श्रीः अध्यायः 118
भीष्मेण युधिष्ठिरम् प्रति विस्तरेण गवोत्पत्तिप्रकारकथनम् ॥ 1 ॥
'युधिष्ठिर उवाच 001
सुरभेः काः प्रजाः पूर्वं मार्ताण्डादभवन्पुरा । 001a
एतन्मे शंस तत्वेन गोषु मे प्रीयते मनः ॥ 001c
भीष्म उवाच 002
शृणु नामानि दिव्यानि गोमातॄणां विशेषतः । 002a
याभिर्व्याप्तास्त्रयो लोकाः कल्याणीभिर्जनाधिप ॥ 002c
सुरभ्यः प्रथमोद्भूता याश्च स्युः प्रथमाः प्रजाः । 003a
मयोच्यमानाः शृणु ताः प्राप्स्यसे विपुलं यशः ॥ 003c
तप्त्वा तपो घोरतपाः सुरभिर्दीप्ततेजसः । 004a
सुषावैकादश सुतान्रुद्रा ये च्छन्दसि स्तुताः ॥ 004c
अजैकपादहिर्बुध्न्यस्त्र्यम्बकश्च महायशाः । 005a
वृषाकपिश्च शम्भुश्च कपाली रैवतस्तथा ॥ 005c
हरश्च बहुरूपश्च उग्र उग्रोऽथ वीर्यवान् । 006a
तस्य चैवात्मजः श्रीमान्विश्वरूपो महायशाः ॥ 006c
एकादशैते कथिता रुद्रास्ते नाम नामतः । 007a
महात्मानो महायोगास्तेजोयुक्ता महाबलाः ॥ 007c
एते वरिष्ठजन्मानो देवानां ब्रह्मवादिनाम् । 008a
विप्राणां प्रकृतिर्लोके एत एव हि विश्रुताः ॥ 008c
एत एकादश प्रोक्ता रुद्रास्त्रिभुवनेश्वराः । 009a
शतं त्वेतत्समाख्यातं शतरुद्रं महात्मनाम् ॥ 009c
सुषुवे प्रथमां कन्यां सुरभिः पृथिवीं तदा । 010a
विश्वकामदुघा धेनुर्या धारयति देहिनः ॥ 010c
सुतं गोब्राह्मणं राजन्नेकमित्यभिधीयते । 011a
गोब्राह्मणस्य जननी सुरभिः परिकीर्त्यते ॥ 011c
सृष्ट्वा तु प्रथमं रुद्रान्वरदान्रुद्रसम्भवान् । 012a
पश्चात्प्रभुं ग्रहपतिं सुषुवे लोकसम्मतम् ॥ 012c
सोमराजानममृतं यज्ञसर्वस्वमुत्तमम् । 013a
ओषधीनां रसानां च देवानां जीवितस्य च ॥ 013c
ततः श्रियं च मेधां च कीर्तिं देवीं सरस्वतीम् । 014a
चतस्रः सुषुवे कन्या योगेषु नियताः स्थिताः ॥ 014c
एताः सृष्ट्वा प्रजा एषा सुरभिः कामरूपिणी । 015a
सुषुवे परमं भूयो दिव्या गोमातरः शुभाः ॥ 015c
पुण्यां मायां मधुश्च्योतां शिवां शीघ्रां सरिद्वराम् । 016a
हिरण्यवर्णां सुभगां गव्यां पृश्नीं कुथावतीम् ॥ 016c
अङ्गावतीं घृतवतीं दधिक्षीरपयोवतीम् । 017a
अमोघां सुरसां सत्यां रेवतीं मारुतीं रसाम् ॥ 017c
अजां च सिकतां चैव शुद्धधूमामधारिणीम् । 018a
जीवां प्राणवतीं धन्यां शुद्धां धेनुं धनावहाम् ॥ 018c
इन्द्रामृद्धिं च शान्तिं च शान्तपापां सरिद्वराम् । 019a
चत्वारिंशतिमेकां च धन्यास्ता दिवि पूजिताः ॥ 019c
भूयो जज्ञे सुरभ्याश्च श्रीमांश्चन्द्रांशुसप्रभः । 020a
वृषो दक्ष इति ख्यातः कण्ढे मणितलप्रभः || 020c
स्रग्वी ककुद्मान्द्युतिमान्मृणालसदृशप्रभः । 021a
सुरभ्यनुमते दत्तो ध्वजो माहेश्वरस्तु सः ॥ 021c
सुरभ्यः कामरूपिण्यो गावः पुण्यार्थमुत्कटाः । 022a
आदित्येभ्यो वसुभ्यश्च विश्वेभ्यश्च ददौ वरान् ॥ 022c
सुरभिस्तु तपस्तप्त्वा सुषुवे गास्ततः पुनः । 023a
या दत्ता लोकपालानामिन्द्रादीनां युधिष्ठिर ॥ 023c
सुष्टुतां कपिलां चैव रोहिणीं च यशस्विनीम् । 024a
सर्वकामदुघां चैव मरुतां कामरूपिणीम् ॥ 024c
गावो मृष्टदुघा ह्येतास्ताश्चतस्रोऽत्र संस्तुताः । 025a
यासां भूत्वा पुरा वत्साः पिबन्त्यमृतमुत्तमम् ॥ 025c
सुष्टुतां देवराजाय वासवाय महात्मने । 026a
कपिलां धर्मराजाय वरुणाय च रोहिणीम् ॥ 026c
सर्वकामदुघां धेनुं राज्ञे वैश्रवणाय च । 027a
इत्येता लोकमहिता विश्रुताः सुरभेः प्रजाः ॥ 027c
एतासां प्रजया पूर्णा पृथिवी मुनिपुङ्गवः । 028a
गोभ्यः प्रभवते सर्वं यत्किञ्चिदिह शोभनम् ॥ 028c
सुरभ्यपत्यमित्येतन्नामतस्तेऽनुपूर्वशः । 029a
कीर्तितं ब्रूहि राजेन्द्र किं भूयः कथयामि ते ॥' 029c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि अष्टादशाधिकशततमोऽध्यायः ॥ 118 ॥