श्रीः अध्यायः 111

भीष्मेण युधिष्ठिरम् प्रति गोदानविधिफलादिकथनम् ॥ 1 ॥

युधिष्ठिर उवाच 001
विधिं गवां परं श्रोतुमिच्छामि नृप तत्त्वतः । 001a
येन ताञ्शाश्वताल्ँलोकानर्थिनां प्राप्नुयादिह ॥ 001c
भीष्म उवाच 002
न गोदानात्परं किञ्चिद्विद्यते वसुधाधिप । 002a
गौर्हि न्यायागता दत्ता सद्यस्तारयते कुलम् ॥ 002c
सतामर्थे सम्यगुत्पादितो यः स वै क्लृप्तः सम्यगाभ्यः प्रजाभ्यः । 003a
तस्मात्पूर्वं ह्यादिकालप्रवृत्तं गोदानार्थं शृणु राजन्विधिं मे ॥ 003c
पुरा गोष्ठे निलीनासु गोषु सन्दिग्धदर्शिना । 004a
मान्धात्रा प्रकृतं प्रश्नं बृहस्पतिरभाषत ॥ 004c
द्विजानामन्त्र्य सत्कृत्य प्रोक्तं कालमुपोष्य च । 005a
गोदानार्थे प्रयुञ्जीत रोहिणीं नियतव्रतः ॥ 005c
आह्वानं च प्रयुञ्जीत समङ्गे बहुलेति च । 006a
प्रविश्य च गवां मध्यमिमां श्रुतिमुदाहरेत् ॥ 006c
गौर्मे माता वृषभः पिता मे दिवं गर्भं जगती मे प्रतिष्ठा । 007a
प्रपद्यैवं शर्वरीमुष्य गोषु पुनर्वाणीमुत्सृजेद्गोप्रदाने ॥ 007c
स तामेकां निशां गोभिः समसख्यः समव्रतः । 008a
ऐकात्म्यगमनात्सद्यः कलुषाद्विप्रमुच्यते ॥ 008c
उत्सृष्टवृषवत्सा हि प्रदेया सूर्यदर्शने । 009a
त्रिदिवं प्रतिपत्तव्यमर्थवादाशिषस्तव ॥ 009c
ऊर्जस्विन्य ऊर्जमेधाश्च यज्ञे गर्भोऽमृतस्य जगतश्च प्रतिष्ठा । 010a
क्षिते रोहः प्रवहः शश्वदेव प्राजापत्याः सर्वमित्यर्थवादाः ॥ 010c
गावो ममैनः प्रणुदन्तु सौर्यास्तथा सौम्याः स्वर्गयानाय सन्तु । 011a
आत्मानं मे मातृवच्चाश्रयन्तु तथाऽनुक्ताः सन्तु सर्वाशिषो मे ॥ 011c
शोषोत्सर्गे कर्मभिर्देहमोक्षे सरस्वत्यः श्रेयसे सम्प्रवृत्ताः । 012a
यूयं नित्यं सर्वपुण्योपवाह्यां दिशध्वं मे गतिमिष्टां प्रसन्नाः ॥ 012c
या वै यूयं सोऽहमद्यैव भावो युष्मान्दत्त्वा चाहमात्मप्रदाता । 013a
मनश्च्युता मन एवोपपन्नाः सन्धुक्षध्वं सौम्यरूपाग्र्यदेहाः ॥ 013c
दानस्याग्रे पूर्वमेतद्वदेत गवां दाता विधिवत्पूर्वदृष्टम् । 014a
प्रतिब्रूयाच्छेषमर्धन्द्विजातिः प्रतिगृह्णन्वै गोप्रदाने विधिज्ञः ॥ 014c
गां ददानीति वक्तव्यमर्घ्यमुत्सृज्य सुव्रतः । 015a
ऊढव्या भरितव्या च वैष्णवीति च चोदयेत् ॥ 015c
नाम सङ्कीर्तयेत्तस्या यथासङ्ख्योत्तरं स वै । 016a
फलं षट्त्रिंशदष्टौ च सहस्राणि च विंशतिः ॥ 016c
एवमेतान्गुणान्विद्याद्गवादीनां यथाक्रमम् । 017a
गोप्रदाता समाप्नोति समस्तानष्टमे क्रमे ॥ 017c
गोदः शीली निर्भयश्चार्घदाता न स्याद्दुःखी वसुदाता च कामम् । 018a
उषस्योढा भारते यश्च विद्वान्विख्यातास्ते वैष्णवाश्चन्द्रलोकाः ॥ 018c
गा वै दत्त्वा गोव्रती स्यात्त्रिरात्रं निशां चैकां संवसेतेह ताभिः । 019a
काम्याष्टम्यां वर्तितव्यं त्रिरात्रं रसैर्वा गोः शकृता प्रस्रवैर्वा ॥ 019c
देवव्रती स्याद्वृषभप्रदाने वेदावाप्तिर्गोयुगस्य प्रदाने । 020a
तथा गवां विधिमासाद्य यज्वा लोकानग्र्यान्विन्दते गोविधिज्ञः ॥ 020c
कामान्सर्वान्पार्थिवानेकसंस्थान्यो वै दद्यात्कामदुघां च धेनुम् । 021a
सम्यक्ताः स्युर्हव्यकव्यौघवत्यस्तासामुक्ष्णां ज्यायसां सम्प्रदानम् ॥ 021c
न चाशिष्यायाव्रतायोपकुर्यान्नाश्रद्दधानाय न वक्रबुद्धये । 022a
गुह्यो ह्ययं सर्वलोकस्य धर्मो नेमं धर्मं यत्र तत्र प्रजल्पेत् ॥ 022c
सन्ति लोके श्रद्दधाना मनुष्याः सन्ति क्षुद्रा राक्षसमानुषेषु । 023a
एषामेतद्दीयमानं ह्यनिष्टं ये नास्तिक्यं चाश्रयन्तेऽल्पपुण्याः ॥ 023c
बार्हस्पत्यं वाक्यमेतन्निशम्य ये राजानो गोप्रदानानि दत्त्वा । 024a
लोकान्प्राप्ताः पुण्यशीलाः प्रवृत्तास्तान्मे राजन्कीर्त्यमानान्निबोध ॥ 024c
उशीनरो विश्वगश्वो नृगश्च भगीरथो विश्रुतो यौवनाश्वः । 025a
मान्धाता वै मुचुकुन्दश्च राजा भूरिद्युम्नो नैषधः सोमकश्च ॥ 025c
पुरूरवा भरतश्चक्रवर्ती यस्यान्ववाये भरताः सर्व एव । 026a
तथा वीरो दाशरथिश्च रामो ये चाप्यन्ये विश्रुताः कीर्तिमन्तः ॥ 026c
तथा राजा पृथुकर्मा दिलीपो दिवं प्राप्तो गोप्रदानैर्विधिज्ञः । 027a
यज्ञैर्दानैस्तपसा राजधर्मैर्मान्धाताऽभूद्गोप्रदानैश्च युक्तः ॥ 027c
तस्मात्पार्थ त्वमपीमां मयोक्तां बार्हस्पतीं भारतीं धारयस्व । 028a
द्विजाग्र्येभ्यः सम्प्रयच्छस्व प्रीतो गाः पुण्या वै प्राप्य राज्यं कुरूणाम् ॥ 028c
वैशम्पायन उवाच 029
तथा सर्वं कृतवान्धर्मराजो भीष्मेणोक्तो विधिवद्गोप्रदाने | 029a
स मान्धातुर्वेद देवोपदिष्टं सम्यग्धर्मं धारयामास राजा ॥ 029c
इति नृप सततं गवां प्रदाने यवशकलान्सह गोमयैः पिबानः । 030a
क्षितितलशयनः शिखी यतात्मा वृष इव राजवृषस्तदा बभूव ॥ 030c
नरपतिरभवत्सदैव ताभ्यः प्रयतमनास्त्वभिसंस्तुवंश्च गा वै । 031a
नृपतिधुरि च गामयुक्त भूपस्तुरगवरैरगमच्च यत्र तत्र ॥ 031c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकादशाधिकशततमोऽध्यायः ॥ 111 ॥

