श्रीः अध्यायः 117

भीष्मेण युधिष्ठिरम् प्रति गोलोकस्य ब्रह्मलोकादप्युपरितनत्वे ब्रह्मणो वरदानस्य कारणत्वकथनम् ॥ 1 ॥

'*युधिष्ठिर उवाच 001
सुराणामसुराणां च भूतानां च पितामह । 001a
प्रभुः स्रष्टा च भगवान्मुनिभिः स्तूयते भुवि ॥ 001c
तस्योपरि कथं ह्येष गोलोकः स्थानतां गतः । 002a
संशयो मे महानेष तन्मे व्याख्यातुमर्हसि ॥ 002c
भीष्म उवाच 003
मनोवाग्बुद्धयस्तावदेकस्थाः कुरुसत्तम । 003a
ततो मे शृणु कार्त्स्न्येन गोमहाभाग्यमुत्तमम् ॥ 003c
पुण्यं यशस्यमायुष्यं तथा स्वस्त्ययनं महत् । 004a
कीर्तिर्विहरतां लोके गवां यो गोषु भक्तिमान् ॥ 004c
श्रूयते हि पुराणेषु महर्षीणां महात्मनाम् । 005a
संस्थाने सर्वलोकानां देवानां चापि सम्भवे ॥ 005c
देवतार्थेऽमृतार्थे च यज्ञार्थे चैव भारत । 006a
सुरभिर्नाम विख्याता रोहिणी कामरूपिणी ॥ 006c
सङ्कल्प्य मनसा पूर्वं रोहिणी ह्यमृतात्मना । 007a
घोरं तपः समास्थाय निर्मिता विश्वकर्मणा ॥ 007c
पुरुषं चासृजद्भूस्तेजसा तपसा च ह । 008a
देदीप्यमानं वपुषा समिद्धमिव पावकम् ॥ 008c
सोऽपश्यदिष्टरूपां तां सुरभिं रोहिणीं तदा । 009a
दृष्ट्वैव चातिविमनाः सोऽभवत्काममोहितः ॥ 009c
तं कामार्तमथो ज्ञात्वा स्वयम्भूर्लोकभावनः । 010a
माऽऽर्तो भव तथा चैष भगवानभ्यभाषत ॥ 010c
ततः स भगवांस्तत्र मार्ताण्ड इति विश्रुतः । 011a
चकार नाम तं दृष्ट्वा तस्यार्तीभावमुत्तमम् ॥ 011c
सोऽददाद्भगवांस्तस्मै मार्ताण्डाय महात्मने । 012a
सुरूपां सुरभिं कन्यां तपस्तेजोमयीं शुभाम् ॥ 012c
यथा मयैष चोद्भूतस्त्वं चैवैषा च रोहिणी । 013a
मैथुनं गतवन्तौ च तथा चोत्पत्स्यति प्रजा ॥ 013c
प्रजा भविष्यते पुण्या पवित्रं परमं च वाम् । 014a
न चाप्यगम्यागमनाद्दोषं प्राप्स्यसि कर्हिचित् ॥ 014c
त्वत्प्रजासम्भवं क्षीरं भविष्यति परं हविः । 015a
यज्ञेषु चाज्यभागानां त्वत्प्रजामूलजो विधिः ॥ 015c
प्रजाशुश्रूषवश्चैव ये भविष्यन्ति रोहिणि । 016a
तव तेनैव पुण्येन गोलोकं यान्तु मानवाः ॥ 016c
इदं पवित्रं परममृषभं नाम कर्हिचित् । 017a
यद्वै ज्ञात्वा द्विजा लोके मोक्ष्यन्ते योनिसङ्करात् ॥ 017c
एतत्क्रियाः प्रवर्तन्ते मन्त्रब्राह्मणसंस्कृताः । 018a
देवतानां पितॄणां च हव्यकव्यपुरोगमाः ॥ 018c
तत एतेन पुण्येन प्रजास्तव तु रोहिणि । 019a
ऊर्ध्वं ममापि लोकस्य वत्स्यन्ते निरुपद्रवाः ॥ 019c
भद्रं तेभ्यश्च भद्रं ते ये प्रजासु भवन्ति वै । 020a
युगन्धराश्च ते पुत्राः सन्तु लोकस्य धारणे ॥ 020c
यान्यान्कामयसे लोकांस्ताल्ँलोकाननुयास्यसि । 021a
सर्वदेवगणाश्चैव तव यास्यन्ति पुत्रताम् । 021c
तव स्तनसमुद्भूतं पिबन्तोऽमृतमुत्तमम् ॥ 021e
एवमेतान्वरान्सर्वानगृह्णात्सुरभिस्तदा । 022a
ब्रुवतः सर्वलोकेशान्निर्वृतिं चागमत्पराम् ॥ 022c
सृष्ट्वा प्रजाश्च विपुला लोकसन्धारणाय वै । 023a
ब्रह्मणा समनुज्ञाता सुरभिर्लोकमाविशत् ॥ 023c
एवं वरप्रदानेन स्वयम्भोरेव भारत । 024a
उपरिष्टाद्गवां लोकः प्रोक्तस्ते सर्वमादितः ॥' 024c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि सप्तदशाधिकशततमोऽध्यायः ॥ 117 ॥

  • एतदाद्येकादशाध्याया दाक्षिणात्यकोशेष्वेव दृश्यन्ते । 7-117-3 मनोवाग्बुद्धयः मनोवाग्बुद्धीरेकस्थाः कुरु ॥ 7-117-10 आर्तो मा भवेत्यभ्यभाषत ॥