श्रीः अध्यायः 130
युधिष्ठिरेण सुवणोत्पत्तिप्रकारम् पृष्टेन भीष्मेण तत्प्रतिपादकवसिष्ठपरसुरामसंवादानुवादारम्भः ॥ 1 ॥ भवस्य भवान्या सह रतियोगे तद्वीर्यभीरुभिर्देवैः प्रार्थितेन देवेन वीर्यस्योर्ध्वनिरोधनेन प्रजोच्छेदकुपितया देव्या देवानामनपत्यत्वशापदानम् || 2 ||
युधिष्ठिर उवाच 001
उक्तं पितामहेनेदं गवां दानमनुत्तमम् । 001a
विशेषेण नरेन्द्राणामिह धर्ममवेक्षताम् ॥ 001c
राज्यं हि सततं दुःखमाश्रमाश्च सुदुर्विदाः । 002a
परिचारेषु वै दुःखं दुर्धरं चाकृतात्मभिः । 002c
भूयिष्ठं च नरेन्द्राणां विद्यते न शुभा गतिः ॥ 002e
पूयन्ते तत्र नियतं प्रयच्छन्तो वसुन्धराम् । 003a
सर्वे च कथिता धर्मास्त्वया मे कुरुनन्दन ॥ 003c
एवमेव गवामुक्तं प्रदानं ते नृगेण ह । 004a
ऋषिणा नाचिकेतेन पूर्वमेव निदर्शितम् ॥ 004c
वेदोपनिषदे चैव सर्वकर्मसु दक्षिणाः । 005a
सर्वक्रतुषु चोद्दिष्टा भूमिर्गावोऽथ काञ्चनम् ॥ 005c
तत्र श्रुतिस्तु परमा सुवर्णं दक्षिणेति वै । 006a
एतदिच्छाम्यहं श्रोतुं पितामह यथातथम् ॥ 006c
किं सुवर्णं कथं जातं कस्मिन्काले किमात्मकम् । 007a
किन्दैव किम्फलं चैव कस्माच्च परमुच्यते ॥ 007c
कस्माद्दानं सुवर्णस्य पूजयन्ति मनीषिणः । 008a
कस्माच्च दक्षिणार्थं तद्यज्ञकर्मसु शस्यते ॥ 008c
कस्माच्च पावनं श्रेष्ठं भूमेर्गोभ्यश्च काञ्चनम् । 009a
परमं दक्षिणार्थे च तद्ब्रवीहि पितामह ॥ 009c
भीष्म उवाच 010
शृणु राजन्नवहितो बहुकारणविस्तरम् । 010a
जातरूपसमुत्पत्तिमनुभूतं च यन्मया ॥ 010c
पिता मम महातेजाः श्तनुर्निधनं गतः । 011a
तस्य दित्सुरहं श्राद्धं गङ्गाद्वारमुपागमम् ॥ 011c
तत्रागम्य पितुः पुत्र श्राद्धकर्म समारभम् । 012a
मातो मे जाह्नवी चात्र साहाय्यमकरोत्तदा ॥ 012c
तत्रागतांस्तपस्सिद्धानुपवेश्य बहूनृषीन् । 013a
तोयप्रदानात्प्रभृति कार्याण्यहमथारभम् ॥ 013c
तत्समाप्य यथोद्दिष्टं पूर्वकर्म समाहितः । 014a
दातुं निर्वपणं सम्यग्यथावदहमारभम् ॥ 014c
ततस्तं दर्भविन्यासं भित्त्वा सुरुचिराङ्गदः । 015a
प्रलम्बाभरणो बाहुरुदतिष्ठद्विशाम्पते ॥ 015c
मुहूर्तमपि तं दृष्ट्वा परं विस्मयमागमम् । 016a
प्रतिग्रहीता साक्षान्मे पितेति भरतर्षभ ॥ 016c
ततो मे पुनरेवासीत्सञ्ज्ञा सञ्चिन्त्य शास्त्रतः । 017a
नायं वेदेषु विहितो विधिर्हस्त इति प्रभो । 017c
पिण्डो देयो नरेणेह ततो मतिरभून्मम ॥ 017e
साक्षान्नेह मनुष्यस्य पिण्डं हि पितरः क्वचित् । 018a
गृह्णन्ति विहितं चेत्थं पिण्डो देयः कुशेष्विति ॥ 018c
