श्रीः अध्यायः 115

भीष्मेण युधिष्ठिरम् प्रति गोदानफलप्रशंसनपूर्वकं वसिष्ठवचनाद्गोमहिमावगमेन तद्दातुः सौदासस्य पुण्यलोकप्राप्तिकथनम् ॥ 1 ॥

वसिष्ठ उवाच 001
घृतक्षीरप्रदा गावो घृतयोन्यो घृतोद्भवाः । 001a
घृतनद्यो घृतावर्तास्ता मे सन्तु सदा गृहे ॥ 001c
घृतं मे हृदये नित्यं घृतं नाभ्यां प्रतिष्ठितम् । 002a
घृतं सर्वेषु गात्रेषु घृतं मे मनसि स्थितम् ॥ 002c
गावो ममाग्रतो नित्यं गावः पृष्ठत एव च । 003a
गावो मे सर्वतश्चैव गवां मध्ये वसाम्यहम् ॥ 003c
इत्याचम्य जपेत्सायं प्रातश्च पुरुषः सदा । 004a
यदह्ना कुरुते पापं तस्मात्स परिमुच्यते ॥ 004c
प्रासादा यत्र सौवर्णा वसोर्धाराश्च कामदाः । 005a
गन्धर्वाप्सरसो यत्र तत्र यान्ति सहस्रदाः ॥ 005c
नवनीतपङ्काः क्षीरोदा दधिशैवलसङ्कुलाः । 006a
वहन्ति यत्र वै नद्यस्तत्र यान्ति सहस्रदाः ॥ 006c
गवां शतसहस्रं तु यः प्रच्छेद्यथाविधि । 007a
परां वृद्धिमवाप्याथ स्वर्गलोके महीयते ॥ 007c
दश चोभयतः प्रेत्य मातापित्रोः पितामहान् । 008a
दधाति सुकृताल्ँलोकान्पुनाति च कुलं नरः ॥ 008c
धेन्वाः प्रमाणेन समप्रमाणां धेनुं तिलानामपि च प्रदाय । 009a
पानीयवापीः स यमस्य लोके न यातनां काञ्चिदुपैति तत्र ॥ 009c
पवित्रमग्र्यं जगतः प्रतिष्ठा दिवौकसां मातरोऽथाप्रमेयाः । 010a
अन्वालभेद्दक्षिणतो व्रजेच्च दद्याच्च पात्रे प्रसमीक्ष्य कालम् ॥ 010c
धेनुं सवत्सां कपिलां भूरिशृङ्गीं कांस्योपदोहां वसनोत्तरीयाम् । 011a
प्रदाय तां गाहति दुर्विगाह्यां याम्यां सभां वीतभयो मनुष्यः ॥ 011c
सुरूपा बहुरूपाश्च विश्वरूपाश्च मातरः । 012a
गावो मामुपतिष्ठन्तामिति नित्यं प्रकीर्तयेत् ॥ 012c
नातः पुण्यतरं दानं नातः पुण्यतरं फलम् । 013a
नातो विशिष्टं लोकेषु भूतं भवितुमर्हति ॥ 013c
त्वचा लोम्नाऽथ शृङ्गैर्वा वालैः क्षीरेण मेदसा । 014a
यज्ञं वहति सम्भूय किमस्त्यभ्यधिकं ततः ॥ 014c
यया सर्वमिदं व्याप्तं जगत्स्थावरजङ्गमम् । 015a
तां धेनुं शिरसा वन्दे भूतभव्यस्य मातरम् ॥ 015c
गुणवचनसमुच्चयैकदेशो नृवर मयैष गवां प्रकीर्तितस्ते । 016a
न च परमिह दानमस्ति गोभ्यो भवति न चापि परायणं ततोऽन्यत् ॥ 016c
भीष्म उवाच 017
वरमिदमिति भूमिपो विचिन्त्य प्रवरमृषेर्वचनं ततो महात्मा । 017a
व्यसृजत नियतात्मवान्द्विजेभ्यः सुबहु च गोधनमाप्तवांश्च लोकान् ॥ 017c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि पञ्चदशाधिकशततमोऽध्यायः ॥ 115 ॥