श्रीः अध्यायः 127

व्यासेन शुकम् प्रति कपिलालक्षणविभागादिकथनम् ॥ 1 ॥

शुक उवाच 001
केन वर्णविभागेन विज्ञेया कपिला भवेत् । 001a
कति वा लक्षणान्यस्या दृष्टानि मुनिभिः पुरा ॥ 001c
श्रीव्यास उवाच 002
शृणु तात यथा गोषु विज्ञेया कपिला भवेत् । 002a
नेत्रयोः शृङ्गयोश्चैव खुरेषु वृषणेषु च । 002c
कर्णतो घ्राणतश्चापि षड्विधाः कपिलाः स्मृताः ॥ 002e
एतेषां लक्षणानां तु यद्येकमपि दृश्यते । 003a
कपिलां तां विजानीयादेवमाहुर्मनीषिणः ॥ 003c
आग्नेयी नेत्रकपिला खुरैर्माहेश्वरी भवेत् । 004a
ग्रीवायां वैष्णवी ज्ञेया पूष्णो घ्राणादजायत ॥ 004c
कर्णतस्तु वसन्तेन स्वयोनिमभिजायते । 005a
गायत्र्याश्च वृषणयोरुत्पत्तिः षड्गुणा स्मृता ॥ 005c
एवं गावश्च विप्राश्च गायत्री सत्यमेव च । 006a
वसन्तश्च सुवर्णश्च एकतः समजायत ॥ 006c
नेत्रयोः कपिलां यस्तु वाहयेत दुहेत वा । 007a
स पापकर्मा नरकं प्रतिष्ठां प्रतिपद्यते ॥ 007c
नरकाद्विप्रमुक्तस्तु तिर्यग्योनिं निषेवते । 008a
यदा लभेत मानुष्यं जात्यन्धो जायते नरः ॥ 008c
शृङ्गयोः कपिलां यस्तु वाहयेत दुहेत वा । 009a
तिर्यग्योनिं स लभते जायमानः पुनः पुनः ॥ 009c
खुरेषु कपिलां यस्तु वाहयेत दुहेत वा । 010a
तमस्यपारे मज्जेत धनहीनो नराधमः ॥ 010c
कपिलां वालधानेषु वाहयेत दुहेत वा । 011a
निराश्रयः सदा चैव जायते यदि चेत्कृमिः ॥ 011c
कर्णेन कपिलां यस्तु जानन्नप्युपजीवति । 012a
सहस्रशः शुचिर्भूत्वा मानुष्यं प्राप्नुयादथ । 012c
चण्डालः पापयोनिश्च जायते स नराधमः ॥ 012e
घ्राणेन कपिलां यस्तु प्रमादादुपजीवति । 013a
सोऽपि वर्षसहस्राणि तिर्यग्योनौ प्रजायते ॥ 013c
व्याधिग्रस्तो जडो रोगी भवेन्मानुष्यमागतः ॥ 014ac
मधुसर्पिस्सुगन्धास्तु कपिलाः शास्त्रतः स्मृताः । 015a
एताः समुपजीवेत सोऽपि तिर्यक्षु जायते ॥ 015c
स्थावरत्वमनुप्राप्तो यदि मानुष्यतां लभेत् । 016a
अल्पायुः स भवेज्जातो हीनवर्णकुलोद्भवः ॥ 016c
ये तु पापा ह्यसूयन्ते कपिलां वाहयन्ति च । 017a
निरयेषु प्रतिष्ठन्ते यावदाभूतसम्प्लवम् ॥ 017c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि सप्तविंशत्यधिकशततमोऽध्यायः ॥ 127 ॥

7-127-7 वाहयेत दमेत वेति थ. पाठः ॥