श्रीः अध्यायः 121
फेनपस्य गोभिः कदाचन गोलोकादेत्य गिरिह्रदे स्त्रीरूपधारणेन विहरमाणानां गवामवलोकनम् ॥ 1 ॥ फेनपस्य गोभिः स्वेषां गोलोकप्राप्त्युपायं पृष्टाभिस्ताभिस्ताः प्रति रन्तिदेवस्य सत्रे आत्मनां पशुत्वोपकल्पनस्य तदुपायत्वोक्तिः ॥ 2 ॥ फेनपस्य स्वेष्वतिवत्सलतया यागीयपशुत्वे तदभ्यनुज्ञानस्य दुःसम्पादतां चिन्तयन्तीषु तासु कपिलाभिस्ताभ्यः स्वेषामेव गोषु श्रैष्ठ्यप्राप्तिरूपवराधिगमेन पेनपवधप्रतिज्ञानम् ॥ 3 ॥
भीष्म उवाच 001
कदाचित्कामरूपिण्यो गावः स्त्रीवेषमाश्रिताः । 001a
ह्रदे क्रीडन्ति संहृष्टा गायन्त्यः पुण्यलक्षणाः ॥? 001c
ददृशुस्तस्य गावो वै विस्मयोत्फुल्ललोचनाः । 002a
ऊचुश्च का यूयमिति स्त्रियो मानुषया गिरा ॥ 002c
स्त्रिय ऊचुः 003
गाव एव वयं सर्वकर्मभिः शोभनैर्युताः । 003a
सर्वाः स्त्रीवेषधारिण्यो यथाकामं चरामहे || 003c
गाव ऊचुः 004
गवां गावः परं दैवं गवां गावः परा गतिः । 004a
कथयध्वमिहास्माकं केन वः सुकृतां गतिः ॥ 004c
स्त्रिय ऊचुः 005
अस्माकं हविषा देवा ब्राह्मणास्तर्पितास्तथा । 005a
कव्येन पितरश्चैव हव्येनाग्निश्च तर्पितः ॥ 005c
प्रजया च तथाऽस्माकं कृषिरभ्युद्धृता सदा । 006a
शकटैश्चापि संयुक्ता दशवाहशतेन वै ॥ 006c
तदेतैः सुकृतैः स्फीतैर्वयं याश्चैव नः प्रजाः । 007a
गोलोकमनुसम्प्राप्ता यः परं कामगोचरः ॥ 007c
यूयं तु सर्वा रोहिण्यः सप्रजाः सहपुङ्गवाः । 008a
अधोगामिन्य इत्येव पश्यामो दिव्यचक्षुषा ॥ 008c
गाव ऊचुः 009
एवं गवां परं दैवं गाव एव परायणम् । 009a
स्वपक्ष्यास्तारणीया वः शरणाय गता वयम् ॥ 009c
किमस्माभिः करणीयं वर्तितव्यं कथञ्चन । 010a
प्राप्नुयाम च गोलोकं भवाम न च गर्हिताः ॥ 010c
स्त्रिय ऊचुः 011
वर्तते रन्तिदेवस्य सत्रं वर्षसहस्रकम् । 011a
तत्र तस्य नृपस्याशु पशुत्वमुपगच्छत ॥ 011c
ततस्तस्योपयोगेन पशुत्वे यज्ञसंस्कृताः । 012a
गोलोकान्प्राप्स्यथ शुभांस्तेन पुण्येन संयुताः ॥ 012c
भीष्म उवाच 013
एतत्तासां वचः श्रुत्वा गवां संहृष्टमानसाः । 013a
गमनाय मनश्चक्रुरौत्सुक्यं चागमन्परम् ॥ 013c
न हि नो भार्गवो दाता पशुत्वेनोपयोजनम् । 014a
यज्ञस्तस्य नरेन्द्रस्य वर्तते धर्मतस्तथा ॥ 014c
वयं न चाननुज्ञाताः शक्ता गन्तुं कथञ्चन । 015a
अवोचन्नथ तत्रत्या भार्गवो वध्यतामयम् ॥ 015c
एतत्सर्वा रोचयत न हि शक्यमतोऽन्यथा । 016a
लोकान्प्राप्तुं सहास्माभिर्निश्चयः क्रियतामयम् ॥ 016c
न तु तासां समेतानां काचिद्घोरेण चक्षुषा । 017a
शक्नोति भार्गवं द्रष्टुं सत्कृतेनोपसंयुता ॥ 017c
अथ पद्मसवर्णाभा भास्करांशुसमप्रभाः । 018a
जपालोहितताम्राक्ष्यो निर्मांसकठिनाननाः ॥ 018c
रोहिण्यः कपिलाः प्राहुः सर्वासां वै समक्षतः । 019a
मेघस्तनितनिर्घोषास्तेजोभिरभिरञ्जिताः ॥ 019c
वयं हि तं वधिष्यामः सुमित्रं नात्र संशयः । 020a
सुकृतं पृष्ठतः कृत्वा किं नः श्रेयो विधास्यथ ॥ 020c
गाव ऊचुः 021
कपिलाः सर्ववर्णेषु प्रधानत्वमवाप्स्यथ । 021a
गवां शतफला चैकां दत्त्वा फलमवाप्स्यति ॥ 021c
भीष्म उवाच 022
एतद्गवां वचः श्रुत्वा कपिला हृष्टमानसाः । 022a
चक्रुः सर्वा भार्गवस्य सुमित्रस्य वधे मतिम् ॥' 022c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकविंशत्यधिकशततमोऽध्यायः ॥ 121 ॥
7-121-2 तस्य फेनपस्य स्त्रियः प्रति ॥ 7-121-4 सुकृतां पुण्यकृताम् ॥ 7-121-6 शक्ताश्चापि तथा युक्ता इति थ. ध. पाठः ॥