श्रीः अध्यायः 132

वसिष्ठेन परशुरामम् प्रति सुवर्णप्रभावकथनप्रसङ्गेन रुद्रयज्ञे भृग्वङ्गिरःप्रभृतिप्रभावादिकथनम् ॥ 1 ॥

वसिष्ठ उवाच 001
अपि चेदं पुरा राम श्रुतं मे ब्रह्मदर्शनम् । 001a
पितामहस्य यद्वृत्तं ब्रह्मणः परमात्मनः ॥ 001c
देवस्य महतस्तात वारुणीं बिभ्रतस्तनुम् । 002a
ऐश्वर्ये वारुणेवाऽथ रुद्रस्येशस्य वै प्रभो ॥ 002c
आजग्मुर्मुनयः सर्वे देवाश्चाग्निपुरोगमाः । 003a
यज्ञाङ्गानि च सर्वाणि वषट्कारश्च मूर्तिमान् ॥ 003c
मूर्तिमन्ति च सामानि यजूंषि च सहस्रशः । 004a
ऋग्वेदश्चागमत्तत्र पदक्रमविभूषितः ॥ 004c
लक्षणानि स्वरास्तोभा निरुक्ताः स्वरभक्तयः । 005a
ओङ्कारश्छन्दसां नेत्रं निग्रहप्रग्रहौ तथा ॥ 005c
वेदाश्च सोपनिषदो विद्या सावित्र्यथापि च । 006a
भूतं भव्यं भविष्यच्च दधार भगवाञ्शिवः ॥ 006c
सञ्जुहावात्मनाऽऽत्मानं स्वयमेव तदा प्रभो । 007a
यज्ञं च शोभयामास बहुरूपं पिनाकधृत् ॥ 007c
द्यौर्नभः पृथिवी खं च तथा चैवैष भूपतिः । 008a
सर्वविद्येश्वरः श्रीमानेष चापि विभावसुः ॥ 008c
एष ब्रह्मा शिवो रुद्रो वरुणोऽग्निः प्रजापतिः । 009a
कीर्त्यते भगवान्देवः सर्वभूतपतिः शिवः ॥ 009c
तस्य यज्ञः पशुपतेस्तपः क्रतव एव च । 010a
दीक्षा दीप्तव्रता देवी दिशश्च सदिगीश्वराः ॥ 010c
देवपत्न्यश्च कन्याश्च देवानां चैव मातरः । 011a
आजग्मुः सहितास्तत्र तदा भृगुकुलोद्वह । 011c
यज्ञं पशुपतेः प्रीता वरुणस्य महात्मनः ॥ 011e
स्वयम्भुवस्तु ता दृष्ट्वा रेतः समपतद्भुवि ॥ 012ac
तस्य शुक्रस्य निष्यन्दान्पांसून्सङ्गृह्य भूमितः । 013a
प्रास्यत्पूषा कराभ्यां वै तस्मिन्नेव हुताशने ॥ 013c
ततस्तस्मिन्सम्प्रवृत्ते सत्रे ज्वलितपावके । 014a
ब्रह्मणो जुह्वतस्तत्र प्रादुर्भावो बभूवह ॥ 014c
स्कन्नमात्रं च तच्छुक्रं स्रुवेण परिगृह्य सः । 015a
आज्यवन्मन्त्रतश्चापि सोऽजुहोद्भृगुनन्दन ॥ 015c
ततः स जनयामास भूतग्रामं च वीर्यवान् । 016a
तस्य तत्तेजसस्तस्माज्जज्ञे लोकेषु तैजसम् ॥ 016c
तमसस्तामसा भावा व्यापि सत्वं तथोभयम् । 017a
स गुणस्तेजसो नित्यं तमस्याकाशमेव च । 017c
सर्वभूतेषु च तथा सत्वं तेजस्तथोत्तमम् ॥ 017e
शुक्रे हुतेऽग्नौ तस्मिंस्तु प्रादुरासंस्त्रयः प्रभो । 018a
पुरुषा वपुषा युक्ताः स्वैः स्वैः प्रसवजैर्गुणैः ॥ 018c
