श्रीः अध्यायः 112
भीष्मेण युधिष्ठिरम् प्रति गोसामान्योत्पत्तिप्रकारकथनपूर्वकं कपिलोत्पत्तिप्रकारकथनम् ॥ 1 ॥
वैशम्पायन उवाच 001
ततो युधिष्ठिरे राजा भूयः शान्तनवं नृपम् । 001a
गोदानविस्तरं धीमान्पप्रच्छ विनयान्वितः ॥ 001c
गोप्रदानगुणान्सम्यक् पुनर्मे ब्रूहि भारत । 002a
न हि तृप्याम्यहं वीर शृण्वानोऽमृतमीदृशम् ॥ 002c
इत्युक्तो धर्मराजेन तदा शान्तनवो नृपः । 003a
सम्यगाह गुणांस्तस्मै गोप्रदानस्य केवलान् ॥ 003c
भीष्म उवाच 004
वत्सलां गुणसम्पन्नां तरुणीं वस्त्रसंयुताम् । 004a
दत्त्वेदृशीं गां विप्राय सर्वपापैः प्रमुच्यते ॥ 004c
असुर्या नाम ते लोका गां दत्त्वा तान्न गच्छति । 005a
पीतोदकां जग्धतृणां नष्टक्षीरां निरिन्द्रियाम् || 005c
जरारोगोपसम्पन्नां जीर्णां वापीमिवाजलाम् । 006a
दत्त्वा तमः प्रविशति द्विजं क्लेशेन योजयेत् ॥ 006c
रुष्टा दुष्टा व्याधिता दुर्बला वा नो दातव्या याश्च मूल्यैरदत्तैः । 007a
क्लेशैर्विप्रं योऽफलैः संयुनक्ति तस्याऽवीर्याश्चाफलाश्चैव लोकाः ॥ 007c
बलान्विताः शीलवीर्योपपन्नाः सर्वे प्रशंसन्ति सुगन्धवत्यः । 008a
यथा हि गङ्गा सरितां वरिष्ठा तथाऽर्जुनीनां कपिला वरिष्ठा ॥ 008e
युधिष्ठिर उवाच 009
कस्मात्समाने बहुलाप्रदाने सद्भिः प्रशस्तं कपिलाप्रदानम् । 009a
विशेषमिच्छामि महाप्रभावं श्रोतुं समर्थोस्मि भवान्प्रवक्तुम् ॥ 009c
भीष्म उवाच 010
वृद्धानां ब्रुवतां श्रुत्वा कपिलानामथोद्भवम् । 010a
वक्ष्यामि तदशेषेण रोहिण्यो निर्मिता यथा ॥ 010c
प्रजाः सृजेति चादिष्टः पूर्वं दक्षः स्वयम्भुवा । 011a
नासृजद्वृत्तिमेवाग्रे प्रजानां हितकाम्यया ॥ 011c
यथा ह्यमृतमाश्रित्य वर्तयन्ति दिवौकसः । 012a
तथा वृत्तिं समाश्रित्य वर्तयन्ति प्रजा विभो ॥ 012c
अचरेभ्यश्च भूतेभ्यश्चराः श्रेष्ठास्ततो नराः । 013a
ब्राह्मणाश्च ततः श्रेष्ठास्तेषु यज्ञाः प्रतिष्ठिताः ॥ 013c
यज्ञैराप्यायते सोमः स च गोषु प्रतिष्ठितः । 014a
ताभ्यो देवाः प्रमोदन्ते प्रजानां वृत्तिरासु च ॥ 014c
ततः प्रजासु सृष्टासु दक्षाद्यैः क्षुधिताः प्रजाः । 015a
प्रजापतिमुपाधावन्विनिश्चित्य चतुर्मुखम् ॥ 015c
प्रजातान्येव भूतानि प्राक्रोशन्वृत्तिकाङ्क्षया । 016a
वृत्तिदं चान्वपद्यन्त तृषिताः पितृमातृवत् ॥ 016c
इतीदं मनसा गत्वा प्रजासर्गार्थमात्मनः । 017a
प्रजापतिर्बलाधानममृतं प्रापिबत्तदा । 017c
शंसतस्तस्य तृप्तिं तु गन्धात्सुरभिरुत्थिता ॥ 017e
मुखजा साऽसृजद्धातुः सुरभिर्लोकमातरम् । 018a
दर्शनीयरसं वृत्तिं सुरभिं मुखजां सुताम् ॥ 018c
साऽसृजत्सौरभेयीस्तु सुरभिर्लोकमातृकाः । 019a
सुवर्णवर्णाः कपिलाः प्रजानां वृत्तिधेनवः ॥ 019c
