श्रीः अध्यायः 125
व्यासेन शुकम् प्रति ब्राह्मणेतरवर्णानां कपिलाक्षीरोपजीवनार्हत्वादिकथनम् ॥ 1 ॥
'शुक उवाच 001
क्षत्रियाश्चैव शूद्राश्च मन्त्रहीनाश्च ये द्विजाः । 001a
कपिलामुपजीवन्ति कथमेतत्पितर्भवेत् ॥ 001c
श्रीव्यास उवाच 002
क्षत्रियाश्चैव शूद्राश्च मन्त्रहीनाश्च ये द्विजाः । 002a
कपिलामुपजीवन्ति तेषां वक्ष्यामि निर्णयम् ॥ 002c
कपिलास्तूत्तमा लोके गोषु चैवोत्तमा मताः । 003a
तासां दाता लभेत्स्वर्गं विधिना यश्च सेवते ॥ 003c
स्पृशेत कपिलां यस्तु दण्डेन चरणेन वा । 004a
स तेन स्पर्शमात्रेण नरकायोपपद्यते ॥ 004c
मन्त्रेण युञ्ज्यात्कपिलां मन्त्रेणैव प्रमुञ्चते । 005a
मन्त्रिहीनं तु यो युञ्जात्कृमियोनौ प्रसूयते ॥ 005c
प्रहाराहतमर्माङ्गा दुःखेन च जडीकृता । 006a
पदानि यावद्गच्छेत तावल्लोकान्कृमिर्भवेत् ॥ 006c
यावन्तो बिन्दवस्तस्याः शोणितस्य क्षितिं गताः । 007a
तावद्वर्षसहस्राणि नरकं प्रतिपद्यते ॥ 007c
मन्त्रेण युञ्ज्यात्कपिलां मन्त्रेण विनियोजयेत् । 008a
मन्त्रहीनैरनुयुतो मज्जयेत्तमसि प्रभो ॥ 008c
कपिलां येऽपि जीवन्ति बुद्धिमोहान्विता नराः । 009a
तेऽपि वर्षसहस्राणि पतन्ति नरके नृप ॥ 009c
अथ न्यायेन ये विप्राः कपिलामुपयुञ्जते । 010a
तस्मिंल्लोके प्रमोदन्ते लोकाश्चैषामनामयाः ॥ 010c
विधिना ये न कुर्वन्ति शूद्रास्तानुपधारय ॥' 011ac
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि पञ्चविंशत्यधिकशततमोऽध्यायः ॥ 125 ॥