श्रीः अध्यायः 113
भीष्मेण युधिष्ठिरम् प्रति गोमहिमप्रतिपादकवसिष्ठसौदाससंवादानुवादः ॥ 1 ॥
वैशम्पायन उवाच 001
एवमुक्त्वा ततो भीष्मः पुनर्धर्मसुतं नृपम् । 001a
जनमेजयभूपाल उवाचेदं सहेतुकम् ॥ 001c
एतस्मिन्नेव काले तु वसिष्ठमृषिसत्तमम् । 002a
इक्ष्वाकुवंशजो राजा सौदासो वदतां वरः ॥ 002c
सर्वलोकचरं सिद्धं ब्रह्मकोशं सनातनम् । 003a
पुरोहितमभिप्रष्टुमभिवाद्योपचक्रमे ॥ 003c
त्रैलोक्ये भगवन्किंस्वित्पवित्रं कथ्यतेऽनघ । 004a
यत्कीर्तयन्सदा मर्त्यः प्राप्नुयात्पुण्यमुत्तमम् ॥ 004c
भीष्म उवाच 005
तस्मै प्रोवाच वचनं प्रणताय हितं तदा । 005a
गवामुपनिषद्विद्यां नमस्कृत्य गवां शुचिः ॥ 005c
गावः सुरभिगन्धिन्यस्तथा गुग्गुलुगन्धयः । 006a
गावः प्रतिष्ठा भूतानां गावः स्वस्त्ययनं महत् ॥ 006c
गावो भूतं च भव्यं च गावः पुष्टिः सनातनी । 007a
गावो लक्ष्म्यास्तथा मूलं गोषु दत्तं न नश्यति ॥ 007c
अन्नं हि परमं गावो देवानां परमं हविः । 008a
स्वाहाकारवषट्कारौ गोषु नित्यं प्रतिष्ठितौ ॥ 008c
गावो यज्ञस्य हि फलं गोषु यज्ञाः प्रतिष्ठिताः । 009a
गावो भविष्यं भूतं च गोषु यज्ञाः प्रतिष्ठिताः ॥ 009c
सायं प्रातश्च सततं होमकाले महाद्युते । 010a
गावो ददति वै हौम्यमृषिभ्यः पुरुषर्षभ ॥ 010c
यानि कानि च दुर्गाणि दुष्कृतानि कृतानि च । 011a
तरन्ति चैव पाप्मानं धेनुं ये ददति प्रभो ॥ 011c
एकां च दशगुर्दद्याद्दश दद्याच्च गोशती । 012a
शतं सहस्रगुर्दद्यात्सर्वे तुल्यफला हि ते ॥ 012c
अनाहिताग्निः शतगुरयज्वा च सहस्रगुः । 013a
समृद्धो यश्च कीनाशो नार्घमर्हन्ति ते त्रयः ॥ 013c
कपिलां ये प्रयच्छन्ति सवत्सां कांस्यदोहनाम् । 014a
सुव्रतां वस्त्रसंवीतामुभौ लोकौ जयन्ति ते ॥ 014c
युवानमिन्द्रियोपेतं शतेन सहयूथपम् । 015a
गवेन्द्रं ब्राह्मणेन्द्राय भूरिशृङ्गमलङ्कृतम् ॥ 015c
वृषभं ये प्रयच्छन्ति श्रोत्रियाय परन्तप । 016a
ऐश्वर्यं तेऽधिगच्छन्ति जायमानाः पुनःपुनः ॥ 016c
नाकीर्तयित्वा गाःक सुप्यात्तासां संस्मृत्य चोत्पतेत् । 017a
सायं प्रातर्नमस्येच्च गास्ततः पुष्टिमाप्नुयात् ॥ 017c
गवां मूत्रपुरीषस्य नोद्विजेत कथञ्चन । 018a
न चासां मांसमश्नीयाद्गवां पुष्टिं तथाऽऽप्नुयात् ॥ 018c
गाश्च सङ्कीर्तयन्नित्यं नावमन्येत तास्तथा । 019a
अनिष्टं स्वप्नमालक्ष्य गां नरः सम्प्रकीर्तयेत् ॥ 019c
गोमयेन सदा स्नायाद्गोकरीषे च संविशेत् । 020a
श्लोष्ममूत्रपुरीषाणि प्रतिघातं च वर्जयेत् ॥ 020c
सार्द्रे चर्मणि भुञ्जीत निरीक्षेद्वारुणीं दिशम् । 021a
वाग्यतः सर्पिषा भूमौ गवां व्युष्टिं सदाऽऽश्नुते ॥ 021c
घृतेन जुहुयादग्निं घृतेन स्वस्ति वाचयेत् । 022a
घृतं दद्याद्घृतं प्राशेद्गवां व्युष्टिं सदाऽऽश्नुते ॥ 022c
गोमत्या विद्यया धेनुं तिलानामभिमन्त्र्य यः । 023a
सर्वरत्नमयीं दद्यान्न स शोचेत्कृताकृते ॥ 023c
गावो मामुपतिष्ठन्तु हेमशृङ्ग्यः पयोमुचः । 024a
सुरभ्यः सौरभेय्यश्च सरितः सागरं यथा ॥ 024c
गा वै पश्याम्यहं नित्यं गावः पश्यन्तु मां सदा । 025a
गावोस्माकं वयं तासां यतो गावस्ततो वयम् ॥ 025c
एवं रात्रौ दिवा चापि समेषु विषमेषु च । 026a
महाभयेषु च नरः कीर्तयन्मुच्यते भयात् ॥ 026c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि त्रयोदशाधिकशततमोऽध्यायः ॥ 113 ॥
7-113-13 कीनाशः कर्षकः कृपणो वा । अर्घं पूजाम् ॥ 7-113-21 सौम्ये चर्मणीति ध. पाठः ॥ 7-113-23 गोमाँ अग्नेविमाँ अश्वीति मन्त्रो गोमती ॥