ततोऽहं तदनादृत्य पितुर्हस्तनिदर्शनम् । 019a
शास्त्रप्रामाण्यसूक्ष्मं तु विधिं पिण्डस्य संस्मरन् ॥ 019c
ततो दर्भेषु तत्सर्वमददं भरतर्षभ । 020a
शास्त्रमार्गानुसारेण तद्विद्धि मनुजर्षभ ॥ 020c
ततः सोऽन्तर्हितो बाहुः पितुर्मम जनाधिप । 021a
ततो मां दर्शयामासुः स्वप्नान्ते पितरस्तथा ॥ 021c
प्रीयमाणास्तु मामूचुः प्रीताः स्म भरतर्षभ । 022a
विज्ञानेन तवानेन यन्न मुह्यसि धर्मतः ॥ 022c
त्वया हि कुर्वता शास्त्रं प्रमाणमिह पार्थिव । 023a
आत्मा धर्मः श्रुतं वेदाः पितरश्चर्षिभिः सह ॥ 023c
साक्षात्पितामहो ब्रह्मा गुरवोऽथ प्रजापतिः । 024a
प्रमाणमुपनीता वै स्थिताश्च न विचालिताः ॥ 024c
तदिदं सम्यगारब्धं त्वयाऽद्य भरतर्षभ । 025a
किन्तु भूमेर्गवां चार्थे सुवर्णं दीयतामिति ॥ 025c
एवं वयं च धर्मश्च सर्वे चास्मत्पितामहाः । 026a
पाविता वै भविष्यन्ति पावनं हि परं हि तत् ॥ 026c
दश पूर्वान्दशैवान्यांस्तथा सन्तारयन्ति ते । 027a
सुवर्णं ये प्रयच्छन्ति एवं मत्पितरोऽब्रुवन् ॥ 027c
ततोऽहं विस्मितो राजन्प्रतिबुद्धो विशाम्पते । 028a
सुवर्णदानेऽकरवं मतिं च भरतर्षभ ॥ 028c
इतिहासमिमं चापि शृणु राजन्पुरातनम् । 029a
जामदग्न्यं प्रति विभो धन्यमायुष्यमेव च ॥ 029c
जामदग्न्येन रामेण तीव्ररोषान्वितेन वै । 030a
त्रिःसप्तकृत्वः पृथिवी कृता निःक्षत्रिया पुरा ॥ 030c
ततो जित्वा महीं कृत्स्नां रामो राजीवलोचनः । 031a
आजहार क्रतुं वीरो ब्रह्मक्षत्रेण पूजितम् ॥ 031c
वाजिमेधं महाराज सर्वकामसमन्वितम् । 032a
पावनं सर्वभूतानां तेजोद्युतिविवर्धनम् ॥ 032c
विपाप्मा च स तेजस्वी तेन क्रतुफलेन च । 033a
नैवात्मनोऽथ लघुतां जामदग्न्योऽध्यगच्छत ॥ 033c
स तु क्रतुवरेणेष्ट्वा महात्मा दक्षिणावता । 034a
पप्रच्छागमसम्पन्नानृषीन्देवांश्च भारत ॥ 034c
पावनं यत्परं नॄणामुग्रे कर्मणि वर्तताम् । 035a
तदुच्यतां महाभागा इति जातघृणोऽब्रवीत् ॥ 035c
इत्युक्ता वेदशास्त्रज्ञास्तमूचुस्ते महर्षयः । 036a
राम विप्राः सत्क्रियन्तां वेदप्रामाण्यदर्शनात् ॥ 036c
भूयश्च विप्रर्षिगणाः प्रष्टव्याः पावनं प्रति । 037a
ते यद्ब्रूयुर्महाप्राज्ञास्तच्चैव समुदाचर ॥ 037c
ततो वसिष्ठं देवर्षिमगस्त्यमथ काश्यपम् । 038a
तमेवार्थं महातेजाः पप्रच्छ भृगुनन्दनः ॥ 038c
जाता मतिर्मे विप्रेन्द्राः कथं पूयेयमित्युत । 039a
केन वा कर्मयोगेन प्रदानेनेह केन वा ॥ 039c
यदि वोऽनुग्रहकृता बुद्धिर्मां प्रति सत्तमाः । 040a
प्रबूत पावनं किं मे भवेदिति तपोधनाः ॥ 040c
ऋषय ऊचुः 041
