श्रीः अध्यायः 124

भीष्मेण युधिष्ठिरम् प्रति गोमाहात्म्यप्रतिपादकव्यासशुकसंवादानुवादः ॥ 1 ॥

'युधिष्ठिर उवाच 001
पवित्राणां पवित्रं यच्छ्रेष्ठं लोकेषु पूजितम् । 001a
महाव्रतं महाभाग तन्मे ब्रूहि पितामह ॥ 001c
भीष्म उवाच 002
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 002a
पितुः पुत्रस्य संवादं व्यासस्य च शुकस्य च ॥ 002c
ऋषीणामुत्तमं कृष्णं भावितात्मानमच्युतम् । 003a
पारम्पर्यविशेषज्ञं सर्वशास्त्रार्थकोविदम् ॥ 003c
कृतशौचः शुकस्तत्र कृतजप्यः कृताह्निकः । 004a
परं नियममास्थाय परं धर्ममुपाश्रितः ॥ 004c
प्रणम्य शिरसा व्यासं सूक्ष्मतत्वार्थदर्शिनम् । 005a
शुकः पप्रच्छ वै प्रश्नं दानधर्मकुतूहलः ॥ 005c
बहुचित्राणि दानानि बहुशः शंससे मुने । 006a
महार्थं पावनं पुण्यं किंस्विद्दानं महाफलम् ॥ 006c
केन दुर्गाणि तरति केन लोकानवाप्नुते । 007a
केन वा महदाप्नोति इह लोके परत्र च ॥ 007c
के वा यज्ञस्य वोढारः केषु यज्ञः प्रतिष्ठितः । 008a
किञ्च यज्ञस्य यज्ञत्वं किञ्च यज्ञस्य भेषजम् । 008c
यज्ञानामुत्तमं किञ्च तद्भवान्प्रब्रवीतु मे ॥ 008e
स तस्मै भजमानाय जातकौतूहलाय च । 009a
व्यासो व्रतनिधिः प्राह गवामिदमनुत्तमम् ॥ 009c
धन्यं यशस्यमायुष्यं लोके श्रुतिसुखावहम् । 010a
यत्पवित्रं पवित्राणां मङ्गलानां च मङ्गलम् ॥ 010c
सर्वपापप्रशमनं तत्समासेन मे शृणु । 011a
यदिदं तिष्ठते लोके जगत्स्थावरजङ्गमम् । 011c
गावस्तत्प्राप्य तिष्ठन्ति गोलोके पुण्यदर्शनाः ॥ 011e
मातरः सर्वभूतानां विश्वस्य जगतश्च ह । 012a
रुद्राणामिह साध्यानां गाव एव तु मातरः ॥ 012c
रुद्राणां मातरो ह्येता ह्यादित्यानां स्वसा स्मृताः । 013a
वसूनां च दुहित्रस्ता ब्रह्मसन्तानमूलजाः ॥ 013c
यासामधिपतिः पूषा मरुतो वालबन्धनाः । 014a
ऐश्वर्यं वरुणो राजा विश्वेदेवाः समाश्रिताः ॥ 014c
य एवं वेद ता गावो मातरो देवपूजिताः । 015a
स विप्रो ब्रह्मलोकाय गवां लोकाय वा ध्रुवः ॥ 015c
गावस्तु नावमन्येत कर्मणा मनसा गिरा । 016a
गवां स्थानं परं लोके प्रार्थयेद्यः परां गतिम् ॥ 016c
न पद्भ्यां ताडयेद्गा वै न दण्डेन न मुष्टिना । 017a
इमां विद्यामुपाश्रित्य पावनीं ब्रह्मनिर्मिताम् ॥ 017c
मातॄणामन्ववाये च न गोमध्ये न गोव्रजे । 018a
नरो मूत्रपुरीषस्य दृष्ट्वा कुर्याद्विसर्जनम् ॥ 018c
शुद्धाश्चन्दनशीताङ्ग्यश्चन्द्ररश्मिसमप्रभाः । 019a
सौम्याः सुरभ्यः सुभगा गावो गुग्गुलुगन्धयः ॥ 019c
सर्वे देवाऽविशन्गा वै समुद्रमिव सिन्धवः । 020a
दिवं चैवान्तरिक्षं च गवां व्युष्टिं समश्नुते ॥ 020c
दधिना जुहुयादग्निं दधिना स्वस्ति वाचयेत् । 021a
दधि दद्याच्च प्राशेत गवां व्युष्टिं समश्नुते ॥ 021c
घृतेन जुहुयादग्निं घृतेन स्वस्ति वाचयेत् । 022a
घृतमालभ्य प्राश्नीयाद्गवां व्युष्टिं समश्नुते ॥ 022c
