श्रीः अध्यायः 137
भीष्मेण युधिष्ठिरम् प्रति श्राद्धे निमन्त्रणार्हानर्हाणां लक्षणनिरूपणम् ॥ 1 ॥
युधिष्ठिर उवाच 001
कीदृशेभ्यः प्रदातव्यं भवेच्छ्राद्धं पितामह । 001a
द्विजेभ्यः कुरुशार्दूल तन्मे व्याख्यातुमर्हसि ॥ 001c
भीष्म उवाच 002
ब्राह्मणान्न परीक्षेत क्षत्रियो दानधर्मवित् । 002a
दैवे कर्मणि पित्र्ये तु न्यायमाहुः परीक्षणम् ॥ 002c
देवताः पावयन्तीह दैवेनैवेह तेजसा । 003a
उपेत्य तस्माद्देवेभ्यः सर्वेभ्यो दापयेन्नरः ॥ 003c
श्राद्धे त्वथ महाराज परीक्षेद्ब्राह्मणान्बुधः । 004a
कुलशीलवयोरूपैर्विद्ययाऽभिजनेन च ॥ 004c
तेषामन्ये पङ्क्तिदूष्यास्तथाऽन्ये पङ्क्तिपावनाः । 005a
अपाङ्क्तेयास्तु ये राजन्कीर्तयिष्यामि ताञ्शृणु ॥ 005c
कितवो भ्रूणहा यक्ष्मी पशुपालो निराकृतिः । 006a
ग्रामप्रेष्यो वार्धुषिको गायनः सर्वविक्रयी ॥ 006c
अगारदाही गरदः कुण्डाशी सोमविक्रयी । 007a
सामुद्रिको राजभृत्यस्तैलिकः कूटकारकः ॥ 007c
पित्रा विभजमानश्च यस्य चोपपतिर्गृहे । 008a
अभिशस्तस्तथा स्तेनः शिल्पं यश्चोपजीवति ॥ 008c
पर्वकारश्च सूची च मित्रध्रुक् पारदारिकः । 009a
अव्रतानामुपाध्यायः काण्डपृष्ठस्तथैव च ॥ 009c
श्वभिश्च यः परिक्रामेद्यः शुना दष्ट एव च । 010a
परिवित्तिश्च यश्च स्याद्दुश्चर्मा गुरुतल्पगः । 010c
कुशीलवो देवलको नक्षत्रैर्यश्च जीवति ॥ 010e
ईदृशैर्ब्राह्मणैर्भुक्तमपाङ्क्तेयैर्युधिष्ठिर । 011a
रक्षांसि गच्छते हव्यमित्याहुर्ब्रह्मवादिनः ॥ 011c
श्राद्धं भुक्त्वा त्वधीयीत वृषलीतल्पगश्च यः । 012a
पुरीषे तस्य ते मासं पितरस्तस्य शेरते । 012c
सोमविक्रयिणे विष्ठा भिषजे पूयशोणितम् ॥ 013ac
नष्टं देवलके दत्तमप्रतिष्ठं च वार्धुषे । 014a
यत्तु वाणिजके दत्तं नेह नामुत्र तद्भवेत् । 014c
भस्मनीव हुतं हव्यं तथा पौनर्भवे द्विजे ॥ 014e
ये तु धर्मव्यपेतेषु चारित्रापगतेषु च । 015a
हव्यं कव्यं प्रयच्छन्ति येषां तत्प्रेत्य नश्यति ॥ 015c
ज्ञानपूर्वं तु ये तेभ्यः प्रयच्छन्त्यल्पबुद्धयः । 016a
पुरीषं भुञ्जते तस्य पितरः प्रेत्य निश्चयः ॥ 016c
एतानिमान्विजानीयादपाङ्क्तेयान्द्विजाधमान् । 017a
शूद्राणामुपदेशं च ये कुर्वन्त्यल्पचेतसः ॥ 017c
षष्टिं काणः शतं षण्डः श्वित्री यावत्प्रपश्यति । 018a
पङ्क्त्यां समुपविष्टायां तावद्दूषयते नृप ॥ 018c
यद्वेष्टितशिरा भुङ्क्ते यद्भुङ्क्ते दक्षिणामुखः । 019a
सोपानत्कश्च यद्भुङ्क्ते सर्वं विद्यात्तदासुरम् ॥ 019c
असूयता च यदत्तं यच्च श्रद्धाविवर्जितम् । 020a
सर्वं तदसुरेन्द्राय ब्रह्मा भागमकल्पयत् ॥ 020c
श्वानश्च पङ्क्तिदूषाश्च नावेक्षेरन्कथञ्चन । 021a
तस्मात्परिसृते दद्यात्तिलांश्चान्ववकीरयेत् ॥ 021c
तिलैर्विरहितं श्राद्धं कृतं क्रोधवशेन च । 022a
यातुधानाः पिशाचाश्च विप्रलुम्पन्ति तद्धविः ॥ 022c
अपाङ्क्तो यावतः पाङ्क्तान्भुञ्जानाननुपश्यति । 023a