भर्जनाद्भृगुरित्येवमङ्गारेभ्योऽङ्गिराऽभवत् । 019a
अङ्गारसंश्रयाच्चैव कविरित्यपरोऽभवत् । 019c
सह ज्वालाभिरुत्पन्नो भृगुस्तस्माद्भृगुः स्मृतः ॥ 019e
मरीचिभ्यो मरीचिस्तु मारीचः कश्यपो ह्यभूत् । 020a
अङ्गोरभ्योऽङ्गिरास्तात वालखिल्याः कुशोच्चयात् ॥ 020c
अत्रैवात्रेति च विभो जातमत्रिं वदन्त्यपि ॥ 021ac
तथा भस्मव्यपोहेभ्यो ब्रह्मर्षिगणसम्मताः । 022a
वैखानसाः समुत्पन्नास्तपःश्रुतगुणेप्सवः ॥ 022c
अश्रुतोऽस्य समुत्पन्नावश्विनौ रूपसम्मतौ । 023a
शेषाः प्रजानां पतयः स्रोतोभ्यस्तस्य जज्ञिरे । 023c
ऋषयो रोमकूपेभ्यः स्वेदाच्छन्दो बलान्मनः ॥ 023e
एतस्मात्कारणादाहुरग्निः सर्वास्तु देवताः । 024a
ऋषयः श्रुतसम्पन्ना वेदप्रामाण्यदर्शनात् ॥ 024c
यानि दारूणि निर्यासास्ते मासाः पक्षसञ्ज्ञिताः । 025a
अहोरात्रा मुहूर्ताश्च वीतज्योतिश्च वारुणम् ॥ 025c
रौद्रं लोहितमित्याहुर्लोहितात्कनकं स्मृतम् । 026a
तन्मैत्रमिति विज्ञेयं धूमाच्च वसवः स्मृताः ॥ 026c
अर्चिषो याश्च ते रुद्रास्तथाऽऽदित्या महाप्रभाः । 027a
उद्दीप्तास्ते तथाऽङ्गारा ये धिष्ण्येषु दिवि स्थिताः ॥ 027c
अग्निर्नाथश्च लोकस्य तत्परं ब्रह्म तद्भुवम् । 028a
सर्वकामदमित्याहुस्तत्र हव्यमुपावहन् ॥ 028c
ततोऽब्रवीन्महादेवो वरुणः पवनात्मकः । 029a
मम सत्रमिदं दिव्यमहं गृहपतिस्त्विह ॥ 029c
त्रीणि पूर्वाण्यपत्यानि मम तानि न संशयः । 030a
इति जानीत खगमा मम यज्ञफलं हि तत् ॥ 030c
अग्निरुवाच 031
मदङ्गेभ्यः प्रसूतानि मदाश्रयकृतानि च । 031a
ममैव तान्यपत्यानि मम शुक्लं हुतं हि तत् ॥ 031c
अथाब्रवील्लोकगुरुर्ब्रह्मा लोकपितामहः । 032a
ममैव तान्यपत्यानि मम शुक्लं हुतं हि तत् ॥ 032c
अहं वक्ता च मन्त्रस्य होता शुक्रस्य चैव ह । 033a
यस्य बीजं फलं तस्य शुक्रं चेत्कारणं मतम् ॥ 033c
ततोऽब्रुवन्देवगणाः पितामहमुपेत्य वै । 034a
कृताञ्जलिपुटाः सर्वे शिरोभिरभिवन्द्य च ॥ 034c
वयं च भगवन्सर्वे जगच्च सचराचरम् । 035a
तवैव प्रसवाः सर्वे तस्मादग्निर्विभावसुः । 035c
वरुणश्चेश्वरो देवो लभतां काममीप्सितम् ॥ 035e
निसर्गाद्ब्रह्मणश्चापि वरुणो यादसाम्पतिः । 036a
जग्राह वै भृगु पूर्वमपत्यं सूर्यवर्चसम् ॥ 036c
ईश्वरोऽङ्गिरसं चाग्नेरपत्यार्थमकल्पयत् । 037a
पितामहस्त्वपत्यं वै कविं जग्राह तत्त्ववित् ॥ 037c
