श्रीः अध्यायः 109 भीष्मेण युधिष्ठिरम् प्रति ब्रह्मणा इन्द्रायोक्तगोविक्रयापहारफलानुवादः ॥ 1 ॥ तथा सुवर्णस्य गोदाने दक्षिणात्वप्रशंसनानुवादः ॥ 2 ॥

इन्द्र उवाच 001
जानन्यो गामपहरेद्विक्रीयाच्चार्थकारणात् । 001a
एतद्विज्ञातुमिच्छामि कानु तस्य गतिर्भवेत् ॥ 001c
पितामह उवाच 002
भक्तार्थं विक्रयार्थं वा येऽपहारं हि कुर्वते । 002a
दानार्थं ब्राह्मणार्थाय तत्रेदं श्रूयतां फलम् ॥ 002c
विक्रयार्थं हि यो हिंस्याद्भक्षयेद्वा निरङ्कुशः । 003a
घातयानं हि पुरुषं येऽनुमन्येयुरर्थिनः ॥ 003c
घातकः खादको वाऽपि तथा यश्चानुमन्यते । 004a
यावन्ति तस्या रोमाणि तावद्वर्षाणि मज्जति ॥ 004c
ये दोषा यादृशाश्चैव द्विजयज्ञोपघातके । 005a
विक्रये चापहारे च ते दोषा वै स्मृता गवाम् ॥ 005c
अपहृत्य तु यो गां वै ब्राह्मणाय प्रयच्छति । 006a
यावद्दाने फलं तस्यास्तावन्निरयमृच्छति || 006c
सुवर्णं दक्षिणामाहुर्गोप्रदाने महाद्युते । 007a
सुवर्णं परमित्युक्तं दक्षिणार्थमसंशयम् ॥ 007c
गोप्रदानात्तारयते सप्त पूर्वांस्तथाऽपरान् । 008a
सुवर्णं दक्षिणां कृत्वा तावद्द्विगुणमुच्यते ॥ 008c
सुवर्णं परमं दानं सुवर्णं दक्षिणा परा । 009a
सुवर्णं पावनं शक्र पावनानां परं स्मृतम् ॥ 009c
कुलानां पावनं प्राहुर्जातरूपं शतक्रतो । 010a
एषा मे दक्षिणा प्रोक्ता समासेन महाद्युते ॥ 010c
भीष्म उवाच 011
एतत्पितामहेनोक्तमिन्द्राय भरतर्षभ । 011a
इन्द्रो दशरथायाह रामायाह पिता तथा ॥ 011c
राघवोपि प्रियभ्रात्रे लक्ष्मणाय यशस्विने । 012a
ऋषिभ्यो लक्ष्मणेनोक्तमरण्ये वसता प्रभो ॥ 012c
पारम्पर्यागतं चेदमृषयः संशितव्रताः । 013a
दुर्धरं धारयामासू राजानश्चैव धार्मिकाः ॥ 013c
उपाध्यायेन गदितं मम चेदं युधिष्ठिर ॥ 014ac
य इदं ब्राह्मणो नित्यं वदेद्ब्राह्मणसंसदि । 015a
यज्ञेषु गोप्रदानेषु द्वयोरपि समागमे ॥ 015c
तस्य लोकाः किलाक्षय्या दैवतैः सह नित्यदा । 016a
इति ब्रह्मा स भगवानुवाच परमेश्वरः ॥ 016c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि नवाधिकशततमोऽध्यायः ॥ 109 ॥

7-109-3 विक्रयार्थं यो नियुङ्क्ते इति शेषः ॥ 7-109-10 सुवर्णं प्राहुरित्यज्ञा जातरूपमिति ध. पाठः ॥