श्रीः अध्यायः 131

तारकासुरबाधितैर्देवैर्ब्रह्माणम् प्रति स्वेषाम् पार्वतीशापेनानपत्यत्वकथनपूर्वकमसुरवधोपायकथनप्रार्थना ॥ 1 ॥ ब्रह्मणा देवान्प्रति अग्नेरसन्निहितत्वेन देवीशापाविषयतया देवेन स्ववीर्यनिरोधकाले भुवि प्रस्कन्नकिञ्चिद्वीर्यांशस्य तस्मिन्संसृष्टतया च तेन गङ्गायां कुमारोत्पादनकथनेनाग्न्यन्वेषणचोदना ॥ 2 ॥ अग्निना देवानाम् प्रार्थनया गङ्गायां स्वयंसृष्टरुद्रवीर्याधानम् ॥ 3 ॥ गङ्गयाऽग्निना स्वस्मिन्नाहितगर्भस्य मेरुगिरौ समुत्सर्जने तदीयतेजोव्याप्तयावद्वस्तूनां काञ्चनीभावप्राप्तिः ॥ 4 ॥ एवम् भीष्मेण सुवर्णोत्पत्तिप्रकारकथनम् ॥ 5 ॥

देवा ऊचुः 001
असुरस्तारको नाम त्वया दत्तवरः प्रभो । 001a
सुरानृषींश्च क्लिश्नाति वधस्तस्य विधीयताम् ॥ 001c
तस्माद्भयं समुत्पन्नमस्माकं वै पितामह । 002a
परित्रायस्व नो देव न ह्यन्या गतिरस्ति नः ॥ 002c
ब्रह्मोवाच 003
समोहं सर्वभूतानामधर्मं नेह रोचये । 003a
हन्यतां तारकः क्षिप्रं सुरर्षिगणबाधिता ॥ 003c
वेदा धर्माश्च नोच्छेदं गच्छेयुः सुरसत्तमाः । 004a
विहितं पूर्वमेवात्र मया वै व्येतु वो ज्वरः ॥ 004c
देवा ऊचुः 005
वरदानाद्भगवतो दैतेयो बलगर्वितः । 005a
देवैर्न शक्यते हन्तुं स कथं प्रशमं व्रजेत् ॥ 005c
स हि नैव स्म देवानां नासुराणां न रक्षसाम् । 006a
वध्यः स्यामिति जग्राह वरं त्वत्तः पितामह ॥ 006c
देवाश्च शप्ता रुद्राण्या प्रजोच्छेदे पुरा कृते । 007a
न भविष्यति वोऽपत्यमिति सर्वे जगत्पते ॥ 007c
ब्रह्मोवाच 008
हुताशनो न तत्रासीच्छापकाले सुरोत्तमाः । 008a
स उत्पादयिताऽपत्यं वधाय त्रिदशद्विषाम् ॥ 008c
तद्वै सर्वानतिक्रम्य देवदानवराक्षसान् । 009a
मानुषानथ गन्धर्वान्नागानथ च पक्षिणः ॥ 009c
अस्त्रेणामोघपातेन शक्त्या तं घातयिष्यति । 010a
यतो वो भयपुत्पन्नं ये चान्ये सुरशत्रवः ॥ 010c
सनातनो हि सङ्कल्पः काम इत्यभिधीयते । 011a
रुद्रस्य तेजः प्रस्कन्नमग्नौ निपतितं च यत् ॥ 011c
तत्तजोऽग्निर्महद्भूतं द्वितीयमिव पावकम् । 012a
वधार्थं देवशत्रूणां गङ्गायां जनयिष्यति ॥ 012c
स तु नावाप तं शापं नष्टः स हुतभुक्तदा । 013a
तस्माद्वो भयहृद्देवाः समुत्पत्स्यति पावकिः ॥ 013c
अन्विष्यतां वै ज्वलनस्तथा चाद्य नियुज्यताम् । 014a
तारकस्य वधोपायः कथितो वै मयाऽनघाः ॥ 014c
न हि तेजस्विनां शापास्तेजःसु प्रभवन्ति वै । 015a