तदा स वारुणिः ख्यातो भृगुः प्रसवकर्मकृत् । 038a
आग्नेयस्त्वङ्गिराः श्रीमान्कविर्ब्राह्मो महायशाः । 038c
भार्गवाङ्गिरसौ लोके लोकसन्तानलक्षणौ ॥ 038e
एते विप्रवराः सर्वे प्रजानां पतयस्त्रयः । 039a
सर्वं सन्तानमेतेषामिदमित्युपधारय ॥ 039c
भृगोस्तु पुत्राः सप्तासन्सर्वे तुल्या भृगोर्गुणैः । 040a
च्यवनो वज्रशीर्षश्च शुचिरौर्वस्तथैव च ॥ 040c
शुक्रो वरेण्यश्च विभुः सवनश्चेति सप्त ते । 041a
भार्गवा वारुणाः सर्वे येषां वंशे भवानपि ॥ 041c
अष्टौ चाङ्गिरसः पुत्रा वारुणास्तेऽप्यवारुणाः । 042a
बृहस्पतिरुचथ्यश्च वयस्यः शान्तिरेव च ॥ 042c
घोरो विरूपः संवर्तः सुधन्वा चाष्टमः स्मृतः । 043a
एतेऽष्टौ वह्निजाः सर्वे ज्ञाननिष्ठा निरामयाः ॥ 043c
ब्राह्मणाश्च कवेः पुत्रा वारुणास्तेऽप्युदाहृताः । 044a
अष्टौ प्रसवजैर्युक्ता गुणैर्ब्रह्मविदः शुभाः ॥ 044c
कविः काव्यश्च विष्णुश्च बुद्धिमानुशना तथा । 045a
भृगुश्च वरुणश्चैव काश्यपोऽग्निश्च धर्मवित् ॥ 045c
अष्टौ कविसुता ह्येते सर्वमेभिर्जगत्ततम् । 046a
प्रजापतय एते हि प्रजानां यैरिमाः प्रजाः ॥ 046c
एवमङ्गिरसश्चैव कवेश्च प्रसवान्वयैः । 047a
भृगोश्च भृगुशार्दूल वंशजैः सततं जगत् ॥ 047c
वरुणश्चादितो विप्र जग्राह प्रभुरीश्वरः । 048a
कविं तात भृगुं चापि तस्मात्तौ वारुणौ स्मृतौ ॥ 048c
जग्राहाङ्गिरसं देवः शिखी तस्माद्धुताशनः । 049a
तस्मादाङ्गिरसा ज्ञेयाः सर्व एव तदन्वयाः ॥ 049c
ब्रह्मा पितामहः पूर्वं देवताभिः प्रसादितः । 050a
इमे नः सन्तरिष्यन्ति प्रजाभिर्जगदीश्वराः ॥ 050c
सर्वे प्रजानां पतयः सर्वे चातितपस्विनः । 051a
त्वत्प्रसादादिमं लोकं धारयिष्यन्ति शाश्वतम् ॥ 051c
तथैव वंशकर्तारस्तव तेजोविवर्धनाः । 052a
भवेयुर्वेदविदुषः सर्वे च कृतिनस्तथा ॥ 052c
देवपक्षचराः सौम्याः प्राजापत्या महर्षयः । 053a
अनन्तं ब्रह्म सत्यं च तपश्च परमं भुवि ॥ 053c
सर्वे हि वयमेते च तवैव प्रसवाः प्रभो । 054a
देवानां ब्राह्मणानां च त्वं हि कर्ता पितामह ॥ 054c
मारीचमादितः कृत्वा सर्वे चैवाथ भार्गवाः । 055a
अपत्यानीति सम्प्रेक्ष्य क्षमयाम पितामह ॥ 055c
अथ स्वेनैव रूपेण प्रजनिष्यन्ति वै प्रजाः । 056a
स्थापयिष्यन्ति चात्मानं युगादिनिधने तथा ॥ 056c
