श्रीः अध्यायः 110 भीष्मेण युधिष्ठिरम् प्रति सत्यदमादिप्रशंसनम् ॥ 1 ॥

युधिष्ठिर उवाच 001
विस्रम्भितोऽहं भवता धर्मान्प्रवदता विभो । 001a
प्रवक्ष्यामि तु सन्देहं तन्मे ब्रूहि पितामह ॥ 001c
व्रतानां किं फलं प्रोक्तं कीदृशं वा महाद्युते । 002a
नियमानां फलं किं च स्वधीतस्य च किं फलम् ॥ 002c
दमस्येह फलं किं च वेदानां धारणे च किम् । 003a
अध्यापने फलं किं च सर्वमिच्छामि वेदितुम् ॥ 003c
अप्रतिग्राहके किं च फलं लोके पितामह । 004a
तस्य किञ्च फलं दृष्टं श्रुतं यस्तु प्रयच्छति ॥ 004c
स्वकर्मनिरतानां च शूराणां चापि किं फलम् । 005a
सत्ये च किं फलं प्रोक्तं ब्रह्मचर्ये च किं फलम् । 005c
पितृशुश्रूषणे किञ्च मातृशुश्रूषणे तथा । 006a
आचार्यगुरुशुश्रूषा स्वनुक्रोशानुकम्पने ॥ 006c
एतत्सर्वमशेषेण पितामह यथातथम् । 007a
वेत्तुमिच्छामि धर्मज्ञ परं कौतूहलं हि मे ॥ 007c
भीष्म उवाच 008
यो व्रतं वै यथोद्दिष्टं तथा सम्प्रतिपद्यते । 008a
अखण्डं सम्यगारभ्य तस्य लोकाः सनातनाः ॥ 008c
नियमानां फलं राजन्प्रत्यक्षमिह दृश्यते । 009a
नियमानां क्रतूनां च त्वयाऽवाप्तमिदं फलम् ॥ 009c
स्वधीतस्यापि च फलं दृश्यतेऽमुत्र चेह च । 010a
इह लोकेऽर्थवान्नित्यं ब्रह्मलोके च मोदते ॥ 010c
दमस्य तु फलं राजञ्शृणु त्वं विस्तरेण मे । 011a
दान्ताः सर्वत्र सुखिनो दान्ताः सर्वत्र निर्वृताः । 011c
यत्रेच्छागामिनो दान्ताः सर्वशत्रुनिषूदनाः ॥ 011e
प्रार्थयन्ति च यद्दान्ता लभन्ते तन्न संशयः । 012a
युज्यन्ते सर्वकामैर्हि दान्ताः सर्वत्र पाण्डव ॥ 012c
स्वर्गे यथा प्रमोदन्ते तपसा विक्रमेण च । 013a
दानैर्यज्ञैश्च विविधैस्तथा दान्ताः क्षमान्विताः ॥ 013c
दानाद्दमो विशिष्टो हि ददत्किञ्चिद्द्विजातये । 014a
दाता कुप्यति नो दान्तस्तस्माद्दानात्परन्दमः ॥ 014c
यस्तु दद्यादकुप्यन्हि तस्य लोकाः सनातनाः । 015a
क्रोधो हन्ति हि यद्दानं तस्माद्दानाद्वरो दमः ॥ 015c
अदृश्यानि महाराज स्थानान्ययुतशो दिवि । 016a
ऋषीणां सर्वलोकेषु यानि ते यान्ति देवताः ॥ 016c
दमेन यानि नृपते गच्छन्ति परमर्षयः । 017a
कामयाना महत्स्थानं तस्माद्दानात्परं दमः ॥ 017c
'विद्यादानाद्वरं नास्ति वेदविद्या महाफलाः ।' 018a
अध्यापकः परिक्लेशादक्षयं फलमश्नुते ॥ 018c
विधिवत्पावकं हुत्वा ब्रह्मलोके नराधिप । 019a
अधीत्यापि हि यो वेदान्न्यायविद्भ्यः प्रयच्छति । 019c
गुरुकर्मप्रशंसी तु सोपि स्वर्गे महीयते ॥ 019e
क्षत्रियोऽध्ययने युक्तो यजने दानकर्मणि । 020a
युद्धे यश्च परित्राता सोपि स्वर्गे महीयते ॥ 020c
वैश्यः स्वकर्मनिरतः प्रदानाल्लभते महत् । 021a
शूद्रः स्वकर्मनिरतः स्वर्गं शुश्रूषयाऽऽर्च्छति ॥ 021c