गावः सञ्जीवना यास्तु गावो दानमनुत्तमम् । 023a
ताः पुण्यगोपाः सुफला भजमानं भजन्तु माम् ॥ 023c
येन देवाः पवित्रेण स्वर्गलोकमितो गताः । 024a
तत्पवित्रं पवित्राणां मम मूर्ध्नि प्रतिष्ठितम् ॥ 024c
वीणामृदङ्गपणवा गवां गात्रं प्रतिष्ठिताः । 025a
क्रीडारतिविहारार्थे त्रिषु लोकेषु वर्तते ॥ 025c
न तत्र देवा वर्तन्ते नाग्निहोत्राणि जुह्वति । 026a
न यज्ञैरिज्यते चात्र यत्र गौर्वै न दृश्यते ॥ 026c
क्षीरं दधि घृथं यासां रसानामुत्तमो रसः । 027a
अमृतप्रभवा गावस्त्रैलोक्यं येन जीवति ॥ 027c
इमामाहूय धेनुं च सवत्सां यज्ञमातरम् । 028a
उपाह्वयन्ति यां विप्रा गावो यज्ञहविष्कृतम् ॥ 028c
या मेध्या प्रथमं कर्म इयं धेनुः सरस्वती । 029a
पौर्णमासेन वत्सेन कामं कामगुणान्विता ॥ 029c
यत्र सर्वमिदं प्रोतं यत्किञ्चिज्जङ्गमं जगत् । 030a
स गौर्वै प्रथमा पुण्या सर्वभूतहिते रता ॥ 030c
धारणाः पावनाः पुण्या भावना भूतभावनाः । 031a
गावो मामभिरक्षन्तु इह लोके परत्र च ॥ 031c
एष यज्ञः सहोपाङ्ग एष यज्ञः सनातनः । 032a
वेदाः सहोपनिषदो गवां रूपाः प्रतिष्ठिताः ॥ 032c
एतत्तात मया प्रोक्तं गवामिह परं मतम् । 033a
सर्वतः श्रावयेन्नित्यं प्रयतो ब्रह्मसंसदि ॥ 033c
श्रुत्वा लभेत ताल्ँलोकान्ये मया परिकीर्तिताः । 034a
श्रावयित्वापि प्रीतात्मा लोकांस्तान्प्रतिपद्यते || 034c
धेनुमेकां समादद्यादहन्यहनि पावनीम् । 035a
तत्तथा प्राप्नुयाद्विप्रः पठन्वै गोमतीं सदा ॥ 035c
अथ धेनुर्न विद्यते तिलधेनुमनुत्तमाम् । 036a
दद्याद्गोमतिकल्पेन तां धेनुं सर्वपावनीम् ॥ 036c
आह्निकं गोमतीं नित्यं यः पठेत सदा नरः । 037a
सर्वपापात्प्रमुच्येत प्रयतात्मा य आचरेत् ॥ 037c
घृतं वा नित्यमालभ्य प्राश्य वा गोमतीं जपेत् । 038a
स्नात्वा वा गोकरीषेण पठन्पापात्प्रमुच्यते ॥ 038c
मनसा गोमतीं जप्येद्गोमत्या नित्यमाह्निकम् । 039a
न त्वेन दिवसं कुर्याद्व्यर्थं गोमत्यपाठकः ॥ 039c
गोमतीं जपमाना हि देवा देवत्वमाप्नुवन् । 040a
ऋषित्वमृषयश्चापि गोमत्या सर्वमाप्नुवन् ॥ 040c
बद्धो बन्धात्प्रमुच्येत कृच्छ्रान्मुच्येत सङ्कटात् । 041a
गोमतीं सेवते यस्तु लभते प्रियसङ्गमम् ॥ 041c
एतत्पवित्रं कार्त्स्न्येन एतद्व्रतमनुत्तमम् । 042a
एतत्तु पृथिवीपाल पावनं शृण्वतां सदा ॥ 042c
पुत्रकामाश्च ये केचिद्धनकामाश्च मानवाः । 043a
अद्धाने चोरवैरिभ्यो मुच्यते गोमतीं पठन् ॥ 043c
पूर्ववैरानुबन्धेषु रणे चाप्याततायिनः । 044a
लभेत जयमेवाशु सदा गोमतिपाठकः ॥' 044c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि चतुर्विंशत्यधिकशततमोऽध्यायः ॥ 124 ॥

7-124-1 देवव्रत महाभागेति क. पाठः ॥ 7-124-18 मातॄणामनुपाते चेति थ. पाठः ॥ 7-124-26 यत्र गौर्वै न दुह्यते इति थ. पाठः ॥