तासाममृतवृत्तीनां क्षरन्तीनां समन्ततः । 020a
बभूवामृतजः फेनः स्रवन्तीनामिवोर्मिजः ॥ 020c
स वत्समुखविभ्रष्टो भवस्य भुवि तिष्ठतः । 021a
शिरस्यवापतत्क्रुद्धः स तदैक्षत च प्रभुः । 021c
ललाटप्रभवेणाक्ष्णा रोहिणीं प्रदहन्निव ॥ 021e
तत्तेजस्तु ततो रौद्रं कपिलां गां विशाम्पते । 022a
नानावर्णत्वमनयन्मेघानिव दिवाकरः ॥ 022c
यास्तु तस्मादपक्रम्य सोममेवाभिसंश्रिताः । 023a
यथोत्पन्नाः स्ववर्णस्था न नीताश्चान्यवर्णताम् ॥ 023c
अथ क्रुद्धं महादेवं प्रजापतिरभाषत । 024a
अमृतेनावसिक्तस्त्वं नोच्छिष्टं विद्यते गवाम् ॥ 024c
यथा ह्यमृतमादाय सोमो विष्यन्दते पुनः । 025a
तथा क्षीरं क्षरन्त्येता रोहिण्योऽमृतसम्भवाः ॥ 025c
न दुष्यत्यनिलो नाग्निर्न सुवर्णं न चोदधिः । 026a
नामृतेनामृतं पीतं न वत्सैर्दुष्यते पयः ॥ 026c
इमाल्ँलोकान्भरिष्यन्ति हविषा प्रस्रवेण च । 027a
आसामैश्वर्यमिच्छन्ति सर्वेऽमृतमयं शुभम् ॥ 027c
वृषभं च ददौ तस्मै भगवाल्ँलोकभावनः । 028a
प्रसादयामास मनस्तेन रुद्रस्य भारत ॥ 028c
प्रीतश्चापि महादेवश्चकार वृषभं तदा । 029a
ध्वजं च वाहनं चैव तस्मात्स वृषभध्वजः ॥ 029c
ततो देवैर्महादेवस्तदा पशुपतिः कृतः । 030a
ईश्वरः स गवां मध्ये वृषभाङ्कः प्रकीर्तितः ॥ 030c
एवमव्यग्रवर्णानां कपिलानां महौजसाम् । 031a
प्रदाने प्रथमः कल्पः सर्वासामेव कीर्तितः ॥ 031c
लोकज्येष्ठा लोकवृत्तिप्रवृत्ता रुद्रोद्भूताः सोमविष्यन्दभूताः । 032a
सौम्याः पुण्याः कामदाः प्राणदाश्च गा वै दत्त्वा सर्वकामप्रदः स्यात् ॥ 032c
इदं गवां प्रभवविधानमुत्तमं पठन्सदा शुचिरपि मङ्गलप्रियः । 033a
विमुच्यते कलिकलुषेण मानवः प्रियान्सुतान्धनपशुमाप्नुयात्सदा ॥ 033c
हव्यं कव्यं तर्पणं शान्तिकर्म यानं वासो वृद्धबालस्य तुष्टिः । 034a
एतान्सर्वान्गोप्रदाने गुणान्वै दाता राजन्नाप्नुयाद्वै सदैव ॥ 034c
वैशम्पायन उवाच 035
पितामहस्याथ निशम्य वाक्यं राजा सह भ्रातृभिराजमीढः । 035a
सुवर्णवर्णानडुहस्तथा गाः पार्थो ददौ ब्राह्मणसत्तमेभ्यः ॥ 035c
तथैव तेभ्योपि ददौ द्विजेभ्यो गवां सहस्राणि शतानि चैव । 036a
यज्ञान्समुद्धिश्य च दक्षिणार्थे लोकान्विजेतुं परमां च कीर्तिम् ॥ 036c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि द्वादशाधिकशततमोऽध्यायः ॥ 112 ॥
7-112-6 अनन्ता नाम ते लोका गां दत्त्वा यत्र गच्छतीति थ. ध. पाठः ॥ 7-112-11 पीतोदकां त्यक्ततृणामिति थ. ध. पाठः ॥ 7-112-20 असृजद्वृत्तिमेवाग्र इति झ. पाठः ॥ 7-112-23 स्रवन्तीनां नदीनाम् ॥ 7-112-26 ता ह्येता नान्यवर्णगा इति ट. थ. ध. पाठः ॥ 7-112-35 न सुवर्णं घृतं दधीति थ. पाठः ॥