तावत्फलाद्भ्रंशयति दातारं तस्य बालिशम् ॥ 023c
इमे तु भरतश्रेष्ठ विज्ञेयाः पङ्क्तिपावनाः । 024a
हेतुतस्तान्प्रवक्ष्यामि परीक्षस्वेह तान्द्विजान् ॥ 024c
विद्यावेदव्रतस्नाता ब्राह्मणाः सर्व एव हि । 025a
सदाचारपराश्चैव विज्ञेयाः सर्वपावनाः ॥ 025c
पाङ्क्तेयांस्तु प्रवक्ष्यामि ज्ञेयास्ते पङ्क्तिपावनाः । 026a
त्रिणाचिकेतः पञ्चाग्निस्त्रिसुपर्णः षडङ्गवित् ॥ 026c
ब्रह्मदेयानुसन्तानश्छन्दोगो ज्येष्ठसामगः । 027a
मातापित्रोर्यश्च वश्यः श्रोत्रियो दशपूरुषः ॥ 027c
ऋतुकालाभिगामी च धर्मपत्नीषु यः सदा । 028a
वेदविद्याव्रतस्नातो विप्रः पङ्क्तिं पुनात्युत ॥ 028c
अथर्वशिरसोऽध्येता ब्रह्मचारी यतव्रतः । 029a
सत्यवादी धर्मशीलः स्वकर्मनिरतश्च सः ॥ 029c
ये च पुण्येषु तीर्थेषु अभिषेककृतश्रमाः । 030a
मखेषु च समन्त्रेषु भवन्त्यवभृथप्लुताः ॥ 030c
अक्रोधना ह्यचपलाः क्षान्ताः दान्ता जितेन्द्रियाः । 031a
सर्वभूतहिता ये च श्राद्धेष्वेतान्निमन्त्रयेत् ॥ 031c
एतेषु दत्तमक्षय्यमेते वै पङ्क्तिपावनाः । 032a
इमे परे महाभागा विज्ञेयाः पङ्क्तिपावनाः ॥ 032c
यतयो मोक्षधर्मज्ञा योगिनश्चरितव्रताः । 033a
'पञ्चरात्रविदो मुख्यास्तथा भागवताः परे ॥ 033c
वैखानसाः कुलश्रेष्ठा वैदिकाचारचारिणः ।' 034a
ये चेतिहासं प्रयताः श्रावयन्ति द्विजोत्तमान् ॥ 034c
ये च भाष्यविदः केचिद्ये च व्याकरणे रताः । 035a
अधीयते पुराणं ये धर्मशास्त्राण्यथापि च ॥ 035c
अधीत्य च यथान्यायं विधिवत्तस्य कारिणः । 036a
उपपन्नो गुरुकुले सत्यवादी सहस्रशः ॥ 036c
अग्र्याः सर्वेषु वेदेषु सर्वप्रवचनेषु च । 037a
यावदेते प्रपश्यन्ति पङ्क्त्यास्तावत्पुनन्त्युत ॥ 037c
ततो हि पावनात्पङ्क्त्याः पङ्क्तिपावन उच्यते । 038a
क्रोशादर्धतृतीयाच्च पावयेदेक एव हि । 038c
ब्रह्मदेयानुसन्तान इति ब्रह्मविदो विदुः ॥ 038e
अनृत्विगनुपाध्यायः स चेदग्रासनं व्रजेत् । 039a
ऋत्विग्भिरभ्यनुज्ञातः पङ्क्त्या हरति दुष्कृतम् ॥ 039c
अथ चेद्वेदवित्सर्वैः पङ्क्तिदोषैर्विवर्जितः । 040a
न च स्यात्पतितो राजन्पङ्क्तिपावन एव सः ॥ 040c
तस्मात्सर्वप्रयत्नेन परीक्ष्यामन्त्रयेद्द्विजान् । 041a
स्वकर्मनिरतान्दान्तान्कुले जातान्बहुश्रतान् ॥ 041c
यस्य मित्रप्रधानानि श्राद्धानि च हवींषि च । 042a
न प्रीणन्ति पितॄन्देवान्स्वर्गं च न स गच्छति ॥ 042c
यश्च श्राद्धे कुरुते सङ्गतानि न देवयानेन पथा स याति । 043a
स वै मुक्तः पिप्पलं बन्धनाद्वा स्वर्गाल्लोकच्च्यवते श्राद्धमित्रः ॥ 043c
तस्मान्मित्रं श्राद्धकृन्नाद्रियेत दद्यान्मित्रेभ्यः सङ्ग्रहार्थं धनानि । 044a
यन्मन्यते नैव शत्रुं न मित्रं तं मध्यस्थं भोजयेद्धव्यकव्ये ॥ 044c
यथोषरे बीजमुप्तं न रोहेन्नचावप्ता प्राप्नुयाद्बीजभागम् । 045a
एवं श्राद्धं भुक्तमनर्हमाणैर्न चेह नामुत्र फलं ददाति ॥ 045c