इत्युक्तः स तदा तैस्तु ब्रह्मा लोकपितामहः । 057a
ततेत्येवाब्रवीत्प्रीतस्तेऽपि जग्मुर्यथागतम् ॥ 057c
एवमेतत्पुरावृत्तं तस्य यज्ञे महात्मनः । 058a
देवश्रेष्ठस्य लोकादौ वारुणीं बिभ्रतस्तनुम् ॥ 058c
अग्निर्ब्रह्म पशुपतिः शर्वो रुद्रः प्रजापतिः । 059a
अग्नेरपत्यमेतद्वै सुवर्णमिति धारणाः ॥ 059c
अग्न्यभावे च कुरुते वह्निस्थानेषु काञ्चनम् । 060a
जामदग्न्यप्रमाणज्ञो वेदश्रुतिनिदर्शनात् ॥ 060c
कुशस्तम्बे जुहोत्यग्निं सुवर्णे तत्र च स्थिते । 061a
वल्मीकस्य वपायां च कर्णे वाजस्य दक्षिणे ॥ 061c
शकटोर्व्यां परस्याप्सु ब्राह्मणस्य करे तथा । 062a
हुते प्रीतिकरीमृद्धिं भगवांस्तत्र मन्यते ॥ 062c
तस्मादग्निपराः सर्वे देवता इति शुश्रुम । 063a
ब्रह्मणो हि प्रभूतोऽग्निरग्नेरपि च काञ्चनम् ॥ 063c
तस्माद्ये वै प्रयच्छन्ति सुवर्णं धर्मदर्शिनः । 064a
देवतास्ते प्रयच्छन्ति समस्ता इति नः श्रुतम् ॥ 064c
तस्य वा तपसो लोकान्गच्छतः परमां गतिम् । 065a
स्वर्लोके राजराज्येन सोभिषिच्येत भार्गव ॥ 065c
आदित्योदयने प्राप्ते विधिमन्त्रपुरस्कृतम् । 066a
ददाति काञ्चनं यो वाः दुःस्वप्नं प्रतिहन्ति सः ॥ 066c
ददात्युदितमात्रे यस्यस्य पाप्मा विधूयते । 067a
मध्याह्ने ददतो रुक्मं हन्ति पापमनागतम् ॥ 067c
ददाति पश्चिमां सन्ध्यां यः सुवर्णं यतव्रतः । 068a
ब्रह्मवाय्वग्निसोमानां सालोक्यमुपयाति सः ॥ 068c
सेन्द्रेषु चैव लोकेषु प्रतिष्ठां विन्दते शुभाम् । 069a
इह लोके यशः प्राप्य शान्तपाप्मा च मोदते ॥ 069c
ततः सम्पद्यतेऽन्येषु लोकेष्वप्रतिमः सदा । 070a
अनावृतगतिश्चैव कामचारो भवत्युत ॥ 070c
न च क्षरति तेभ्यश्च यशश्चैवाप्नुते महत् । 071a
सुवर्णमक्षयं दत्त्वा लोकांश्चाप्नोति पुष्कलान् ॥ 071c
यस्तु सञ्जनयित्वाऽग्निमादित्योदयनं प्रति । 072a
दद्याद्वै व्रतमुद्दिश्य सर्वकामान्समश्नुते ॥ 072c
अग्निरित्येव तत्प्राहुः प्रदानं च सुखावहम् । 073a
यथेष्टगुणसंवृत्तं प्रवर्तकमिति स्मृतम् ॥ 073c
एषा सुवर्णस्योत्पत्तिः कथिता ते मयाऽनघ । 074a
कार्तिकेयस्य च विभो तद्विद्धि भृगुनन्दन ॥ 074c
कार्तिकेयस्तु संवृद्धः कालेन महता तदा । 075a
देवैः सेनापतित्वेन वृतः सेन्द्रैर्भृगूद्वह ॥ 075c
जघान तारकं चापि दैत्यमन्यांस्तथाऽसुरान् । 076a