गाश्च भूमिं च वित्तं च दत्त्वेह भृगुनन्दन । 041a
पापकृत्पूयते मर्त्य इति भार्गव शुश्रुम ॥ 041c
अन्यद्दानं तु विप्रर्षे श्रूयतां पावनं महत् । 042a
दिव्यमत्यद्भुताकारमपत्यं जातवेदसः ॥ 042c
दग्ध्वा लोकान्पुरा वीर्यात्सम्भूतमिह शुश्रुम । 043a
सुवर्णमिति विख्यातं तद्ददत्सिद्धिमेष्यसि ॥ 043c
ततोऽब्रवीद्वसिष्ठस्तं भगवान्संशितव्रतः । 044a
शृणु राम यथोत्पन्नं सुवर्णमनलप्रभम् ॥ 044c
फलं दास्यति ते यत्तु दाने परमिहोच्यते । 045a
सुवर्णं यच्च यस्माच्च यथा च गुणवत्तमम् ॥ 045c
तन्निबोध महाबाहो सर्वं निगदतो मम । 046a
अग्निषोमात्मकमिदं सुवर्णं विद्धि निश्चये ॥ 046c
अजोऽग्निर्वरुणो मेषः सूर्योऽश्व इति दर्शनम् । 047a
कुञ्जराश्च मृगा नागा महिषाश्चासुरा इति ॥ 047c
कुक्कुटाश्च वराहाश्च राक्षसा भृगुनन्दन । 048a
इडा गावः पयः सोमो भूमिरित्येव च स्मृतिः ॥ 048c
जगत्सर्वं च निर्मथ्य तेजोराशिः समुत्थितः । 049a
सुवर्णमेभ्यो विप्रर्षे रत्नं परममुत्तमम् ॥ 049c
एतस्मात्कारणाद्देवा गन्धर्वोरगराक्षसाः । 050a
मनुष्याश्च पिशाचाश्च प्रयता धारयन्ति तत् ॥ 050c
मुकुटैरङ्गदयुतैरलङ्कारैः पृथग्विधैः । 051a
सुवर्णविकृतैस्तत्र विराजन्ते भृगूत्तम ॥ 051c
तस्मात्सर्वपवित्रेभ्यः पवित्रं परमं स्मृतम् । 052a
भूमेर्गोभ्योऽथ रत्नेभ्यस्तद्विद्धि मनुजर्षभ ॥ 052c
पृथिवीं गाश्च दत्त्वेह यच्चान्यदपि किञ्चन । 053a
विशिष्यते सुवर्णस्य दानं परमकं विभो ॥ 053c
अक्षयं पावनं चैव सुवर्णममरद्युते । 054a
प्रयच्छ द्विजमुख्येभ्यः पावनं ह्येतदुत्तमम् ॥ 054c
सुवर्णमेव सर्वासु दक्षिणासु विधीयते । 055a
सुवर्णं ये प्रयच्छन्ति सर्वदास्ते भवन्त्युत ॥ 055c
देवतास्ते प्रयच्छन्ति ये सुवर्णं ददत्यथ । 056a
अग्निर्हि देवताः सर्वाः सुवर्णं च तदात्मकम् ॥ 056c
तस्मात्सुवर्णं ददता दत्ताः सर्वाः स्म देवताः । 057a
भवन्ति पुरुषव्याघ्र न ह्यतः परमं विदुः ॥ 057c
भूय एव च महात्म्यं सुवर्णस्य निबोध मे । 058a
गदतो मम विप्रर्षे सर्वशस्त्रभृतांवर ॥ 058c
मया श्रुतमिदं पूर्वं पुराणे भृगुनन्दन । 059a
प्रजापतेः कथयतो मनोः स्वायम्भुवस्य वै ॥ 059c
शूलपाणेर्भगवतो रुद्रस्य च महात्मनः । 060a
गिरौ हिमवति श्रेष्ठे तदा भृगुकुलोद्वह ॥ 060c
देव्या विवाहे निर्वृत्ते रुद्राण्या भृगुनन्दन । 061a
समागमे भगवतो देव्या सह महात्मनः ॥ 061c
ततः सर्वे समुद्विग्ना देवा रुद्रमुपागमन् ॥ 062a
ते महादेवमासीनं देवीं च वरदामुमाम् । 063c
प्रसाद्य शिरसा सर्वे रुद्रमूचुर्भृगूद्वह ॥ 063a
