श्रीः अध्यायः 114
भीष्मेण युधिष्ठिरम् प्रति गवां चिरचीर्णतपःप्रसादिताच्चतुर्मुखाल्लोकश्रैष्ठ्यपावित्र्यादिवरलाभकथनम् ॥ 1 ॥ तथा गोविशेषदानस्य फलविशेषकथनम् ॥ 2 ॥
वसिष्ठ उवाच 001
शतं वर्षसहस्राणां तपस्तप्तं सुदुष्करम् । 001a
गोभिः पूर्वं विसृष्टाभिर्गच्छेम श्रेष्ठतामिति ॥ 001c
लोकेऽस्मिन्दक्षिणानां च सर्वासां वयमुत्तमाः । 002a
भवेम न च लोप्येम दोषेणेति परन्तप ॥ 002c
अस्मत्पुरीषस्नानेन जनः पूयेत सर्वदा । 003a
शकृता च पवित्रार्थं कुर्वीरन्देवमानुषाः ॥ 003c
तथा सर्वाणि भूतानि स्थावराणि चराणि च । 004a
प्रदातारश्च लोकान्नो गच्छेयुरिति मानद ॥ 004c
ताभ्यो वरं ददौ ब्रह्मा तपसोऽन्ते स्वयं प्रभुः । 005a
एवं भवत्विति विभुर्लोकांस्तारयतेति च ॥ 005c
उत्तस्थुः सिद्धकामास्ता भूतभव्यस्य मातरः । 006a
तपसोऽन्ते महाराज गावो लोकपरायणाः ॥ 006c
तस्माद्गावो महाभागाः पवित्रं परमुच्यते । 007a
तथैव सर्वभूतानां समतिष्ठन्त मूर्धनि ॥ 007c
समानवत्सां कपिलां धेनुं दत्त्वा पयस्विनीम् ॥ 008a
सुव्रतां वस्त्रसंवीतां ब्रह्मलोके महीयते ॥ 008c
लोहितां तुल्यवत्सां तु धेनुं दत्त्वा पयस्विनीम् । 009a
सुव्रतां वस्त्रसंवीतां सूर्यलोके महीयते ॥ 009c
समानवत्सां शबलां धेनुं दत्त्वा पयस्विनीम् । 010a
सुव्रतां वस्त्रसंवीतां सोमलोके महीयते ॥ 010c
समानवत्सां श्वेतां तु धेनुं दत्त्वा पयस्विनीम् । 011a
सुव्रतां वस्त्रसंवीतामिन्द्रलोके महीयते ॥ 011c
समानवत्सां कृष्णां तु धेनुं दत्त्वा पयस्विनीम् । 012a
सुव्रतां वस्त्रसंवीतामग्निलोके महीयते ॥ 012c
समानवत्सां धूम्रां तु धेनुं दत्त्वा पयस्विनीम् । 013a
सुव्रतां वस्त्रसंवीतां याम्यलोके महीयते ॥ 013c
अपां फेनसवर्णां तु सवत्सां कांस्यदोहनाम् । 014a
प्रदाय वस्त्रसंवीतां वारुणं लोकमाप्नुते ॥ 014c
वातरेणुसवर्णां तु सवत्सां कांस्यदोहनाम् । 015a
प्रदाय वस्त्रसंवीतां वायुलोके महीयते ॥ 015c
हिरण्यवर्णां पिङ्गाक्षीं सवत्सां कांस्यदोहनाम् । 016a
प्रदाय वस्त्रसंवीतां कौबेरं लोकमश्नुते ॥ 016c
पलालधूम्रवर्णां तु सवत्सां कांस्यदोहनाम् । 017a
प्रदाय वस्त्रसंवीतां पितृलोके महीयते ॥ 017c
सवत्सां पीवरीं दत्त्वा दृतिकण्ठामलङ्कृताम् । 018a
वैश्वदेवमसम्बाधं स्थानं श्रेष्ठं प्रपद्यते ॥ 018c
समानवत्सां गौरीं तु धेनुं दत्त्वा पयस्विनीम् । 019a
सुव्रतां वस्त्रसंवीतां वसूनां लोकमाप्नुयात् ॥ 019c
पाण्डुकम्बलवर्णाभां सवत्सां कांस्यकदोहनाम् । 020a
प्रदाय वस्त्रसंवीतां साध्यानां लोकमाप्नुते ॥ 020c
वैराटपृष्ठमुक्षाणं सर्वरत्नैरलङ्कृतम् । 021a
प्रददन्मरुतां लोकान्स राजन्प्रतिपद्यते ॥ 021c
वत्सोपपन्नां नीलां गां सर्वरत्नसमन्विताम् । 022a
गन्धर्वाप्सरसां लोकान्दत्त्वा प्राप्नोति मानवः ॥ 022c
दृतिकण्ठमनड्वाहं सर्वरत्नैरलङ्कृतम् । 023a
दत्त्वा प्रजापतेर्लोकान्विशोकः प्रतिपद्यते ॥ 023c
गोप्रदानरतो याति भित्त्वा जलदसञ्चयान् । 024a
विमानेनार्कवर्णेन दिवि राजन्विराजता ॥ 024c
तं चोरुवेषाः सुश्रोण्यः सहस्रं वारयोषितः । 025a
रमयन्ति नरश्रेष्ठं गोप्रदानरतं नरम् ॥ 025c
वीणानां वल्लकीनां च नूपुराणां च शिञ्जितैः । 026a
हासैश्च हरिणाक्षीणां सुप्तः सुप्रतिबोध्यते ॥ 026c
यावन्ति रोमाणि भवन्ति धेन्वास्तावन्ति वर्षाणि महीयते सः । 027a
स्वर्गच्युतश्चापि ततो नृलोके कुले प्रसूतो विपुले विशोकः ॥ 027c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि चतुर्दशाधिकशततमोऽध्यायः ॥ 112 ॥
7-114-1 गच्छामः शृङ्गितामितीति क. ध. पाठः ॥ 7-114-18 दृतिकण्ठां प्रलम्बगलकम्बलाम् । शितिकण्ठामलङ्कृतामिति क. थ. ध. पाठः ॥ 7-114-21 वैराटं वृद्धं पृष्ठं यस्य । वैतानस्थितमुक्षाणमिति क. ध. पाठः ॥