बलान्यतिबलं प्राप्य दुर्बलानि भवन्ति वै ॥ 015c
हन्यादवध्यान्वरदानपि चैव तपस्विनः । 016a
सङ्कल्पाभिरुचिः कामः सनातनतमोऽभवत् ॥ 016c
जगत्पतिरनिर्देश्य सर्वगः सर्वभावनः । 017a
हृच्छयः सर्वभूतानां ज्येष्ठो रुद्रादपि प्रभुः ॥ 017c
अन्विष्यतां स तु क्षिप्रं तेजोराशिर्हुताशनः । 018a
स वो मनोगतं कामं देवः सम्पादयिष्यति ॥ 018c
एतद्वाक्यमुपश्रुत्य ततो देवा महात्मनः । 019a
जग्मुः संसिद्धसङ्कल्पाः पर्येषन्तो विभावसुम् ॥ 019c
ततस्त्रैलोक्यमृषयो व्यचिन्वन्त सुरैः सह । 020a
काङ्क्षन्तो दर्शनं वह्नेः सर्वे तद्गतमानसाः ॥ 020c
परेण तपसा युक्ताः श्रीमन्तो लोकविश्रुताः । 021a
लोकानन्वचरन्सिद्धाः सर्व एव भृगूत्तम । 021c
नष्टमात्मनि संलीनं नाभिजग्मुर्हुताशनम् ॥ 021e
ततः सञ्जातसन्त्रासानग्निदर्शनलालसान् । 022a
जलेचरः क्लान्तमनास्तेजसाऽग्नेः प्रदीपितः || 022c
उवाच देवान्मण्डूको रसातलतलोत्थितः । 023a
रसातलतले देवा वसत्यग्निरिति प्रभो । 023c
सन्तापादिह सम्प्राप्तः पावकप्रभवादहम् ॥ 023e
स संसुप्तो जले देवा भगवान्हव्यवाहनः । 024a
अपः संसृज्य तेजोभिस्तेन सन्तापिता वयम् ॥ 024c
तस्य दर्शनमिष्टं वो यदि देवा विभावसोः । 025a
तत्रैवमधिगच्छध्वं कार्यं वो यदि वह्निना ॥ 025c
गम्यतां साधयिष्यामो वयं ह्यग्निभयात्सुराः । 026a
एतावदुक्त्वा मण्डूकस्त्वरितो जलमाविशत् ॥ 026c
हुताशनस्तु बुबुधे मण्डूकस्य च पैशुनम् । 027a
शशाप स तमासाद्य न रसान्वेत्स्यसीति वै ॥ 027c
तं वै संयुज्य शापेन मण्डूकं त्वरितो ययौ । 028a
अन्यत्र वासाय विभुर्न चात्मानमदर्शयत् ॥ 028c
देवास्त्वनुग्रहं चक्रुर्मण्डूकानां भृगूत्तम । 029a
यत्तच्छृणु महाबाहो गदतो मम सर्वशः ॥ 029c
देवा ऊचुः 030
अग्निशापादजिह्वाऽपि रसज्ञानबहिष्कृताः । 030a
सरस्वतीं बहुविधां यूममुच्चारयिष्यथ ॥ 030c
बिलवासं गतांश्चैव निराहारानचेतसः । 031a
गतासूनपि वः शुष्कान्भूमिः सन्धारयिष्यति ॥ 031c
तमोघनायामपि वै निशायां विचरिष्यथ । 032a
इत्युक्त्वा तांस्ततो देवाः पुनरेव महीमिमाम् ॥ 032c
परीयुर्ज्वलनस्यार्थे न चाविन्दन्हुताशनम् । 033a
अथ तान्द्विरदः कश्चित्सुरेन्द्रद्विरदोपमः ॥ 033c
अश्वत्थस्थोऽग्निरित्येवमाह देवान्भृगूद्वह । 034a
शशाप ज्वलनः सर्वान्द्विरदान्क्रोधमूर्च्छितः ॥ 034c
प्रतीपा भवतां जिह्वा भवित्रीति भृगूद्वह । 035a
