श्रीः अध्यायः 120

भीष्मेण युधिष्ठिरम् प्रति पेनपोपाख्यानकथनारम्भः ॥ 1 ॥ त्रिशिखरगिर्याश्रमवासिने सुमित्रनाम्ने विप्रवराय आङ्गिरसेनैकस्या गोर्दानम् ॥ 2 ॥ तस्या वंशेऽसङ्ख्येयानां गवां सम्भवः ॥ 3 ॥ सुमित्रेण वत्समुखोद्गतक्षीरफेनपानात्फेनप इति नामाधिगमः ॥ 4 ॥

'युधिष्ठिर उवाच 001
कः फेनपेति नाम्नाऽसौ कथं वा भक्षितः पुरा । 001a
मृत उज्जीवितः कस्मात्कथं गोलोकमाश्रितः ॥ 001c
विरुद्धे मानुषे लोके तथा समयवर्त्मसु । 002a
ऋते दैवं हि दुष्प्रापं मानुषेषु विशेषतः । 002c
संशयो मे महानत्र तन्मे व्याख्यातुमर्हसि ॥ 002e
भीष्म उवाच 003
श्रूयते भार्गवे वंशे सुमित्रो नाम भारत । 003a
वेदाध्ययनसम्पन्नो विपुले तपसि स्थितः ॥ 003c
वानप्रस्थाश्रमे युक्तः स्वकर्मनिरतः सदा । 004a
विनयाचारतत्वज्ञः सर्वधर्मार्थकोविदः ॥ 004c
यत्नात्त्रिषवणस्नायी सन्ध्योपासनतत्परः । 005a
अग्निहोत्ररतः क्षान्तो जपञ्जुह्वच्च नित्यदा ॥ 005c
पितृदेवांश्च नियतमतिथींश्च स पूजयन् । 006a
प्राणसन्धारणार्थं च यत्किञ्चिदुपहारयन् ॥ 006c
गिरिस्त्रिशिखरो नाम यतः प्रभवते नदी । 007a
कुलजेति पुराणेषु विश्रुता रुद्रनिर्मिता ॥ 007c
तस्यास्तीरे समे देशे पुष्पमालासमाकुले । 008a
वन्यौषधिद्रुमोपेते नानापक्षिमृगायुते ॥ 008c
व्यपेतदंशमशके ध्वाङ्क्षगृध्रैरसेविते । 009a
कृष्णदर्भतृणप्राये सुरम्ये ज्योतिरश्मिनि ॥ 009c
सर्वोन्नतैः समैः श्यामैर्याज्ञीयैस्तरुभिर्वृते । 010a
तत्राश्रमपदं पुण्यं भृगूणामभवत्पुरा || 010c
उवास तत्र नियतः सुमित्रो नाम भार्गवः । 011a
यथोद्दिष्टेन पूर्वेषां भृगूणां साधुवर्त्मना ॥ 011c
तस्मा आङ्गिरसः कश्चिद्ददौ गां शर्करीं शुभाम् । 012a
वर्षासु पश्चिमे मासि पौर्णमास्यां शुचिव्रतः ॥ 012c
स तां लब्ध्वा धर्मशीलश्चिन्तयामास तत्परः । 013a
सुमित्रः परया भक्त्या जननीमिव मातरम् ॥ 013c
तेन सन्धुक्ष्यमाणा सा रोहिणी कामरूपिणी । 014a
प्रवृद्धिमगमच्छ्रेष्ठा प्राणतश्च सुदर्शना ॥ 014c
सिराविमुक्तपार्श्वान्ता विपुलां कान्तिमुद्वहत् । 015a
श्यामपार्श्वान्तपृष्ठा सा सुरभिर्मधुपिङ्गला ॥ 015c
बृहती सूक्ष्मरोमान्ता रूपोदग्रा तनुत्वचा । 016a
कृष्णपुच्छा श्वेतवक्त्रा समवृत्तपयोधरा ॥ 016c
पृष्ठोन्नता पूर्वनता शङ्कुकर्णी सुलोचना । 017a
दीर्घजिह्वा ह्रस्वशृङ्गी सम्पूर्णदशनान्तरा ॥ 017c
मांसाधिकगलान्ता सा प्रसन्ना शुभदर्शना । 018a
नित्यं शमयुता स्निग्धा सम्पूर्णोदात्तनिस्वना ॥ 018c
प्राजापत्यैर्गवां नित्यं प्रशस्तैर्लक्षणैर्युता । 019a
यौवनस्थेव वनिता शुशुभे रूपशोभया ॥ 019c
वृषेणोपगता सा तु कल्या मधुरदर्शना । 020a
मिथुनं जनयामास तुल्यरूपमिवात्मनः ॥ 020c
संवर्धयामास स तां सवत्सां भार्गवो मुनिः । 021a
तयोः प्रजाधिसंसर्गात्सहस्रं च गवामभूत् ॥ 021c
गवां जातिसहस्राणि सम्भूतानि परस्परम् । 022a
ऋषभाणां च राजेन्द्र नैवान्तः प्रतिदृश्यते ॥ 022c
तैराश्रमपदं रम्यमरण्यं चैव सर्वशः । 023a
समाकुलं समभवन्मेघैरिव नभस्थलम् ॥ 023c
कानि चित्पद्मवर्णानि किंशुकाभानि कानिचित् । 024a
रुक्मवर्णानि चान्यानि चन्द्रांशुसदृशानि च ॥ 024c
तथा राजतवर्णानि कानिचिल्लोहितानि वै । 025a
नीललोहितताम्राणि कृष्णानि कपिलानि च । 025c
नानारागविचित्राणि यूथानि कुलयूथप ॥ 025e
न च क्षीरं सुतस्नेहाद्वत्सानामुपजीवति । 026a
भार्गवः केवलं चासीद्गवां प्राणायने रतः ॥ 026c
तथा शुश्रूषतस्तस्य गवां हितमवेक्षतः । 027a
व्यतीयात्सुमाहान्कालो वत्सोच्छिष्टेन वर्ततः ॥ 027c
क्षुत्पिपासापरिश्रान्तः सततं प्रस्रवं गवाम् । 028a
वत्सैरुच्छिष्टमुदितं बहुक्षीरतया बहु ॥ 028c
पीतवांस्तेन नामास्य फेनपेत्यभिविश्रुतम् । 029a
गौतमस्याभिनिष्पन्नमेवं नाम युधिष्ठिर ॥ 029c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि विंशत्यधिकशततमोऽध्यायः ॥ 120 ॥

7-120-7 कूलहेति पुराणेष्विति ट. ध. पाठः ॥