श्रीः अध्यायः 116
भीष्मेण युधिष्ठिरम् प्रति गवां तपःप्रसन्नाद्ब्रह्मणः शृङ्गप्राप्त्यादिकथनम् ॥ 1 ॥ तथा गोदानप्राप्यपुण्यलोकवर्णनम् ॥ 2 ॥
युधिष्ठिर उवाच 001
पवित्राणां पवित्रं यच्छ्रेष्ठं लोके च यद्भवेत् । 001a
पावनं परमं चैव तन्मे ब्रूहि पितामह ॥ 001c
भीष्म उवाच 002
गावो महार्थाः पुण्याश्च तारयन्ति च मानवान् । 002a
धारयन्ति प्रजाश्चेमा हविषा पयसा तथा ॥ 002c
न हि पुण्यतमं किञ्चिद्गोभ्यो भरतसत्तम । 003a
एताः पुण्याः पवित्राश्च त्रिषु लोकेषु सत्तमाः ॥ 003c
देवानामुपरिष्टाच्च गावः प्रतिवसन्ति वै । 004a
दत्त्वा चैतास्तारयते यान्ति स्वर्गं मनीषिणः ॥ 004c
मान्धाता यौवनाश्वश्च ययातिर्नहुषस्तथा । 005a
गा वै ददन्तः सततं सहस्रशतसम्मिताः ॥ 005c
गताः परमकं स्थानं देवैरपि सुदुर्लभम् । 006a
अपि चात्र पुरावृत्तं कथयिष्यामि तेऽनघ ॥ 006c
ऋषीणामुत्तमं धीमान्कृष्णद्वैपायनं शुकः । 007a
अभिवाद्याह्निकं कृत्वा शुचिः प्रयतमानसः ॥ 007c
पितरं परिपप्रच्छ दृष्टलोकपरावरम् । 008a
को यज्ञः सर्वयज्ञानां वरिष्ठोऽभ्युपलक्ष्यते ॥ 008c
किञ्च कृत्वा परं स्थानं प्राप्नुवन्ति मनीषिणः । 009a
केन देवाः पवित्रेण स्वर्गमश्नन्ति वा विभो ॥ 009c
किञ्च यज्ञस्य यज्ञत्वं क्व च यज्ञः प्रतिष्ठितः । 010a
दानानामुत्तमं किञ्च किञ्च सत्रमितः परम् । 010c
पवित्राणां पवित्रं च यत्तद्ब्रूहि महामुने ॥ 010e
एतच्छ्रुत्वा तु वचनं व्यासः परमधर्मवित् । 011a
पुत्रायाकथयत्सर्वं तत्त्वेन भरतर्षभ ॥ 011c
गावः प्रतिष्ठा भूतानां तथा गावः परायणम् । 012a
गावः पुण्याः पवित्राश्च गोधनं पावनं तथा ॥ 012c
पूर्वमासन्नशृङ्गा वै गाव इत्यनुशश्रुम । 013a
शृङ्गार्थे समुपासन्त ताः किल प्रभुमव्ययम् ॥ 013c
ततो ब्रह्मा तु गाः सत्रमुपविष्टाः समीक्ष्य ह । 014a
ईप्सितं प्रददौ ताभ्यो गोभ्यः प्रत्येकशः प्रभुः ॥ 014c
तासां शृङ्गाण्यजायन्त तस्या यादृङ्मनोगतम् । 015a
नानावर्णाः शृङ्गवन्त्यस्ता व्यरोचन्त पुत्रक ॥ 015c
ब्रह्मणा वरदत्तास्ता हव्यकव्यप्रदाः शुभाः । 016a
पुण्याः पवित्राः सुभगा दिव्यसंस्थानलक्षणाः ॥ 016c
गावस्तेजो महद्दिव्यं गवां दानं प्रशस्यते । 017a
ये चैताः सम्प्रयच्छन्ति साधवो वीतमत्सराः ॥ 017c
ते वै सुकृतिनः प्रोक्ताः सर्वदानप्रदाश्च ते । 018a
गवां लोकं तथा पुण्यमाप्नुवन्ति च तेऽनघ ॥ 018c
यत्र वृक्षा मधुफला दिव्यपुष्पफलोपगाः । 019a
पुष्पाणि च सुगन्धीनि दिव्यानि द्विजसत्तम ॥ 019c
सर्वा मणिमयी भूमिः सर्वकाञ्चनवालुकाः । 020a
सर्वर्तुसुखसंस्पर्शा निष्पङ्का निरजाः शुभाः ॥ 020c
रक्तोत्पलवनैश्चैव मणिखण्डैर्हिरण्मयैः । 021a
तरुणादित्यसङ्काशैर्भान्ति तत्र जलाशयाः ॥ 021c
महार्हमणिपत्रैश्च काञ्चनप्रभकेसरैः । 022a
नीलोत्पलविमिश्रैश्च सरोभिर्बहुपङ्कजैः ॥ 022c
करवीरवनैः फुल्लैः सहस्रावर्तसंवृतैः । 023a
सन्तानकवनैः फुल्लैर्वृक्षेश्च समलङ्कृताः ॥ 023c
निर्मिलाभिश्च मुक्ताभिर्मणिभिश्च महाप्रभैः । 024a
उद्भूतपुलिनास्तत्र जातरूपैश्चि निम्नगाः ॥ 024c
सर्वरत्नमयैश्चित्रैरवगाढा द्रुमोत्तमैः । 025a