अयं समागमो देव देव्या सह तवानघ । 064c
तपस्विनस्तपस्विन्या तेजस्विन्याऽतितेजसः ॥ 064a
अमोघतेजास्त्वं देव देवी चेयमुमा तथा । 065c
अपत्यं युवयोर्देव बलवद्भविता विभो । 065a
तन्नूनं त्रिषु लोकेषु न किञ्चिच्छेषयिष्यति ॥ 065c
तदेभ्यः प्रणतेभ्यस्त्वं देवेभ्यः पृथुलोचन । 066a
वरं प्रयच्छ लोकेश त्रैलोक्यहितकाम्यया ॥ 066c
अपत्यार्थं निगृह्णीष्व तेजः परमकं विभो । 067a
[त्रैलोक्यसारौ हि युवां लोकं सन्तापयिष्यथ ॥ 067c
तदपत्यं हि युवयोर्देवानभिभवेद्ध्रुवम् । 068a
न हि ते पृथिवी देवी न च द्यौर्न दिवं विभो ॥ 068c
नेदं धारयितुं शक्ताः समस्ता इति मे मतिः । 069a
तेजःप्रभावनिर्दग्धं तस्मात्सर्वमिदं जगत् ॥ 069c
तस्मात्प्रसादं भगवन्कर्तुमर्हसि नः प्रभो । 070a
न देव्यां सम्भवेत्पुत्रो भवतः सुरसत्तम । 070c
धैर्यादेव निगृह्णीष्व तेजो ज्वलितमुत्तमम् ॥ 070e
इति तेषां कथयतां भगवान्वृषभध्वजः] । 071a
एवमस्त्विति देवांस्तान्विप्रर्षे प्रत्यभाषत ॥ 071c
इत्युक्त्वा चोर्ध्वमनयद्रेतो वृषभवाहनः । 072a
ऊर्ध्वरेताः समभवत्ततः प्रभृति चापि सः ॥ 072c
रुद्राणीति ततः क्रुद्धा प्रजोच्छेदे तदा कृते । 073a
देवानथाब्रवीत्तत्र स्त्रीभावात्परुषं वचः ॥ 073c
यस्मादपत्यकामो वै भर्ता मे विनिवर्तितः । 074a
तस्मात्सर्वे सुरा यूयमनपत्या भविष्यथ ॥ 074c
प्रजोच्छेदो मम कृतो यस्माद्युष्माभिरद्य वै । 075a
तस्मात्प्रजा वः खगमाः सर्वेषां न भविष्यति ॥ 075c
पावकस्तु न तत्रासीच्छापकाले भृगूद्वह । 076a
देवा देव्यास्तथा शापादनपत्यास्ततोऽभवन् ॥ 076c
रुद्रस्तु तेजोऽप्रतिमं धारयामास वै तदा । 077a
प्रस्कन्नं तु ततस्तस्मात्किञ्चित्तत्रापतद्भुवि ॥ 077c
उत्पपात तदा वह्नौ ववृधे चाद्भुतोपमम् । 078a
तेजस्तेजसि संयुक्तमेकयोनित्वमागतम् ॥ 078c
एतस्मिन्नेव काले तु देवाः शक्रपुरोगमाः । 079a
असुरस्तारको नाम तेन सन्तापिता भृशम् ॥ 079c
आदित्या वसवो रुद्रा मरुतोऽथाश्विनावपि । 080a
साध्याश्च सर्वे सन्त्रस्ता दैतेयस्य पराक्रमात् ॥ 080c
स्थानानि देवतानां हि विमानानि पुराणि च । 081a
ऋषीणां चाश्रमाश्चैव बभूवुरसुरैर्हृताः ॥ 081c
ते दीनमनसः सर्वे देवता ऋषयश्च ये । 082a
प्रजग्मुः शरणं देवं ब्रह्माणमजरं विभुम् ॥ 082c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि त्रिंशदधिकशततमोऽध्यायः ॥ 130 ॥
7-130-3 पूयन्ते शुध्यन्ति ॥ 7-130-21 तृप्तास्ते पितरस्तथेति थ. ध. पाठः ॥ 7-130-27 नवपूर्वानधश्चान्यान्नव सन्तारयन्ति ते इति थ. ध. पाठः ॥ 7-130-33 लघुतां निष्पापताम् ॥