श्रीः अध्यायः 133
भीष्मेण युधिष्ठिरम् प्रति कुमारोत्पत्तिप्रकारस्य देवादिभिस्तस्मै क्रीडनकादिदानस्य तारकासुरवधादेश्च कथनम् ॥ 1 ॥
युधिष्ठिर उवाच 001
उक्ताः पितामहेनेह सुवर्णस्य विधानतः । 001a
विस्तरेण प्रदानस्य ये गुणाः श्रुतिलक्षणाः ॥ 001c
यत्तु कारणमुत्पत्तेः सुवर्णस्य प्रकीर्तितम् । 002a
स कथं तारकः प्राप्तो निधनं तद्ब्रवीहि मे ॥ 002c
उक्तं स दैवतानां हि अवध्य इति पार्थिव । 003a
कथं तस्याभवन्मृत्युर्विस्तरेण प्रकीर्तय ॥ 003c
एतदिच्छाम्यहं श्रोतुं त्वत्तः कुरुकुलोद्वह । 004a
कार्त्स्न्येन तारकवधं परं कौतूहलं हि मे ॥ 004c
भीष्म उवाच 005
विपन्नकृत्या राजेन्द्र देवता ऋषयस्तथा । 005a
कृत्तिकाश्चोदयामासुरपत्यभरणाय वै ॥ 005c
न देवतानां काचिद्धि समर्था जातवेदसः । 006a
एता हि शक्तास्तं गर्भं सन्धारयितुमोजसा ॥ 006c
षण्णां तासां ततः प्रीतः पावको गर्भधारणात् । 007a
स्वेन तेजोविसर्गेण वीर्येण परमेण च ॥ 007c
तास्तु षट् कृत्तिका गर्भं पुपुषुर्जातवेदसः । 008a
षट्सु वर्त्मसु तेजोऽग्नेः सकलं निहितं प्रभो ॥ 008c
ततस्ता वर्धमानस्य कुमारस्य महात्मनः । 009a
तेजसाऽभिपरीताङ्ग्यो न क्वचिच्छर्म लेभिरे ॥ 009c
ततस्तेजःपरीताङ्ग्यः सर्वाः काल उपस्थिते । 010a
समं गर्भं सुषुविरे कृतिकास्ता नरर्षभ ॥ 010c
ततस्तं षडधिष्ठानं गर्भमेकत्वमागतम् । 011a
पृथिवी प्रतिजग्राह कृत्तिकानां समीपतः ॥ 011c
स गर्भो दिव्यसंस्थानो दीप्तिमान्पावकप्रभः । 012a
दिव्यं शरवणं प्राप्य ववृधे प्रियदर्शनः ॥ 012c
ददृशुः कृत्तिकास्तं तु बालमर्कसमद्युतिम् । 013a
जातस्नेहाश्च सौहार्दात्पुपुषुः स्तन्यविस्रवैः ॥ 013c
अभवत्कार्तिकेयः स त्रैलोक्ये सचराचरे । 014a
स्कन्नत्वात्स्कन्दतां प्राप्तो गुहावासाद्गुहोऽभवत् ॥ 014c
ततो देवास्त्रयस्त्रिंशद्दिशश्च सदिगीश्वराः । 015a
रुद्रो धाता च विष्णुश्च यमः पूषाऽर्यमा भगः ॥ 015c
अंशो मित्रश्च साध्याश्च वासवो वसवोऽश्विनौ । 016a
आपो वायुर्नभश्चन्द्रो नक्षत्राणि ग्रहा रविः ॥ 016c
पृथग्भूतानि चान्यानि यानि देवगणानि वै । 017a
आजग्मुस्तेऽद्भुतं द्रष्टुं कुमारं ज्वलनात्मजम् ॥ 017c
ऋषयस्तुष्टुवुश्चैव गन्धर्वाश्च जगुस्तथा । 018a
षडाननं कुमारं तु द्विषडक्षं द्विजप्रियम् ॥ 018c
पीनांसं द्वादशभुजं पावकादित्यवर्चसम् । 019a
शयानं शरगुल्मस्थं दृष्ट्वा देवाः सहर्षिभिः । 019c