ब्राह्मणो ह्यनधीयानस्तृणाग्निरिव शाम्यति । 046a
तस्मै श्राद्धं न दातव्यं न हि भस्मनि हूयते ॥ 046c
सम्भोजनी नाम पिशाचदक्षिणा सा नैव देवान्न पितॄनुपैति । 047a
इहैव सा भ्राम्यति हीनपुण्या शालान्तरे गौरिव नष्टवत्सा ॥ 047c
यथाऽग्नौ शान्ते घृतमाजुहोति तन्नैव देवान्न पितॄनुपैति । 048a
तथा दत्तं नर्तके गायके च यां चानृते दक्षिणामावृणोति ॥ 048c
उभौ हिनस्ति न भुनक्ति चैषा या चानृते दक्षिणा दीयते वै । 049a
आघातिनी गर्हितैषा पतन्ती तेषां प्रेतान्पातयेद्देवयानात् ॥ 049c
ऋषीणां समये नित्यं ये चरन्ति युधिष्ठिर । 050a
निश्चिताः सर्वधर्मज्ञास्तान्देवा ब्राह्मणान्विदुः ॥ 050c
स्वाध्यायनिष्ठा ऋषयो ज्ञाननिष्ठास्तथैव च । 051a
तपोनिष्ठाश्च बोद्धव्याः कर्मनिष्ठाश्च भारत ॥ 051c
कव्यानि ज्ञाननिष्ठेभ्यः प्रतिष्ठाप्यानि भारत । 052a
तत्र ये ब्राह्मणान्केचिन्न सीदन्ति हि ते नराः ॥ 052c
ये तु निन्दन्ति जल्पेषु न ताञ्श्राद्धेषु भोजयेत् । 053a
ब्राह्मणा निन्दिता राजन्हन्युस्त्रैपुरुषं कुलम् ॥ 053c
वैखानसानां वचनमृषीणां श्रूयते नृप । 054a
दूरादेव परीक्षेत ब्राह्मणान्वेदपारगान् ॥ 054c
प्रियो वा यदि वा द्वेष्यस्तेषां तु श्राद्धमावपेत् ॥ 055ac
यः सहस्रं सहस्राणां भोजयदेनृचो नरः । 056a
एकस्तान्मन्त्रवित्प्रीतः सर्वानर्हति भारत ॥ 056c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि सप्तत्रिंशदधिकशततमोऽध्यायः ॥ 137 ॥
7-137-3 देवेभ्यो देवानुद्दिश्य । सर्वेभ्यो विप्रेभ्यः ॥ 7-137-5 तेषामन्ये पङ्क्तिदूषा इति झ. पाठः ॥ 7-137-6 निराकृतिरध्ययनादिशून्यः । वार्धुषिको वृद्ध्यर्थं धनप्रयोक्ता ॥ 7-137-7 कुण्डाशी भगभक्षः । तैलिकस्तत्कर्मकृत् । कूटसाक्षिक इति ट. पाठः ॥ 7-137-8 पित्रा विवदमानश्चेति झ. पाठः ॥ 7-137-9 पर्वकारो वेषान्तरधारी । सूची पिशुनः । अव्रतानां शूद्राणाम् । काण्डपृष्ठः शस्त्राजीवी ॥ 7-137-10 श्वभिः परिक्रामेन्मृगयां कुर्वन् ॥ 7-137-18 षष्टिंशतं पुरुषानिति शेषः ॥ 7-137-20 असुरेन्द्राय बलये ॥ 7-137-21 परिसृते आवृतदेशे ॥ 7-137-22 तिलदानेप्यदायादा ये च क्रोधवशा गणाः । यातुधानाः पिशाचाश्च न प्रलुम्पन्ति तद्धविरिति थ. ध. पाठः ॥ 7-137-26 त्रिसुपर्णं चतुष्कपर्दा युवतिः सुपेशा इति बह्वृचानां मन्त्रत्रयं वा ब्रह्ममेतुमाम् इत्यादितैत्तिरीयप्रसिद्धं वा । षडङ्गानि शिक्षादीनि ॥ 7-137-27 ब्रह्म देवः परविद्या वा तदेव देयं येषां तेषामनुसन्तानः परम्परायामुत्पन्नः ब्रह्मदेयानुसन्तानः ॥ 7-137-30 मुखेषु च सहस्रेष्विति थ. पाठः ॥ 7-137-42 मित्रमेव प्रधानं न योग्यत्वादिकं येषु तानि ॥ 7-137-43 श्राद्धेन निमित्तेन सङ्गतानि सख्यानि ॥ 7-137-47 सम्भोजनी अन्योन्यं दीयमाना ॥ 7-137-48 यां च दक्षिणामनृते अपात्रे आवृणोति प्रयच्छति ॥ 7-137-49 न भुनक्ति न पालयति । आघातिनी हन्त्री ॥