त्रिदशेन्द्राज्ञया ब्रह्मल्ँलोकानां हितकाम्यया ॥ 076c
सुवर्णदाने च मया कथितास्ते गुणा विभो । 077a
तस्मात्सुवर्णं विप्रेभ्यः प्रयच्छ ददतांवर ॥ 077c
भीष्म उवाच 078
इत्युक्तः स वसिष्ठेन जामदग्न्यः प्रतापवान् । 078a
ददौ सुवर्णं विप्रेभ्यो व्यमुच्यत च किल्बिषात् ॥ 078c
एतत्ते सर्वमाख्यातं सुवर्णस्य महीपते । 079a
प्रदानस्य फलं चैव जन्म चास्य युधिष्ठिर ॥ 079c
तस्मात्त्वमपि विप्रेभ्यः प्रयच्छ कनकं बहुः । 080a
ददत्सुवर्णं नृपते किल्बिषाद्विप्रमोक्ष्यसि ॥ 080c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि द्वात्रिंशदधिकशततमोऽध्यायः ॥ 132 ॥

7-132-4 ऋग्वेदोऽथर्ववेदश्चेति क. ङ. ध. पाठः ॥ 7-132-14 प्रादुर्भावश्चरमधातुः ॥ 7-132-16 भूतग्रामं चतुर्विधं तत्तेजसस्तस्य त्रिगुणमयस्य रेतसः सम्बन्धी यस्तेजोंशो रजोंशस्तस्मात्तैजसप्रवृत्तिप्रधानं जङ्गममभूत् ॥ 7-132-17 तमसस्तमोंशात्तामसं स्थावरम् । सत्वांशस्तूभयत्रानुगतः ॥ 7-132-18 प्रसवजैः कारणजैर्गुणैः ॥ 7-132-19 सहयज्वभिरुत्पन्न इति ध. पाठः ॥ 7-132-20 वालखिल्याः शरोच्चयादिति ध. पाठः ॥ 7-132-21 अत्रैव कुशोच्चये । अत्र अत्रैवेति सम्बन्धः । अत्रैवात्रिं च हि विभो इति ध. पाठः ॥ 7-132-22 व्यपोहेभ्यः समूहेभ्यः । तथाग्नेस्तस्य भस्मभ्य इति ध. पाठः ॥ 7-132-23 अश्रुतः अश्रुसकाशात् । स्रोतोभ्यः श्रोत्रादीन्द्रियेभ्यः । बलात् वीर्यात् । बलान्मख इति क. ट. ध. पाठः ॥ 7-132-24 एतस्मादग्निजत्वात् ॥ 7-132-25 निर्यासा दारुगता लाक्षादयो वृक्षरसाः ॥ 7-132-27 दिविस्थिताः ग्रहतारादयः धिष्ण्येषु स्थानेषु ॥ 7-132-30 त्रीणि भृग्वङ्गिरःकविसञ्ज्ञानि ॥ 7-132-44 कवेः पुत्रा वारुणा इत्यनेन स्वीयभागोपि कविर्ब्रह्मणा वरुणाय समर्पित इत्युन्नेयम् ॥ 7-132-50 नोऽस्मान् सन्तरिष्यन्ति सन्तारयिष्यन्ति ॥ 7-132-52 विदुषो विद्वांसः ॥ 7-132-56 आदिनिधने उत्पत्तिप्रलययोरन्तराले ॥ 7-132-58 देवश्रेष्ठस्य रुद्रस्य ॥ 7-132-59 धारणा निश्चयः ॥ 7-132-61 ब्राह्मणपाण्यजकर्णदर्भस्तम्बाप्सु काष्ठेष्वित्येतानि श्रुतौ दृश्यन्ते । वपायां रन्ध्रे ॥ 7-132-62 शकटोर्वीं तु श्रुत्यन्तरात् ज्ञेया । परस्य तीर्थादेरप्सु ॥ 7-132-64 सुवर्णं ये प्रयच्छन्ति नराः शुद्धेन चेतसेति ध. पाठः ॥ 7-132-71 तेभ्यो लोकेभ्यो न च क्षरति ॥