श्रीः अध्यायः 128
भीष्मेण युधिष्ठिरम् प्रति श्रियो बलात्कारेण स्वप्रार्थनया गोमूत्रपुरीषयोर्निवासस्य कथनम् ॥ 1 ॥
युधिष्ठिर उवाच 001
मया गवां पुरीषं वै श्रिया जुष्टमिति श्रुतम् । 001a
एतदिच्छाम्यहं श्रोतुं संशयोऽत्र हि मे महान् ॥ 001c
भीष्म उवाच 002
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 002a
गोभिर्नृपेह संवादं श्रिया भारतसत्तम ॥ 002c
श्रीः कृत्वेह वपुः कान्तं गोमध्येषु विवेश ह । 003a
गावोऽथ विस्मितास्तस्या दृष्ट्वा रूपस्य सम्पदम् ॥ 003c
गाव ऊचुः 004
काऽसि देवि कुतो वा त्वं रूपेणाप्रतिमा भुवि । 004a
विस्मिताः स्म महाभागे तव रूपस्य सम्पदा ॥ 004c
इच्छामस्त्वां वयं ज्ञातुं का त्वं क्व च गमिष्यसि । 005a
तत्त्वेन हि सुवर्णाभे सर्वमेतद्ब्रवीहि नः ॥ 005c
श्रीरुवाच 006
लोकस्य कान्तिर्भद्रं वः श्रीर्नामाहं परिश्रुता । 006a
मया दैत्याः परित्यक्ता विनष्टाः शाश्वतीः समाः ॥ 006c
मयाऽभिपन्ना देवाश्च मोदन्ते शाश्वतीः समाः । 007a
इन्द्रो विवस्वान्सोमश्च विष्णुरापोऽग्निरेव च ॥ 007c
मयाऽभिपन्ना दीप्यन्ते ऋषयो देवतास्तथा । 008a
यान्नाविशाम्यहं गावस्ते विनश्यन्ति सर्वशः ॥ 008c
धर्मश्चार्थश्च कामश्च मया जुष्टाः सुखान्विताः । 009a
एवम्प्रभावां मां गावो विजानीत सुखप्रदाम् ॥ 009c
इच्छामि चापि युष्मासु वस्तुं सर्वासु नित्यदा । 010a
आगत्य प्रार्थये युष्माञ्श्रीजुष्टा भवताऽनघाः ॥ 010c
गाव ऊचुः 011
अध्रुवा चपला च त्वं सामान्या बहुभिः सह । 011a
न त्वामिच्छाम भद्रं ते गम्यतां यत्र रोचते ॥ 011c
वपुष्मन्त्यो वयं सर्वाः किमस्माकं त्वयाऽद्य वै । 012a
यथेष्टं गम्यतां तत्र कृतकार्या वयं त्वया ॥ 012c
श्रीरुवाच 013
किमेतद्वः क्षमं गावो यन्मां नेहाभिनन्दथ । 013a
न मां सम्प्रतिगृह्णीध्वं कस्माद्वै दुर्लभां सतीम् ॥ 013c
सत्यश्च लोकवादोऽयं लोके चरति सुव्रताः । 014a
स्वयं प्राप्ते परिभवो भवतीति विनिश्चयः ॥ 014c
महदुग्रं तपः कृत्वा मां निषेवन्ति मानवाः । 015a
देवदानवगन्धर्वाः पिशाचोरगराक्षसाः ॥ 015c
क्षममेतद्धि वो गावः प्रतिगृह्णीत मामिह । 016a
नावमन्या ह्यहं सौम्यास्त्रैलोक्ये सचराचरे ॥ 016c
गाव ऊचुः 017
नावमन्यामहे देवि न त्वां परिभवामहे । 017a
अध्रुवा चलचित्तासि ततस्त्वां वर्जयामहे ॥ 017c
बहुना च किमुक्तेन गम्यतां यत्र वाञ्छसि । 018a
वपुष्मन्त्यो वयं सर्वाः किमस्माकं त्वयाऽनघे ॥ 018c
श्रीरुवाच 019
अवज्ञाता भविष्यामि सर्वलोकेषु मानवैः । 019a
प्रत्याख्यातेति युष्माभिः प्रसादः क्रियतां मम ॥ 019c
महाभागा भवत्यो वै शरण्याः शरणागताम् । 020a
परित्रायन्तु मां नित्यं भजमानामनिन्दिताम् ॥ 020c
माननामहमिच्छामि भवत्यः सततं शिवाः । 021a
अप्येकाङ्गेष्वधो वस्तुमिच्छामि च सुकुत्सिते ॥ 021c
न वोऽस्ति कुत्सितं किञ्चिदङ्गेष्वालक्ष्यतेऽनघाः । 022a
पुण्याः पवित्राः सुभगा अवाग्देशं प्रयच्छथ । 022c
वसेयं यत्र वो देहे तन्मे व्याख्यातुमर्हथ ॥ 022e
एवमुक्तास्तु ता गावः शुभाः करुणवत्सलाः । 023a
सम्मान्य सहिताः सर्वाः श्रियमूचुर्नराधिप ॥ 023c
अवश्यं मानना कार्या तवास्माभिर्यशस्विनि । 024a
शकृन्मूत्रे निवसतां पुण्यमेतद्धि नः शुभे ॥ 024c
श्रीरुवाच 025
दिष्ट्या प्रसादो युष्माभिः कृतो मेऽनुग्रहात्मकः । 025a
एवं भवतु भद्रं वः पूजिताऽस्मि सुखप्रदाः ॥ 025c
भीष्म उवाच 026
एवं कृत्वा तु समयं श्रीर्गोभिः सह भारत । 026a
पश्यन्तीनां ततस्तासां तत्रैवान्तरधीयत ॥ 026c
एवं गोशकृतः पुत्र माहात्म्यं तेऽनुवर्णितम् । 027a
माहात्म्यं च गवां भूयः श्रूयतां गदतो मम ॥ 027c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि अष्टविंशत्यधिकशततमोऽध्यायः ॥ 128 ॥
7-128-3 विस्मिता अभवन्निति शेषः ॥ 7-128-21 एका अहम् । अङ्गेषु मध्ये कुत्सिते । सुप्रीताङ्गेषु वो वस्तुमिच्छामीह न कुत्सिते इति ध. पाठः ॥ 7-128-23 सम्मन्त्र्य सहिता इति झ. पाठः ॥