इत्युक्त्वा निःसृतोऽश्वत्थादग्निर्वारणसूचितः । 035c
प्रविवेश शमीगर्भमथ वह्निः सुषुप्सया ॥ 035e
अनुग्रहं तु नागानां यं चक्रुः शृणु तं प्रभो । 036a
देवा भृगुकुलश्रेष्ठ प्रीत्या सत्यपराक्रमाः ॥ 036c
देवा ऊचुः 037
प्रतीपया जिह्वयाऽपि सर्वाहारान्हरिष्यथ । 037a
वाचं चोच्चारयिष्यध्वमुच्चैरव्यञ्जिताक्षराम् । 037c
इत्युक्त्वा पुनरेवाग्निमनुसस्रुर्दिवौकसः ॥ 037e
अश्वत्थान्निःसृतश्चाग्निः शमीगर्भमुपाविशत् । 038a
शुकेन ख्यापितो विप्र तं देवाः समुपाद्रवन् ॥ 038c
शशाप सुकमग्निस्तु वाग्विहीनो भविष्यसि । 039a
जिह्वामावर्तयामास तस्यापि हुतभुक्तदा ॥ 039c
दृष्ट्वा तु ज्वलनं देवाः शुकमूचुर्दयान्विताः । 040a
भविता न त्वमत्यन्तं शुकत्वे नष्टवागिति ॥ 040c
आवृत्तजिह्वस्य सतो वाक्यं कान्तं भविष्यति । 041a
बालस्येव प्रवृद्धस्य कलमव्यक्तमद्भुतम् ॥ 041c
इत्युक्त्वा तं शमीगर्भे वह्निमालक्ष्य देवताः । 042a
तदेवायतनं चक्रुः पुण्यं सर्वक्रियास्वपि ॥ 042c
तदाप्रभृति चाप्यग्निः शमीगर्भेषु दृश्यते । 043a
उत्पादने तथोपायमभिजग्मुश्च मानवाः ॥ 043c
आपो रसातले यास्तु संस्पृष्टाश्चित्रभानुना । 044a
ताः पर्वतप्रस्रवणैरूष्मां मुञ्चन्ति भार्गव । 044c
पावकेनाधिशयता सन्तप्तास्तस्य तेजसा ॥ 044e
अथाग्निर्देवता दृष्ट्वा बभूव व्यथितस्तदा । 045a
किमागमनमित्येवं तानपृच्छत पावकः ॥ 045c
तमूचुर्विबुधाः सर्वे ते चैव परमर्षयः । 046a
त्वां नियोक्ष्यामहे कार्ये तद्भवान्कर्तुमर्हति । 046c
कृते च तस्मिन्भविता तवापि सुमहान्गुणः ॥ 046e
अग्निरुवाच 047
ब्रूत यद्भवतां कार्यं कर्तास्मि तदहं सुराः । 047a
भवतां तु नियोज्योस्मि मावोत्रास्तु विचारणा ॥ 047c
देवा ऊचुः 048
असुरस्तारको नाम ब्रह्मणो वरदर्पितः । 048a
अस्मान्प्रबाधते वीर्याद्वधस्तस्य विधीयताम् ॥ 048c
इमान्देवगणांस्तात प्रजापतिगणांस्तथा । 049a
ऋषींश्चापि महाभाग परित्रायस्व पावक ॥ 049c
अपत्यं तेजसा युक्तं प्रवीरं जनय प्रभो । 050a
यद्भयं नोऽसुरात्तस्मान्नाशयेद्धव्यवाहन ॥ 050c
शप्तानां नो महादेव्या नान्यदस्ति परायणम् । 051a
अन्यत्र भवतो वीर तस्मात्त्रायस्व नः प्रभो ॥ 051c
इत्युक्तः स तथेत्युक्त्वा भगवान्हव्यवाहनः । 052a
जगामाथ दुराधर्षो गङ्गां भागीरथीं प्रति ॥ 052c
तया चाप्यभवन्मिश्रो गर्भं चास्यां दधे तदा । 053a