शूरा बहुविधाः प्रोक्तास्तेषामर्थास्तु मे शृणु । 022a
शूरान्वयानां निर्दिष्टं फलं शूरस्य चैव हि ॥ 022c
यज्ञशूरा दमे शूराः सत्यशूरास्तथा परे । 023a
युद्धशूरास्तथैवोक्ता दानशूराश्च मानवाः ॥ 023c
'बुद्धिशूरास्तथैवान्ये क्षमाशूरास्तथा परे ।' 024a
साङ्ख्यशूराश्च बहवो योगशूरास्तथा परे । 024c
अरण्ये गृहवासे च त्यागे शूरास्तथा परे ॥ 024e
आर्जवे च तथा शूराः शमे वर्तन्ति मानवाः । 025a
तैस्तैश्च नियमैः शूरा बहवः सन्ति चापरे । 025c
वेदाध्ययनशूराश्च शूराश्चाध्यापने रताः ॥ 025e
गुरुशुश्रूषया शूराः पितृशुश्रूषया परे । 026a
मातृशुश्रूषया शूरा भैक्ष्यशूरास्तथा परे ॥ 026c
अरण्ये गृहवासे च शूराश्चातिथिपूजने । 027a
सर्वे यान्ति पराल्ँलोकान्स्वकर्मफलनिर्जितान् ॥ 027c
धारणं सर्ववेदानां सर्वतीर्थावगाहनम् । 028a
सत्यं च ब्रुवतो नित्यं समं वा स्यान्नवा समम् ॥ 028c
अश्वमेधसहस्रं च सत्यं च तुलया धृतम् । 029a
अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते ॥ 029c
सत्येन सूर्यस्तपति सत्येनाग्निः प्रदीप्यते । 030a
सत्येन मरुतो वान्ति सर्वं सत्ये प्रतिष्ठितम् ॥ 030c
सत्येन देवाः प्रीयन्ते पितरो ब्राह्मणास्तथा । 031a
सत्यमाहुः परो धर्मस्तस्मात्सत्यं न लोपयेत् ॥ 031c
मुनयः सत्यनिरता मुनयः सत्यविक्रमाः । 032a
मुनयः सत्यशपथास्तस्मात्सत्यं विशिष्यते ॥ 032c
सत्यवन्तः सत्यलोके मोदन्ते भरतर्षभ । 033a
दमः सत्यफलावाप्तिरुक्ता सर्वात्मना मया ॥ 033c
असंशयं विनीतात्मा स वै स्वर्गे महीयते । 034a
ब्रह्मचर्यस्य च गुणं शृणु त्वं वसुधाधिप ॥ 034c
आजन्ममरणाद्यस्तु ब्रह्मचारी भवेदिह । 035a
न तस्य किञ्चिदप्राप्यमिति विद्धि नराधिप ॥ 035c
बह्व्यः कोट्यस्त्वृषीणां तु ब्रह्मलोके वसन्त्युत | 036a
सत्ये रतानां सततं दान्तानामूर्ध्वरेतसाम् ॥ 036c
ब्रह्मचर्यं दहेद्राजन्सर्वपापान्युपासितम् । 037a
ब्राह्मणेन विशेषेण ब्राह्मणो ह्यग्निरुच्यते ॥ 037c
प्रत्यक्षं हि तथा ह्येतद्ब्राह्मणेषु तपस्विषु । 038a
बिभेति हि यथा शक्रो ब्रह्मचारिप्रधर्षितः ॥ 038c
तद्ब्रह्मचर्यस्य फलमृषीणामिह दृश्यते । 039a
मातापित्रोः पूजने यो धर्मस्तमपि मे शृणु ॥ 039c
शुश्रूषते यः पितरं न चासूयेत्कदाचन । 040a
मातरं भ्रातरं वाऽपि गुरुमाचार्यमेव च ॥ 040c
तस्य राजन्फलं विद्धि स्वर्लोके स्थानमर्चितम् । 041a
न च पश्येत नरकं गुरुशुश्रूषयाऽऽत्मवान् ॥ 041c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि दशाधिकशततमोऽध्यायः ॥ 110 ॥

7-110-6 अनुक्रोशः परदुःखेन दुःखितत्वम् । अनुकम्पा तत्प्रतीकारकरणम् ॥ 7-110-9 फलमैश्वर्यमेव प्रत्यक्षम् ॥