श्रीः अध्यायः 129
भीष्मेण युधिष्ठिरम् प्रति गोलोकस्य देवलोकस्य देवलोकादप्युपरितनत्वे निमित्तप्रतिपादकब्रह्मशक्रसंवादानुवादः ॥ 1 ॥
भीष्म उवाच 001
ये च गाः सम्प्रयच्छन्ति हुतशिष्टाशिनश्च ये । 001a
तेषां सत्राणि यज्ञाश्च नित्यमेव युधिष्ठिर ॥ 001c
ऋते दधिघृतेनेह न यज्ञः सम्प्रवर्तते । 002a
तेन यज्ञस्य यज्ञत्वमतो मूलं च लक्ष्यते ॥ 002c
दानानामपि सर्वेषां गवां दानं प्रशस्यते । 003a
गावः श्रेष्ठाः पवित्राश्च पावनं ह्येतदुत्तमम् ॥ 003c
पुष्ट्यर्थमेताः सेवेत शान्त्यर्थमपि चैव ह । 004a
पयो दधि घृतं चासां सर्वपापप्रमोचनम् ॥ 004c
गावस्तेजः परं प्रोक्तमिह लोके परत्र च । 005a
न गोभ्यः परमं किञ्चित्पवित्रं भरतर्षभ ॥ 005c
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 006a
पितामहस्य संवादमिन्द्रस्य च युधिष्ठिर ॥ 006c
पराभूतेषु दैत्येषु शक्रस्त्रिभुवनेश्वरः । 007a
प्रजाः समुदिताः सर्वाः सत्यधर्मपरायणाः ॥ 007c
अथर्षयः सगन्धर्वाः किन्नरोरगराक्षसाः । 008a
देवासुरसुपर्णाश्च प्रजानां पतयस्तथा । 008c
पर्युपासत कौन्तेय कदाचिद्वै पितामहम् ॥ 008e
नारदः पर्वतश्चैव विश्वावसुहहाहुहूः । 009a
दिव्यतानेषु गायन्तः पर्युपासत तं प्रभुम् ॥ 009c
तत्र दिव्यानि पुष्पाणि प्रावहत्पवनस्तदा । 010a
आजह्रुर्ऋतवश्चापि सुगन्धीनि पृथक्पृथक् ॥ 010c
तस्मिन्देवसमावाये सर्वभूतसमागमे । 011a
दिव्यवादित्रसङ्घुष्टे दिव्यस्त्रीचारणावृते । 011c
इन्द्रः पप्रच्छ देवेशमभिवाद्य प्रणम्य च ॥ 011e
देवानां भगवन्कस्माल्लोकेशानां पितामह । 012a
उपरिष्टाद्गवां लोक एतदिच्छामि वेदितुम् ॥ 012c
किं तपो ब्रह्मचर्यं वा गोभिः कृतमिहेश्वर | 013a
देवानामुपरिष्टाद्यद्वसन्त्यरजसः सुखम् ॥ 013c
ततः प्रोवाच ब्रह्मा तं शक्रं बलनिषूदनम् । 014a
अवज्ञातास्त्वया नित्यं गावो बलनिषूदन ॥ 014c
तेन त्वमासां माहात्म्यं न वेत्सि शृणु यत्प्रभो । 015a
गवां प्रभावं परमं माहात्म्यं च सुरर्षभ ॥ 015c
यज्ञाङ्गं कथिता गावो यज्ञ एव च वासव । 016a
एताभिश्च विना यज्ञो न वर्तेत कथञ्चन ॥ 016c
धारयन्ति प्रजाश्चैताः पयसा हविषा तथा । 017a
एतासां तनयाश्चापि कृषियोगमुपासते ॥ 017c
जनयन्ति च धान्यानि बीजानि विविधानि च । 018a
ततो यज्ञाः प्रवर्तन्ते हव्यं कव्यं च सर्वशः ॥ 018c
पयो दधि घृतं चैव पुण्याश्चैताः सुराधिप । 019a
वहन्ति विविधान्भोगान्क्षुत्तृष्णापरिपीडिताः ॥ 019c
मुनींश्च धारयन्तीह प्रजाश्चैवापि कर्मणा । 020a
वासवाऽकूटवाहिन्यः कर्मणा सुकृतेन च ॥ 020c
उपरिष्टात्ततोऽस्माकं वसन्त्येताः सदैव हि । 021a
एतत्ते कारणं शक्र निवासकृतमद्य वै । 021c
गावो देवोपरिष्टाद्धि समाख्याताः शतक्रतो ॥ 021e
एता हि वरदत्ताश्च वरदाश्चापि वासव । 022a
सुरभ्यः पुण्यकर्मिण्यः पावनाः शुभलक्षणाः ॥ 022c
यदर्थं गां गताश्चैव सुरभ्यः सुरसत्तम । 023a
तच्च मे शृणु कार्स्न्येन वदतो बलसूदन ॥ 023c
पुरा देवयुगे तात दैत्येन्द्रेषु महात्मसु । 024a
त्रील्ँलोकाननुशासत्सु विष्णौ गर्भत्वमागते ॥ 024c
अदित्यां तप्यमानायां तपो घोरं सुदुश्चरम् । 025a