ववृधे स तदा गर्भः कक्षे कृष्णगतिर्यथा ॥ 053c
तेजसा तस्य देवस्य गङ्गा विह्वलचेतना । 054a
सन्तापमगमत्तीव्रं वोढुं सा न शशाक ह ॥ 054c
आहिते ज्वलनेनाथ गर्भे तेजःसमन्विते । 055a
गङ्गायामसुरः कश्चिद्भैरवं नादमानदत् ॥ 055c
अबुद्धिपतितेनाथ नादेन विपुलेन सा ॥ 056a
वित्रस्तोद्धान्तनयना गङ्गा विप्लुतलोचना ॥ 056c
विसञ्ज्ञा नाशकद्गर्भं वोढुमात्मानमेव च । 057a
सा तु तेजःपरीताङ्गी कम्पमाना च जाह्नवी ॥ 057c
उवाच ज्वलनं विप्र तदा गर्भबलोद्धुता । 058a
न ते शक्ताऽस्मि भगवंस्तेजसोऽस्य विधारणे ॥ 058c
विमूढाऽस्मि कृताऽनेन न मे स्वास्थ्यं यथा पुरा । 059a
विह्वला चास्मि भगवंश्चेतो नष्टं च मेऽनघ || 059c
धारणे नास्य शक्ताऽहं गर्भस्य तपतांवर । 060a
उत्स्रक्ष्येऽहमिमं दुःखान्न तु कामात्कथञ्चन ॥ 060c
न तेजसाऽस्ति संस्पर्शो मम देव विभावसो । 061a
आपदर्थे हि सम्बन्धः सुसूक्ष्मोऽपि महाद्युते ॥ 061c
यदत्र गुणसम्पन्नमितरद्वा हुताशन । 062a
त्वय्येव तदहं मन्ये धर्माधर्मौ च केवलौ ॥ 062c
तामुवाच ततो वह्निर्धार्यतां धार्यतामिति । 063a
गर्भो मत्तेजसा युक्तो महागुणफलोदयः ॥ 063c
शक्ता ह्यसि महीं कृत्स्नां वोढुं धारयितुं तथा । 064a
न हि ते किञ्चिदप्राप्यमन्यतो धारणादृते ॥ 064c
'एवमुक्ता तु सा देवी तत्रैवान्तरधीयत । 065a
पावकश्चापि तेजस्वी कृत्वा कार्यं दिवौकसाम् । 065c
जगामेष्टं तदा देशं ततो भार्गवनन्दन ॥' 065e
सा वह्निना वार्यमाणा देवैरपि सरिद्वरा । 066a
समुत्ससर्ज तं गर्भं मेरौ गिरिवरे तदा ॥ 066c
समर्था धारणे चापि रुद्रतेजःप्रधर्षिता । 067a
नाशकत्सा तदा गर्भं सन्धारयितुमोजसा । 067c
समुत्ससर्ज तं दुःखाद्दीप्तवैश्वानरप्रभम् ॥ 067e
दर्शयामास चाग्निस्तां तदा गङ्गां भृगूद्वह । 068a
पप्रच्छ सरितां श्रेष्ठां कच्चिद्गर्भः सुखोदयः ॥ 068c
कीदृग्गुणोपि वा देवि कीदृग्रूपश्च दृश्यते । 069a
तेजसा केन वा युक्तः सर्वमेतद्ब्रवीहि मे ॥ 069c
गङ्गोवाच 070
जातरूपः स गर्भो वै तेजसा त्वमिवानघ । 070a
सुवर्णो विमलो दीप्तः पर्वतं चावभासयन् ॥ 070c
पद्मोत्पलविमिश्राणां ह्रदानामिव शीतलः । 071a
गन्धोस्य स कदम्बानां तुल्यो वै तपतांवर ॥ 071c
तेजसा तस्य गर्भस्य भास्करस्येव रश्मिभिः । 072a
यद्द्रव्यं परिसंसृष्टं पृथिव्यां पर्वतेषु च । 072c
तत्सर्वं काञ्चनीभूतं समन्तात्प्रत्यदृश्यत ॥ 072e