7-111-3 यो विधिरुत्पादितः । सम्यगिज्याः प्रजाभ्य इति थ. ध. पाठः ॥ 7-111-5 द्विजातिमतिसत्कृत्य श्वः कालमभिवेद्य चेति झ. पाठः । रोहिणीं लोहितवर्णाम् ॥ 7-111-8 समसङ्ख्यो गा अनिवारयन् । समव्रतः भूतलशायित्वदंशाद्यनिवारकत्वादिगुणयुक्तः ॥ 7-111-9 उत्सृष्टः वृषवत्सो यया सार्धं सा उत्सृष्टवृषवत्सा । त्वया प्रदेया त्रिदिवं च प्रतिपत्तव्यं गन्तव्यम् । अर्थवादमन्त्रोक्ता आशिषश्च तव भविष्यन्तीति योज्यम् ॥ 7-111-10 आशिषमेवाह ऊर्जस्विन्य इति । बलवत्य उत्साहवत्यो वा ऊर्जस्विन्यः । ऊर्जमेधा उपगतप्रज्ञाः । यज्ञे अमृतस्य तत्साधनस्य हविषो गर्भ इव गर्भः क्षेत्रभूताः । क्षितेः ऐश्वर्यस्य रोहः । शश्वत् शाश्वतः क्षितेः प्रहवः प्रवाहरूपाश्च । प्राजापत्यः सर्वविद्याप्रवाद इति थ. ध. पाठः ॥ 7-111-11 अनुक्ताः मन्त्रद्वयेन उक्ता आशिषो मे सन्तु । आम्नातायामनधीताः श्रयन्तु इति थ. पाठः ॥ 7-111-12 शोषोत्सर्गे क्षयरोगोपतापापनये क्षयरोगादिनिवृत्तौ देहमोक्षे च कर्मभिः पञ्चगव्यादिभिः सेविताः सत्यः सरस्वत्यो नद्य इव श्रेयसे सम्प्रवृत्ताः ॥ 7-111-13 मनश्च्युताः दातुर्ममत्वाभिमानाच्च्युताः । मनएव उपपन्नाः मदीयममतास्पदीभूताः । सन्धुक्षध्वं दातारं मां च इष्टैर्भोगैः प्रकाशयध्वम् ॥ 7-111-18 गवादीनां गोप्रतिनिधीनां एव तत्फलम् । प्रत्यक्षगोदाने गोप्रतिग्रहीतुर्गृहं गच्छन्त्या अष्टमे पदे भवन्ति किमु तद्गृहगमनादिष्विति भावः । गुणान्वृद्धान्भावनीयं यथाक्रममिति थ. ध. पाठः । शीली शीलवान् अर्घदाता निर्भय इति सम्बन्धः । उषस्यं प्रातःस्नानादिकर्म ऊढं प्राप्तं यैः । भारते विद्वान् भारतवेत्ता । वैष्णवाः विष्णुभक्ताः । चन्द्रवत् लोक आलोको येषाम् एव विख्याताः कथिताः ॥ 7-111-21 एकसंस्थान् एकीकृतान् । तासां ताभ्योऽधिकमिति शेषः । उक्ष्णां वृषभाणाम् ॥ 7-111-22 उपकुर्यात् एतत्कथनेन ॥