श्रीः अध्यायः 119

भीष्मेण युधिष्ठिरम् प्रति इन्द्रस्य वत्सभावेन सुरभ्याः क्षीरपानादमरत्वादिलाभकथनम् ॥ 1 ॥ तथा इन्द्रदिदेवानां वासार्थं सुरभेरनुमत्या तदीयमुखाद्यवयवसमाश्रयणकथनम् ॥ 2 ॥

'युधिष्ठिर उवाच 001
सुरभ्यास्तु तदा देव्याः कीर्तिर्लक्ष्मीः सरस्वती । 001a
मेधा च प्रवरा देवी याश्चतस्रोऽभिविश्रुताः ॥ 001c
पृथग्गोभ्यः किमेताः स्युरुताहो गोषु संश्रिताः । 002a
देवाः के वाऽऽश्रिता गोषु तन्मे ब्रूहि पितामह ॥ 002c
भीष्म उवाच 003
यं देवं संश्रिता गावस्तं देवं देवसञ्ज्ञितम् । 003a
यद्यद्देवाश्रितं दैवं तत्तद्दैवं द्विजा विदुः ॥ 003c
सर्वेषामेव देवानां पूर्वं किल समुद्भवे । 004a
अमृतार्थे सुरपतिः सुरभिं समुपस्थितः ॥ 004c
इन्द्र उवाच 005
इच्छेयममृतं दत्तं त्वया देवि रसाधिकम् । 005a
त्वत्प्रसादाच्छिवं मह्यममरत्वं भवेदिति ॥ 005c
सुरभिरुवाच 006
वत्सो भूत्वा सुरपते पिबस्व प्रस्रवं मम । 006a
ततोऽमरत्वमपि तस्थानमैन्द्रमवाप्स्यसि ॥ 006c
न च ते वृत्रहन्युद्धे व्यथाऽरिभ्यो भविष्यति । 007a
बलार्थमात्मनः शक्र प्रस्रवं पिब मे विभो ॥ 007c
भीष्म उवाच 008
ततोऽपिबत्स्तनं तस्याः सुरभ्याः सुरसत्तमः । 008a
अमरत्वं सुरूपत्वं बलं चापदनुत्तमम् ॥ 008c
पुरन्दरोऽमृतं पीत्वा प्रहृष्टः समुपस्थितः । 009a
पुत्रोऽहं तव भद्रं ते ब्रूहि किं करवाणि ते ॥ 009c
सुरभिरुवाच 010
कृतं पुत्र त्वया सर्वमुपयाहि त्रिविष्टपम् । 010a
पालयस्व सुरान्सर्वाञ्जहि ये सुरशत्रवः ॥ 010c
न च गोब्राह्मणेऽवज्ञा कार्या ते शान्तिमिच्छता । 011a
गोब्राह्मणस्य निश्वासः शोषयेदपि देवताः ॥ 011c
गोब्राह्मणप्रियो नित्यं स्वस्तिशब्दमुदाहरन् । 012a
पृथिव्यामन्तरिक्षे च नाकपृष्ठे च विक्रमेत् ॥ 012c
यच्च तेऽन्यद्भवेत्कृत्यं तन्मे ब्रूयाः समासतः । 013a
तत्ते सर्वं करिष्यामि सत्येनैतद्ब्रवीमि ते ॥ 013c
इन्द्र उवाच 014
इच्छेयं गोषु नियतं वस्तुं देवि ब्रवीमि ते । 014a
एभिः सुरगणैः सार्धं ममानुग्रहमाचर ॥ 014c
सुरभिरुवाच 015
गवां शरीरं प्रत्यक्षमेतत्कौशिक लक्षये । 015a
यो यत्रोत्सहते वस्तुं स तत्र वसतां सुरः ॥ 015c
सर्वं पवित्रं परमं गवां गात्रं सुपूजितम् । 016a
तथा कुरुष्व भद्रं ते यथा त्वं शक्र मन्यसे ॥ 016c
भीष्म उवाच 017
तस्यास्तद्वचनं श्रुत्वा सुरभ्याः सुरसत्तमः । 017a
सह सर्वैः सुरगणैरभजत्सौरभीं प्रजाम् ॥ 017c
शृङ्गे वक्त्रे च जिह्वायां देवराजः समाविशत् । 018a
सर्वच्छिद्रेषु पवनः पादेषु मरुतां गणाः ॥ 018c
ककुदं सर्वगो रुद्रः कुक्षौ चैव हुताशनः । 019a
सरस्वती स्तनेष्वग्र्या श्रीः पुरीषे जगत्प्रिया ॥ 019c
मूत्रे कीर्तिश्च गङ्गा च मेधा पयसि शाश्वती । 020a
वक्त्रे सोमश्च वै देवो हृदये भगवान्यमः ॥ 020c
धर्मः पुच्छे क्रिया लोम्नि भास्करश्चक्षुषी श्रितः । 021a
सिद्धाः सन्धिषु सिद्धिश्च तपस्तेजश्च चेष्टने ॥ 021c
एवं सर्वे सुरगणा नियता गात्रवर्त्मसु । 022a
महती देवता गावो ब्राह्मणैः परिसंस्कृताः ॥ 022c
गामाश्रयन्ति सहिता देवा हि प्रभविष्णवः । 023a
किमासां सर्वभावेन विदध्याद्भगवान्प्रियम् ॥ 023c
भवांश्च परया भक्त्या पूजयस्व नरेश्वर । 024a
गावस्तु परमं लोके पवित्रं पावनं हविः ॥ 024c
निपात्य भक्षितः स्वर्गाद्भार्गवः फेनपः किल । 025a
स च प्राणान्पुनर्लब्ध्वा ततो गोलोकमाश्रितः ॥' 025c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकोनविंशत्यधिकशततमोऽध्यायः ॥ 119 ॥