लेभिरे परमं हर्षं मेनिरे चासुरं हतम् ॥ 019e
ततो देवाः प्रियाण्यस्य सर्व एव समाहरन् । 020a
क्रीडतः क्रीडनीयानि ददुः पक्षिगणांश्च ह ॥ 020c
सुपर्णोऽस्य ददौ पुत्रं मयूरं चित्रबर्हिणम् । 021a
राक्षसाश्च ददुस्तस्मै वराहमहिषावुभौ ॥ 021c
कुक्कुटं चाग्निसङ्काशं प्रददावरुणः स्वयम् । 022a
चन्द्रमाः प्रददौ मेषमादित्यो रुचिरां प्रभाम् ॥ 022c
गवां माता च गा देवी ददौ शतसहस्रशः । 023a
छागमग्निर्गुणोपेतमिला पुष्पफलं बहु ॥ 023c
सुधन्वा शकटं चैव रथं चाञ्चितकूबरम् । 024a
वरुणो वारुणान्दिव्यान्सगजान्प्रददौ शुभान् ॥ 024c
सिंहान्सुरेन्द्रो व्याघ्रांश्च द्विपानन्यांश्च दंष्ट्रिणः । 025a
श्वापदांश्च बहून्घोराञ्शस्त्राणि विविधानि च ॥ 025c
राक्षसासुरसङ्घाश्च अनुजग्मुस्तमीश्वरम् ॥ 026ac
वर्धमानवधोपायं प्रार्थयामास तारकः । 027a
उपायैर्बहुभिर्हन्तुं नाशकच्चापि तं विभुम् ॥ 027c
सैनापत्येन तं देवाः पूजयित्वा गुहालयम् । 028a
शशंसुर्विप्रकारं तं तस्मै तारककारितम् ॥ 028c
स विवृद्धो महावीर्यो देवसेनापतिः प्रभुः । 029a
जघानामोघया शक्त्या दानवं तारकं गुहः ॥ 029c
तेन तस्मिन्कुमारेण क्रीडता निहतेऽसुरे । 030a
सुरेन्द्रः स्थापितो राज्ये देवानां पुनरीश्वरः ॥ 030c
स सेनापतिरेवाथ बभौ स्कन्दः प्रतापवान् । 031a
ईशो गोप्ता च देवानां प्रियकृच्छङ्करस्य च ॥ 031c
हिरण्यमूर्तिर्भगवानेष एव च पावकिः । 032a
सदा कुमारो देवानां सैनापत्यमवाप्तवान् ॥ 032c
तस्मात्सुवर्णं मङ्गल्यं रत्नमक्षय्यमुत्तमम् । 033a
सहजं कार्तिकेयस्य वह्नेस्तेजः परं मतम् ॥ 033c
एवं रामाय कौरव्य वसिष्ठोऽकथयत्पुरा । 034a
तस्मात्सुवर्णदानाय प्रयतस्व नराधिप ॥ 034c
रामः सुवर्णं दत्त्वा हि विमुक्तः सर्वकिल्बिषैः । 035a
त्रिविष्टपे महत्स्थानमवापासुलभं नरैः ॥ 035c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि त्रयस्त्रिंशदधिकशततमोऽध्यायः ॥ 133 ॥
7-133-1 श्रुतिर्वेदो लक्षणं ज्ञापकं येषां ते श्रुतिलक्षणाः । श्रुत्युक्ता इत्यर्थः ॥ 7-133-5 विपन्नं कृत्यं येषां ते गङ्गया गर्भे त्यक्ते सति नष्टकार्याः ॥ 7-133-6 गर्भं सन्धारयितुमित्यपकृष्यते पूर्वार्धेपि ॥ 7-133-7 प्रीतस्ताभिर्गरुडीरूपेण तद्रेतः पीत्वा षोढा गर्भे धृते सतीति शेषः ॥ 7-133-8 वर्त्मसु गर्भागमनमार्गेषु योनिष्वित्यर्थः ॥