श्रीः अध्यायः 134

भीष्मेण युधिष्ठिरम् प्रति प्रतिपदादितिथिषु श्राद्धकरणस्य प्रत्येकम् फलकथनम् ॥ 1 ॥

युधिष्ठिर उवाच 001
चातुर्वर्ण्यस्य धर्मात्मन्धर्माः प्रोक्ता यथा त्वया । 001a
तथैव मे श्राद्धविधिं कृत्स्नं प्रब्रूहि पार्थिव ॥ 001c
वैशम्पायन उवाच 002
युधिष्ठिरेणैवमुक्तो भीष्मः शान्तनवस्तदा । 002a
इमं श्राद्धविधिं कृत्स्नं वक्तुं समुपचक्रमे ॥ 002c
भीष्म उवाच 003
शृणुष्वावहितो राजञ्श्राद्धकर्मविधिं शुभम् । 003a
धन्यं यशस्यं पुत्रीयं पितृयज्ञं परन्तप ॥ 003c
देवासुरमनुष्याणां गन्धर्वोरगरक्षसाम् । 004a
पिशाचकिन्नराणां च पूज्या वै पितरः सदा ॥ 004c
पितॄन्पूज्यादितः पश्चाद्देवतास्तर्पयन्ति वै । 005a
तस्मात्तान्सर्वयत्नेन पुरुषः पूजयेत्सदा ॥ 005c
अन्वाहार्यं महाराज पितॄणां श्राद्धमुच्यते । 006a
तस्माद्विशेषविधिना विधिः प्रथमकल्पितः ॥ 006c
सर्वेष्वहःसु प्रीयन्ते कृते श्राद्धे पितामहाः । 007a
'पिण्डान्वाहार्यकं श्राद्धं कुर्यान्मासानुमासिकम् । 007c
पितृयज्ञं तु निर्वर्त्य विप्रश्चन्द्रक्षयेऽग्निमान् ॥ 007e
पिण्डानां मासिकश्राद्धमन्वाहार्यं विदुर्बुधाः । 008a
तदामिषेण कुर्वीत प्रयतः प्राञ्जलिः शुचिः ॥' 008c
प्रवक्ष्यामि तु ते सर्वांस्तिथ्यान्तिथ्यां दिने गुणान् । 009a
येष्वहःसु कृतैः श्राद्धैर्यत्फलं प्राप्यतेऽनघ । 009c
तत्सर्वं कीर्तयिष्यामि यथावत्तन्निबोध मे ॥ 009e
पितॄनर्च्य प्रतिपदि प्राप्नुयात्स्वगृहे स्त्रियः । 010a
अभिरूपप्रजायिन्यो दर्शनीया बहुप्रजाः ॥ 010c
स्त्रियो द्वितीयां जायन्ते तृतीयायां तु वाजिनः । 011a
चतुर्थ्यां क्षुद्रपशवो भवन्ति बहवो गृहे ॥ 011c
पञ्चम्यां बहवः पुत्रा जायन्ते कुर्वतां नृप । 012a
कुर्वाणास्तु नराः षष्ठ्यां भवन्ति द्युतिभागिनः ॥ 012c
कृषिभागी भवेच्छ्राद्धं कुर्वाणः सप्तमीं नृप । 013a
अष्टम्यां तु प्रकुर्वाणो वाणिज्ये लाभमाप्नुयात् ॥ 013c
नवम्यां कुर्वतः श्राद्धं भवत्येकशफं बहु । 014a
विवर्धन्ते तु दशमीं गावः श्राद्धानि कुर्वतः ॥ 014c
कुप्यभागी भवेन्मर्त्यः कुर्वन्नेकादशीं नृप । 015a
ब्रह्मवर्चस्विनः पुत्रा जायन्ते तस्य वेश्मनि ॥ 015c
द्वादश्यामीहमानस्य नित्यमेव प्रदृश्यते । 016a
रजतं बहुवित्तं च सुवर्णं च मनोरमम् ॥ 016c
ज्ञातीनां तु भवेच्छ्रेष्ठः कुर्वञ्श्राद्धं त्रयोदशीम् ॥ 017ac
अवश्यं तु युवानोऽस्य प्रमीयन्ते नरा गृहे । 018a
युद्धभागी भवेन्मर्त्यः कुर्वञ्श्राद्धं चतुर्दशीम् ॥ 018c
अमावास्यां तु निवपन्सर्वकामानवाप्नुयात् ॥ 019ac
कृष्णपक्षे दशम्यादौ वर्जयित्वा चतुर्दशीम् । 020a
श्राद्धकर्मणि तिथ्यस्तु प्रशस्ता न तथेतराः ॥ 020c
यथा चैवापरः पक्षः पूर्वपक्षाद्विशिष्यते । 021a
तथा श्राद्धस्य पूर्वाह्णादपराह्णो विशिष्यते ॥ 021c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि चतुस्त्रिंशदधिकशततमोऽध्यायः ॥ 134 ॥

7-134-5 आदितः अमावास्यायाम् । पश्चात्प्रतिपदि ॥ 7-134-6 तच्चामिषेण विधिनेति क. ट. थ. ध. पाठः ॥ 7-134-10 गृहे स्त्रियो भार्याः ॥ 7-134-11 स्त्रियो दुहितरः ॥ 7-134-12 भवन्ति द्यूतभागिन इति ट. थ. ध. पाठः ॥ 7-134-15 कुप्यं वस्त्रपात्रादि ॥