पर्यधावत शैलांश्च नदीः प्रस्रवणानि च । 073a
व्यादीपयत्तेजसा च त्रैलोक्यं सचराचरम् ॥ 073c
एवंरूपः स भगवान्पुत्रस्ते हव्यवाहन । 074a
सूर्यवैश्वानरसमः कान्त्या सोम इवापरः ॥ 074c
वसिष्ठ उवाच 075
एवमुक्त्वा तु सा देवी तत्रैवान्तरधीयत । 075a
पावकश्चापि तेजस्वी कृत्वा कार्यं दिवौकसाम् । 075c
जगामेष्टं ततो देशं तदा भार्गवनन्दन ॥ 075e
एतैः कर्मगुणैर्लोके नामाग्नेः परिगीयते । 076a
हिरण्यरेता इति वै ऋषिभिर्विबुधैस्तथा । 076c
पृथिवी च तदा देवी ख्याता वसुमतीति वै ॥ 076e
स तु गर्भो महातेजा गाङ्गेयः पावकोद्भवः । 077a
दिव्यं शरवणं प्राप्य ववृधेऽद्भुतदर्शनः ॥ 077c
ददृशुः कृत्तिकास्तं तु बालार्कसदृशद्युतिम् । 078a
जातस्नेहास्तु तं बालं पुपुषुः स्तन्यविस्रवैः ॥ 078c
ततः स कार्तिकेयत्वमवाप परमद्युतिः । 079a
स्कन्नत्वात्स्कन्दतां चापि गुहावासाद्गुहोऽभवत् ॥ 079c
एवं सुवर्णमुत्पन्नमपत्यं जातवेदसः । 080a
तत्र जाम्बूनदं श्रेष्ठं देवानामपि भूषणम् ॥ 080c
ततःप्रभृति चाप्येतञ्जातरूपमुदाहृतम् । 081a
रत्नानामुत्तमं रत्नं भूषणानां तथैव च ॥ 081c
पवित्रं च पवित्राणां मङ्गलानां च मङ्गलम् । 082a
यत्सुवर्णं स भगवानग्निरीशः प्रजापतिः ॥ 082c
पवित्राणां पवित्रं हि कनकं द्विजसत्तमाः । 083a
अग्नीषोमात्मकं चैव जातरूपमुदाहृतम् ॥ 083c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकत्रिंशदधिकशततमोऽध्यायः ॥ 131 ॥

7-131-13 नष्टः अदर्शनं गतः ॥ 7-131-16 कामः काम्यमानो वह्निः ॥ 7-131-21 नष्टम् अदर्शनं गतम् । आत्मनि जले जलस्य तेजोजन्यत्वात् ॥ 7-131-26 मृग्यतां साधयिष्याम इति थ. ध. पाठः ॥ 7-131-27 न रसानिति । रसनेन्द्रियहीनो भविष्यसीत्यर्थः ॥ 7-131-28 नच देवानदर्शयदिति थ. ध. पाठः ॥ 7-131-30 अजिह्वा अपीति च्छेदः ॥ 7-131-39 जिह्वां च कर्तयामासेति ड. पाठः ॥ 7-131-41 बालस्येव प्रवृत्तस्येति ड. थ. ध. पाठः ॥ 7-131-44 ऊष्माम् ऊष्माणम् । अधिशयता अधिशयानेन । पावकेनाधिशयिता इति ट. ध. पाठः ॥ 7-131-53 दधे आदधे । गर्भश्चास्याभवत्तदेति थ. पाठः ॥ 7-131-54 सोढुं सा न शशाक हेति थ. पाठः ॥ 7-131-56 अबुद्धिपतितेन अकस्माज्जातेन ॥ 7-131-61 न चेतसास्ति संस्पर्श इति थ.पाठः ॥ 7-131-71 कदम्बानां कदम्बपुष्पाणाम् ॥ 7-131-83 अग्निष्टोमात्मकं चैवेति थ. ध. पाठः ॥