जातरूपमयैश्चान्यैर्हुताशनसमप्रभैः ॥ 025c
सौवर्णा गिरयस्तत्र मणिरत्नशिलोच्चयाः । 026a
सर्वरत्नमयैर्भान्ति शृङ्गैश्चारुभिरुच्छ्रितैः ॥ 026c
नित्यपुष्पफलास्तत्र नगाः पत्ररथाकुलाः । 027a
दिव्यगन्धरसैः पुष्पैः फलैश्च भरतर्षभ ॥ 027c
रमन्ते पुण्यकर्माणस्तत्र नित्यं युधिष्ठिर । 028a
सर्वकामसमृद्धार्था निःशोका गतमन्यवः ॥ 028c
विमानेषु विचित्रेषु रमणीयेषु भारत । 029a
मोदन्ते पुण्यकर्माणो विरहन्तो यशस्विनः ॥ 029c
उपक्रीडन्ति तान्राजञ्शुभाश्चाप्सरसां गणाः । 030a
एतान्लोकानवाप्नोति गां दत्त्वा वै युधिष्ठिर ॥ 030c
यासामधिपतिः पूषा मारुतो बलवान्बले । 031a
ऐश्वर्ये वरुणो राजा ता मां पान्तु युगन्धराः ॥ 031c
सुरूपा बहुरूपाश्च विश्वरूपाश्च मातरः । 032a
प्राजापत्या इति ब्रह्मञ्जपेन्नित्यं यतव्रतः ॥ 032c
गाश्च शुश्रूषते यश्च समन्वेति च सर्वशः । 033a
तस्मै तुष्टाः प्रयच्छन्ति वरानपि सुदुर्लभान् ॥ 033c
द्रुह्येन्न मनसा वाऽपि गोषु ता हि सुखप्रदाः । 034a
अर्चयेत सदा चैव नमस्कारैश्च पूजयेत् ॥ 034c
दान्तः प्रीतमना नित्यं गवां व्युष्टिं तथाऽश्नुते । 035a
त्र्यहमुष्णं पिबेन्मूत्रं त्र्यहमुष्णं पिबेत्पयः ॥ 035c
गवामुष्णं पयः पीत्वा त्र्यहमुष्णं घृतं पिबेत् । 036a
त्र्यहमुष्णं घृतं पीत्वा वायुभक्षो भवेत्त्र्यहम् ॥ 036c
येन देवाः पवित्रेण भुञ्जते लोकमुत्तमम् । 037a
यत्पवित्रं पवित्राणां तद्घृतं शिरसा वहेत् ॥ 037c
घृतेन जुहुयादग्निं घृतेन स्वस्ति वाचयेत् । 038a
घृतं प्राशेद्घृतं दद्याद्गवां पुष्टिं तथाऽश्नुते ॥ 038c
निर्हृतैश्च यवैर्गोभिर्मासं प्रश्रितयावकः । 039a
ब्रह्महत्यासमं पापं सर्वमेतेन शुध्यते ॥ 039c
पराभवार्थं दैत्यानां देवैः शौचमिदं कृतम् | 040a
ते देवत्वमपि प्राप्ताः संसिद्धाश्च महाबलाः ॥ 040c
गावः पवित्राः पुण्याश्च पावनं परमं महत् । 041a
ताश्च दत्त्वा द्विजातिभ्यो नरः स्वर्गमुपाश्नुते ॥ 041c
गवां मध्ये शुचिर्भूत्वा गोमतीं मनसा जपेत् । 042a
पूताभिरद्भिराचम्य शुचिर्भवति निर्मलः ॥ 042c
अग्निमध्ये गवां मध्ये ब्राह्मणानां च संसदि । 043a
विद्यावेदव्रतस्नाता ब्राह्मणाः पुण्यकर्मिणः ॥ 043c
अध्यापयेरञ्शिष्यान्वै गोमतीं यज्ञसम्मिताम् । 044a
त्रिरात्रोपोषितो भूत्वा गोमतीं लभते वरम् ॥ 044c
पुत्रिकामश्च लभते पुत्रं धनमथापि वा ॥ 045a
पतिकामा च भर्तारं सर्वकामांश्च मानवः ॥ 045c
गावस्तुष्टाः प्रयच्छन्ति सेविता वै न संशयः । 046a
एवमेतां महाभागा यज्ञियाः सर्वकामदाः । 046c
रोहिण्य इति जानीहि नैताभ्यो विद्यते परम् ॥ 046e
इत्युक्तः स महातेजाः शुकः पित्रा महात्मना । 047a
पूजयामास तां नित्यं तस्मात्त्वमपि पूजय ॥ 047c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि षोडशाधिकशततमोऽध्यायः ॥ 116 ॥
7-116-13 अशृङ्गा इत्यखुरा इत्यस्याप्युपलक्षणम् ॥ 7-116-14 गाः प्रायमुपविष्टा इति झ. पाठः ॥ 7-116-27 गनाः वृक्षाः । पत्ररथाः पक्षिणः ॥ 7-116-39 निर्हृतैः गोमयनिर्गतैः ॥ 7-116-44 गोमतीं गोमत्या ऋचा प्रकाशितमर्थं वरं लभते ॥