श्रीः अध्यायः 123
फेनपस्य गोभी रन्तिदेवम् प्रति तत्सत्रे स्वेषां पशुत्वेन विनियोगप्रार्थना ॥ 1 ॥ तेन गवां मध्ये कस्याश्चिदपि सकामत्वज्ञाने सत्रविरामरूपसमयकरणेन सत्रारम्भः ॥ 2 ॥ कदाचन कस्याश्चिद्गोर्वत्सस्नेहाद्विशसने दुःखावगमेन यागोपरमः ॥ 3 ॥
'भीष्म उवाच 001
ता गावो रन्तिदेवस्य गत्वा यज्ञं मनीषिणः । 001a
आत्मानं ज्ञापयामासुर्महर्षीणां समक्षतः ॥ 001c
रन्तिदेवस्ततो राजा प्रयतः प्राञ्जलिः शुचिः । 002a
उवाच गावः प्रणतः किमागमनमित्यपि ॥ 002c
गाव ऊचुः 003
इच्चामस्तव राजेन्द्र सत्रेऽस्मिन्विनियोजनम् । 003a
पशुत्वमुपसम्प्राप्तुं प्रसादं कर्तुमर्हसि ॥ 003c
रन्तिदेव उवाच 004
नास्ति शक्तो गवां घातं कर्तुं शतसहस्रशः । 004a
घातयित्वा त्वहं युष्मान्कथमात्मानमुत्तरे ॥ 004c
यः पशुत्वेन संयोज्य युष्मान्स्वर्गं नयेदिह । 005a
आत्मानं चैव तपसा गावः समुपगम्यताम् ॥ 005c
गाव ऊचुः 006
अस्माकं तारणे युक्तो धर्मात्मा तपसि स्थितः । 006a
श्रुतोऽस्माभिर्भवान्राजंस्ततस्तु स्वयमागताः ॥ 006c
रन्तिदेव उवाच 007
मम सत्रे पशुत्वं वो यद्येवं हि मनीषितम् । 007a
समयेनाहमेतेन जुहुयां वो हुताशने ॥ 007c
कदाचिद्यदि वः काचिदकामा विनियुज्यते । 008a
तदा समाप्तिः सत्रस्य गवां स्यादिति नैष्ठिकी ॥ 008c
गाव ऊचुः 009
एवमस्तु महाराज यथा त्वं प्रब्रवीषि नः । 009a
अकामाः स्युर्यदा गावस्तदा सत्रं समाप्यताम् ॥ 009c
भीष्म उवाच 010
ततः प्रवृत्ते गोसत्रे रन्तिदेवस्य धीमतः । 010a
गोसहस्राण्यहरहर्नियुज्यन्ते शमीतृभिः ॥ 010c
एवं बहूनि वर्षाणि व्यतीतानि नराधिप । 011a
गवां वै वध्यमानानां न चान्तः प्रत्यदृश्यत ॥ 011c
गवां चर्मसहस्रैस्तु राशयः पर्वतोपमाः । 012a
बभूवुः कुरुशार्दूल बहुधा मेघसन्निभाः ॥ 012c
मेदःक्लेदवहा चैव प्रावर्तत महानदी । 013a
अद्यापि भुवि विख्याता नदी चर्मण्वती शुभा ॥ 013c
ततः कदाचित्स्वं वत्सं गौरुपामन्त्र्य दुःखिता । 014a
एहि वत्स स्तनं पाहि मा त्वं पश्चात्क्षुधार्दितः ॥ 014c
तप्स्यसे विमना दुःखं घातितायां मयि ध्रुवम् । 015a
एते ह्यायान्ति चण्डालाः सशस्त्रा मां जिघांसवः ॥ 015c
अथ शुश्राव तां वाणीं मानुषीं समुदाहृताम् । 016a
रन्तिदेवो महाराज ततस्तां समवारयत् ॥ 016c
स्थापयामास गोसत्रमथ तं पार्थिवर्षभ । 017a
सत्रोत्सृष्टाः परित्यक्ता गावोऽन्याः समुपाश्रिताः ॥ 017c
यास्तस्य राज्ञो निहता गावो यज्ञे महात्मनः । 018a
ता गोलोकमुपाजग्मुः प्रेक्षिता ब्रह्मवादिभिः ॥ 018c
रन्तिदेवोपि राजर्षिरिष्ट्वा यज्ञं यथाविधि । 019a
ततः सख्यं सुरपतेस्त्रिदिवं चाक्षयं ययौ ॥ 019c
फेनपो दिवि गोलोके मुमुदे शाश्वतीः समाः । 020a
अवशिष्टश्च या गावस्ता बभूवुर्वनेचराः ॥ 020c
फेनपाख्यानमेतत्ते गवां माहात्म्यमेव च । 021a
कथितं पावनं पुण्यं कृष्णद्वैपायनेरितम् ॥ 021c
नारायणोऽपि भगवान्दृष्ट्वा गोषु परं यशः । 022a
शुश्रूषां परमां चक्रे भक्तिं च भरतर्षभ ॥ 022c
तस्मात्त्वमपि राजेन्द्र गा वै पूजय भारत । 023a
द्विजेभ्यश्चैव सततं प्रयच्छ कुरुसत्तम ॥ 023c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि त्रयोविंशत्यधिकशततमोऽध्यायः ॥ 123 ॥
7-123-8 कदाचित् कदापि । काचित् कापि ॥ 7-123-10 शमीतृभिः शमितृभिः । दीर्घ आर्षः ॥