्य शोकेन व्यथितात्मनः । 009a
मनः संहृत्य विषये बुद्धिर्विस्तारगामिनी ॥ 009c
ततः सञ्चिन्तयामास श्राद्धकल्पं समाहितः । 010a
यानि तस्यैव भोज्यानि मूलानि च फलानि च ॥ 010c
उक्तानि यानि चान्यानि यानि चेष्टानि तस्य ह । 011a
तानि सर्वाणि मनसा विनिश्चित्य तपोधनः ॥ 011c
अमावास्यां महाप्राज्ञो विप्रानानाय्य पूजितान् । 012a
दक्षिणावर्तिकाः सर्वा बृसीः स्वयमथाकरोत् ॥ 012c
सप्त विप्रांस्ततो भोज्ये युगपत्समुपानयत् । 013a
ऋते च लवणं भोज्यं श्यामाकान्नं ददौ प्रभुः ॥ 013c
दक्षिणाग्रास्ततो दर्भा विष्टरेषु निवेशिताः । 014a
पादयोश्चैव विप्राणां ये त्वन्नमुपभुञ्जते ॥ 014c
कृत्वा च दक्षिणाग्नान्वै दर्भान्स प्रयतः शुचिः । 015a
प्रददौ श्रीमते पिण्डान्नामगोत्रमुदाहरन् ॥ 015c
तत्कृत्वा स मुनिश्रेष्ठो धर्मसङ्करमात्मनः । 016a
पश्चात्तापेन महता तप्यमानोऽभ्यचिन्तयत् ॥ 016c
अकृतं मुनिभिः पूर्वं किं मयेदमनुष्ठितम् । 017a
कथं नु शापेन न मां दहेयुर्ब्राह्मणा इति ॥ 017c
ततः सञ्चिन्तयामास वंशकर्तारमात्मनः । 018a
'बुद्ध्वाऽत्रिं मनसा दध्यौ भगवन्तं समाहितः ।' 018c
ध्यातमात्रस्तथा चात्रिराजगाम तपोधनः ॥ 018e
अथात्रिस्तं तथा दृष्ट्वा पुत्रशोकेन कर्शितम् । 019a
भृशमाश्वासयामास वाग्भिरिष्टाभिरव्ययः ॥ 019c
निमे सङ्कल्पितस्तेऽयं पितृयज्ञस्तपोधन । 020a
मतो मे पूर्वदृष्टोऽत्र धर्मोऽयं ब्रह्मणा स्वयम् ॥ 020c
सोयं स्वयम्भुविहितो धर्मः सङ्कल्पितस्त्वया । 021a
ऋते स्वयम्भुवः कोऽन्यः श्राद्धे संविधिमाहरेत् ॥ 021c
अथाख्यास्यामि ते पुत्र श्राद्धे यं विधिमुत्तमम् । 022a
स्वयम्भुविहितं पुत्र तत्कुरुष्व निबोध मे ॥ 022c
कृत्वाऽग्निशरणं पूर्वं मन्त्रपूर्वं तपोधन । 023a
ततोऽग्नयेऽथ सोमाय वरुणाय च नित्यशः ॥ 023c
विश्वेदवाश्च ये नित्यं पितृभिः सह गोचराः । 024a
तेभ्यः सङ्कल्पिता भागाः स्वयमेव स्वयम्भुवा ॥ 024c
स्तोतव्या चेह पृथिवी लोकस्यैव तु धारिणी । 025a
वैष्णवी काश्यपी चेति तथैवेहाक्षयेति च ॥ 025c
उदकानयने चैव स्तोतव्यो वरुणो विभुः । 026a
ततोऽग्निश्चैव सोमश्च आराध्याविह तेऽनघ ॥ 026c
देवास्तु पितरो नाम निर्मिता ये स्वयम्भुवा । 027a
ऊष्मपा ये महाभागास्तेषां भागः प्रकल्पितः ॥ 027c
ते श्राद्धेनार्च्यमाना वै विमुच्यन्ते ह किल्बिषात् । 028a
सप्तकाः पितृवंशास्तु पूर्वदृष्टाः स्वयम्भुवा ॥ 028c
विश्वे चाग्निमुखा देवाः सङ्ख्याताः पूर्वमेव ते । 029a
तेषां नामानि वक्ष्यामि भागार्हाणां महात्मनाम् ॥ 029c
सहः कृतिर्विपाप्मा च पुण्यकृत्पावनस्तथा । 030a
ग्राम्यः क्षेम्यः समूहश्च दिव्यसानुस्तथैव च ॥ 030c
विवस्वान्वीर्यवाञ्श्रीमान्कीर्तिमान्कृत एव च । 031a
