श्रीः अध्यायः 122

फेनपस्य गोभक्त्युद्रेकसन्तुष्टाभिर्गोलोकादागतगोमातृभिः योगप्रभावेण शरीराद्वियोजनेन स्वलोकप्रापणपूर्वकं तस्मिन्कपिलानिश्चयनिवेदनम् ॥ 1 ॥ ततः कपिलाभिर्यथाप्रतिज्ञं शृङ्गाघातादिना फेनपस्य कुणपशरीरविभेदनम् ॥ 2 ॥

'भीष्म उवाच 001
यास्तु गोमातरस्तस्य कामचारिण्य आगताः । 001a
समीपं हि सुमित्रस्य कृतज्ञाः समुपस्थिताः ॥ 001c
अभिप्रशस्य चैवाहुस्तमृषिं पुण्यदर्शनाः । 002a
गोलोकादागता वेद वृषगोमातरो वयम् ॥ 002c
सुप्रीताः स्म वरं गृह्ण यमिच्छसि महामुने । 003a
यद्धि गोषु परां बुद्धिं कृतवानसि नित्यदा ॥ 003c
सुमित्र उवाच 004
प्रीतोस्म्यनुगृहीतोस्मि यन्मां गोमातरः शुभाः । 004a
सुप्रीतमनसः सर्वास्तिष्ठन्ते च वरप्रदाः ॥ 004c
भवेद्गोष्वेव मे भक्तिर्यथैवाद्य तथा सदा । 005a
गोघ्नाश्चैवावसीदन्तु नरा ब्रह्मद्विषश्च ये ॥ 005c
गोमातर ऊचुः 006
एवमेतदृषिश्रेष्ठ हितं वदसि नः प्रियम् । 006a
एहि गच्छ सहाऽस्माभिर्गोलोकमृषिसत्तम ॥ 006c
सुमित्र उवाच 007
यूयमिष्टां गतिं यान्तु न ह्यहं गन्तुमुत्सहे । 007a
इमा गावः समुत्सृज्य तपस्विन्यो मम प्रियाः ॥ 007c
भीष्म उवाच 008
तास्तु तस्य वचः श्रुत्वा कपिलानां सुदारुणम् । 008a
नित्युस्तमृषिमुत्क्षिप्य भार्गवं नभ उद्वहन् ॥ 008c
कलेवरं तु तत्रैव तस्य सन्न्यस्य मातरः । 009a
निष्कृष्य करणं योगादानयन्भार्गवस्य वै ॥ 009c
सर्वं चास्य तदाचख्युः कपिलानां विचेष्टितम् । 010a
यदर्थं हरणं गोभिर्गोलोकं लोकमातरः ॥ 010c
ततस्तु कपिलास्तत्र तस्य दृष्ट्वा कलेवरम् । 011a
तथाप्रतिज्ञं शृङ्गैश्च खुरैश्चाप्यवचूर्णयन् ॥ 011c
ततः सञ्छिद्य बहुधा भार्गवं नृपसत्तम । 012a
ययुर्यत्रेतरा गावस्तच्च सर्वं न्यवेदयन् ॥ 012c
अथ गोमातृभिः शप्तास्ता गावः पृथिवीचराः । 013a
अमेध्यवदनाः क्षिप्रं भवध्वं ब्रह्मघातकाः ॥ 013c
एवं कृतज्ञा गावो हि यथा गोमातरो नृप । 014a
ऋषिश्च प्राप्तवाल्ँलोकं गावश्च परिमोक्षिताः ॥' 014c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि द्वाविंशत्यधिकशततमोऽध्यायः ॥ 122 ॥

7-122-2 वेद विद्धि । ऋषे गोमातरो वयमिति थ. पाठः ॥ 7-122-8 कपिलानां सुदारुणं सुमित्रवधप्रतिज्ञानं च श्रुत्वा ॥