पुत्रार्थममरश्रेष्ठ पादेनैकेन नित्यदा ॥ 025c
तां तु दृष्ट्वा महादेवीं तप्यमानां महत्तपः । 026a
दक्षस्य दुहिता देवी सुरभिर्नाम नामतः ॥ 026c
अतप्यत तपो घोरं हृष्टा धर्मपरायणा । 027a
कैलासशिखरे रम्ये देवगन्धर्वसेविते ॥ 027c
व्यतिष्ठदेकपादेन परमं योगमास्थिता । 028a
दशवर्षसहस्राणि दशवर्षशतानि च ॥ 028c
सन्तप्तास्तपसा तस्या देवाः सर्षिमहोरगाः । 029a
तत्र गत्वा मया सार्धं पर्युपासत तां शुभाम् ॥ 029c
अथाहमब्रवं तत्र देवीं तां तपसाऽन्विताम् । 030a
किमर्थं तप्यसे देवि तपो घोरमनिन्दिते ॥ 030c
प्रीतस्तेऽहं महाभागो तपसाऽनेन शोभने । 031a
वरयस्व वरं देवि दातास्मीति पुरन्दर ॥ 031c
सुरभिरुवाच 032
वरेण भगवन्मह्यं कृतं लोकपितामह । 032a
एष एव वरो मेऽद्य यत्प्रीतोसि ममानघ ॥ 032c
ब्रह्मोवाच 033
तामेवं ब्रुवतीं देवीं सुरभिं त्रिदशेश्वर । 033a
प्रत्यब्रवं यद्देवेन्द्र तन्निबोध शचीपते ॥ 033c
अलोभकाम्यया देवि तपसा शुचिना च ते । 034a
प्रसन्नोऽहं वरं तस्मादमरत्वं ददामि ते ॥ 034c
त्रयाणामपि लोकानामुपरिष्टान्निवत्स्यसि । 035a
मत्प्रसादाच्च विख्यातो गोलोकः सम्भविष्यति ॥ 035c
मानुषेषु च कुर्वाणाः प्रजाः कर्म शुभास्तव । 036a
निवत्स्यन्ति महाभागो सर्वा दुहितरश्च ते ॥ 036c
मनसा चिन्तिता भोगास्त्वया वै दिव्यमानुषाः । 037a
यच्च स्वर्गसुखं देवि तत्ते सम्पत्स्यते शुभे ॥ 037c
तस्या लोकाः सहस्राक्ष सर्वकामसमन्विताः । 038a
न तत्र क्रमते मृत्युर्न जरा न च पावकः । 038c
न दैन्यं नाशुभं किञ्चिद्विद्यते तत्र वासव ॥ 038e
तत्र दिव्यान्यरण्यानि दिव्यानि भवनानि च । 039a
विमानानि सुयुक्तानि कामगानि च वासव ॥ 039c
ब्रह्मचर्येण तपसा सत्येन च दमेन च । 040a
दानैश्च विविधैः पुण्यैस्तथा तीर्थानुसेवनात् ॥ 040c
तपसा महता चैव सुकृतेन च कर्मणा । 041a
शक्यः समासादयितुं गोलोकः पुष्करेक्षण ॥ 041c
एतत्ते सर्वमाख्यातं मया शक्रानुपृच्छते । 042a
न ते परिभवः कार्यो गवामसुरसूदन ॥ 042c
भीष्म उवाच 043
एतच्छ्रुत्वा सहस्राक्षः पूजयामास नित्यदा । 043a
गाश्चक्रे बहुमानं च तासु नित्यं युधिष्ठिर ॥ 043c
एतत्ते सर्वमाख्यातं पावनं च महाद्युते । 044a
पवित्रं परमं चापि गवां माहात्म्यमुत्तमम् || 044c
कीर्तितं पुरुषव्याघ्र सर्वपापविमोचनम् । 045a
य इदं कथयेन्नित्यं ब्राह्मणेभ्यः समाहितः ॥ 045c
हव्यकव्येषु यज्ञेषु पितृकार्येषु चैव ह । 046a
सार्वकामिकमक्षय्यं पितॄंस्तस्योपतिष्ठते ॥ 046c
गोषु भक्तश्च लभते यद्यदिच्छति मानवः । 047a
स्त्रियोपि भक्ता या गोषु ताश्च काममवाप्नुयुः ॥ 047c
पुत्रार्थी लभते पुत्रं कन्यार्थी तामवाप्नुयात् । 048a
धनार्थी लभते वित्तं धर्मार्थी धर्ममाप्नुयात् ॥ 048c
विद्यार्थी चाप्नुयाद्विद्यां सुखार्थी प्राप्नुयात्सुखम् । 049a
न किञ्चिद्दुर्लभं चैव गवां भक्तस्य भारत ॥ 049c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकोनत्रिंशदधिकशततमोऽध्यायः ॥ 128 ॥
7-129-20 वासव अकूटवाहिन्यः अमायाव्यवहारिण्यः ॥ 7-129-21 निवासार्थं कृतं निवासकृतम् ॥ 7-129-48 कन्या पतिमवाप्नुयादिति क. थ. ध. पाठः ॥