श्रीः अध्यायः 135

भीष्मेण युधिष्ठिरम् प्रति श्राद्धे तिलमांसविशेषदानस्य फलविशेषकथनम् ॥ 1 ॥

युधिष्ठिर उवाच 001
किंस्विद्दत्तं पितृभ्यो वै भवत्यक्षयमीश्वरः । 001a
किंस्विद्बहुफलं प्रोक्तं किमानन्त्याय कल्पते ॥ 001c
भीष्म उवाच 002
हवींषि श्राद्धकल्पे तु यानि श्राद्धविदो विदुः । 002a
तानि मे शृणु काम्यानि फलं चैषां युधिष्ठिर ॥ 002c
तिलैर्व्रीहियवैर्माषैरद्भिर्मूलफलैस्तथा । 003a
दत्तेन मासं प्रीयन्ते श्राद्धेन पितरो नृप ॥ 003c
वर्धमानतिलं श्राद्धमक्षयं मनुरब्रवीत् । 004a
सर्वेष्वेव तु भोज्येषु तिलाः प्राधान्यतः स्मृताः ॥ 004c
द्वौ मासौ तु भवेत्तृप्तिर्मत्स्यैः पितृगणस्य ह । 005a
त्रीन्मासानाविकेनाहुश्चतुर्मासं शशेन ह ॥ 005c
आजेन मासान्प्रीयन्ते पञ्चैव पितरो नृप । 006a
वाराहेण तु षण्मासान्सप्त वै शाकुलेन तु ॥ 006c
मासानष्टौ पार्षतेन रौरवेण नव प्रभो । 007a
गवयस्य तु मांसेन तृप्तिः स्याद्दशमासिकी ॥ 007c
मांसेनेकादश प्रीतिः पितॄणां माहिषेण तु । 008a
गव्येन दत्ते श्राद्धे तु संवत्सरमिहोच्यते ॥ 008c
यथा गव्यं तथा युक्तं पायसं सर्पिषा सह । 009a
वाध्रीणसस्य मांसेन तृप्तिर्द्वादशवार्षिकी ॥ 009c
आन्त्याय भवेद्दतं खड्गमांसं पितृक्षये । 010a
कालशाकं च लौहं चाप्यानन्त्यं छाग उच्यते ॥ 010c
गाथाश्चाप्यत्र गायन्ति पितृगीता युधिष्ठिर । 011a
सनत्कुमारो भगवान्पुरा मय्यभ्यभाषत ॥ 011c
अपि नः स्वकुले जायाद्यो नो दद्यात्त्रयोदशीम् । 012a
मघासु सर्पिःसंयुक्तं पायसं दक्षिणायने ॥ 012c
आजेन वाऽपि लौहेन मघास्वेव यतव्रतः । 013a
हस्तिच्छायासु विधिवत्कर्णव्यजनवीजितम् ॥ 013c
एष्टव्या बहवः पुत्रा यद्येकोपि गयां व्रजेत् । 014a
यत्रासौ प्रथितो लोकेष्वक्षय्यकरणो वटः ॥ 014c
आपो मूलं फलं मांसमन्नं वाऽपि पितृक्षये । 015a
यत्किञ्चिन्मधुसम्मिश्रं तदानन्त्याय कल्पते ॥ 015c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि पञ्चत्रिंशदधिकशततमोऽध्यायः ॥ 135 ॥

7-135-7 पृषतश्चित्रमृगस्तदीयं पार्षतम् । रुरुः कृष्णमृगस्तदीयं रौरवम् ॥ 7-135-9 वाध्रीणसः वध्र्या स्यूतनासिको महोक्षः । पक्षिविशेषोऽजविशेषश्चेत्यन्ये ॥ 7-135-10 पितृक्षये मृततिथौ । लौहं काञ्चनवृक्षजं पुष्पादिशाकम् ॥ 7-135-13 वीजितं पायसादिकं दद्यादिति पूर्वेणान्वयः ॥