श्रीः अध्यायः 126

व्यासेन शुकम् प्रति कपिलानां गवां स्वाङ्गप्रवेशनेन देवेभ्यः प्रच्छन्नमात्मनोगोपनात्परितुष्टस्याग्नेर्वरात्सर्वश्रैष्ठ्यप्राप्तिकथनम् ॥ 1 ॥

'शुक उवाच 001
नानावर्णैरुपेतानां गवां किं मुनिसत्तम । 001a
कपिलाः सर्ववर्णेषु वरिष्ठत्वमवाप्नुवन् ॥ 001c
व्यास उवाच 002
शृणु पुत्र यथा गोषु वरिष्ठाः कपिलाः स्मृताः । 002a
कपिलत्वं च सम्प्राप्ताः पूज्याश्चि सततं नृषु ॥ 002c
अग्निः पुरापचक्राम देवेभ्य इति नः श्रुतम् । 003a
देवेभ्यो मां छादयत शरण्याः शरणं गतम् ॥ 003c
ऊचुस्ताः सहितास्तत्र स्वागतं तव पावक । 004a
इह गुप्तस्त्वमस्माभिर्न देवैरुपलप्स्यसे ॥ 004c
अथ देवा विवित्सन्तः पावकं परिचक्रमुः । 005a
गोषु गुप्तं च विज्ञाय ताः क्षिप्रमुपतस्थिरे ॥ 005c
युष्मासु निवसत्यग्निरिति गाः समचूचुदन् । 006a
प्रकाश्यतां हुतवहो लोकान्न च्छेत्तुमर्हथ ॥ 006c
एवमस्त्वित्युनुज्ञाय पावकं समदर्शयन् ॥ 007ac
अधिगम्य पावकं तुष्टास्ते देवाः सद्य एव तु । 008a
अग्निं प्रचोदयामासुः क्रियतां गोष्वनुग्रहः ॥ 008c
गवां तु यासां गात्रेषु पावकः समवस्थितः । 009a
कपिलत्वमनुप्राप्ताः सर्वश्रेष्ठत्वमेव च ॥ 009c
महाफलत्वं लोके च ददौ तासां हुताशनः । 010a
तस्माद्धि सर्ववर्णानां कपिलां गां प्रदापय । 010c
श्रोत्रियाय प्रशान्ताय प्रयतायाग्निहोत्रिणे ॥ 010e
यावन्ति रोमाणि भन्ति धेन्वा युगानि तावन्ति पुनाति दातॄन् । 011a
प्रतिग्रहीतॄंश्च पुनाति दत्ता शिष्टे तु गौर्वै प्रतिपादनेन ॥ 011c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि षड्विंशत्यधिकशततमोऽध्यायः ॥ 126 ॥