जितात्मा मुनिवीर्यश्च दीप्तरोमा भयङ्करः ॥ 031c
अनुकर्मा प्रतीतश्च प्रदाताऽप्यंशुमांस्तथा । 032a
शैलाभः परमक्रोधी धीरोष्णी भूपतिस्तथा ॥ 032c
स्रजो वज्रीवरी चैव विश्वेदेवाः सनातनाः । 033a
विद्युद्वर्चाः सोमवर्चाः सूर्यश्रीश्चेति नामतः ॥ 033c
सोमपः सूर्यसावित्रो दत्तात्मा पुण्डरीयकः । 034a
उष्णीनाभो नभोदश्च विश्वायुर्दीप्तिरेव च ॥ 034c
चमूहरः सुरेशश्च व्योमारिः शङ्करो भवः । 035a
ईशः कर्ता कृतिर्दक्षो भुवनो दिव्यकर्मकृत् ॥ 035c
गणितः पञ्चवीर्यश्च आदित्यो रश्मिवांस्तथा । 036a
सप्तकृत्सोमवर्चाश्च विश्वकृत्कविरेव च ॥ 036c
अनुगोप्ता सुगोप्ता च नप्ता चेश्वर एव च । 037a
कीर्तितास्ते महाभागाः कालस्य गतिगोचराः ॥ 037c
अश्राद्धेयानि धान्यानि कोद्रवाः पुलकास्तथा । 038a
हिङ्गुद्रवेषु शाकेषु मूलानां लशुनं तथा ॥ 038c
पलाण्डुः सौभाञ्जनकस्तथा गृञ्जनकादयः । 039a
कूश्माण्डजात्यलाबुं च कृष्णं लवणमेव च ॥ 039c
ग्राम्यवाराहमांसं च यच्चैवाप्रोक्षितं भवेत् । 040a
कृष्णाजं जीरकं चैव शीतपाकी तथैव च । 040c
अङ्कुराद्यास्तथा वर्ज्या इह शृङ्गाटकानि च ॥ 040e
वर्जयेल्लवणं सर्वं तथा जम्बूफलानि च । 041a
अवक्षुतावरुदितं तथा श्राद्धे च वर्जयेत् || 041c
निवापे हव्यकव्ये वा गर्हितं च सुदर्शनम् । 042a
पितरश्च हि देवाश्च नाभिनन्दन्ति तद्धविः ॥ 042c
चण्डालश्वपचौ वर्ज्यौ निवापे समुपस्थिते । 043a
काषायवासाः कुष्ठी वा पतितो ब्रह्महाऽपि वा ॥ 043c
सङ्कीर्णयोनिर्विप्रश्च सम्बन्धी पतितश्च यः । 044a
वर्जनीय बुधैरेते निवापे समुपस्थिते ॥ 044c
इत्येवमुक्त्वा भगवान्स्ववंश्यं तमृषिं पुरा । 045a
पितामहसभां दिव्या जगामात्रिस्तपोधनः ॥ 045c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि अष्टत्रिंशदधिकशततमोऽध्यायः ॥ 138 ॥

7-138-1 भृग्वङ्गिरसके यदा भृगवोऽङ्गिरसश्च वर्तन्ते नान्ये ॥ 7-138-2 श्राद्धेषु कानि कर्माणि वर्ज्यानि ॥ 7-138-8 कृत्वा उपकल्प्य । उपकार्याणि मृष्टान्नकशिपूपबर्हणादीनि । विरात्रे प्रभाते ॥ 7-138-9 विषये मनःसंहृत्य शोकं त्यक्त्वेत्यर्थः ॥ 7-138-12 दक्षिणावर्तिकाः प्रदक्षिणावर्तिताः । बृसीः आसनानि ॥ 7-138-16 श्रौते पित्राद्युद्देशेन दृष्टो धर्मो लोके पुत्रोद्देशेनापि स्वेच्छया कल्पित इति सङ्करः ॥ 7-138-23 तत्रार्यम्णे च सोमायेति ट. थ. पाठः ॥ 7-138-28 ते प्रसिद्धाः पित्रादयः । विमुच्यन्ते किल्बिषात् नरकादिरूपात् ॥ 7-138-38 पुलकाः असम्पूर्णतण्डुलयुक्तधान्यानि । हिङ्गुद्रवेषु शाकादिसंस्कारकद्रव्येषु ॥ 7-138-39 सौभाञ्जनकः शिग्रुः ॥ 7-138-40 शीतपाकी शाकविशेषः ॥ 7-138-42 सुदर्शनं शाकविशेषः ॥