श्रीः अध्यायः 108

इन्द्रम् प्रति ब्रह्मणा गोदानफलप्रशंसनम् ॥ 1 ॥

पितामह उवाच 001
योऽयं प्रश्नस्त्वया पृष्टो गोप्रदानादिकारितः । 001a
नान्यः प्रष्टास्ति लोकेस्मिंस्त्वत्तोन्यो हि शतक्रतो || 001c
सन्ति नानाविधा लोका यांस्त्वं शक्र न पश्यसि । 002a
पश्यामि यानहं लोकानेकपत्न्यश्च याः स्त्रियः ॥ 002c
कर्मभिश्चापि सुशुभैः सुव्रता ऋषयस्तथा । 003a
सशरीरा हि तान्यान्ति ब्राह्मणाः शुभबुद्धयः ॥ 003c
शरीरन्यासमोक्षेण मनसा निर्मलेन च । 004a
स्वप्नभूतांश्च ताल्ँलोकान्पश्यन्तीहापि सुव्रताः ॥ 004c
ते तु लोकाः सहस्राक्ष शृणु यादृग्गुणान्विताः । 005a
न तत्र क्रमते कालो न जरा न च पावकः ॥ 005c
तथा नास्त्यशुभं किञ्चिन्न व्याधिस्तत्र न क्लमः । 006a
यद्यच्च गावो मनसा तस्मिन्वाञ्छन्ति वासव ॥ 006c
तत्सर्वं प्रापयन्ति स्म मम प्रत्यक्षदर्शनात् । 007a
कामगाः कामचारिण्यः कामात्कामांश्च भुञ्जते ॥ 007c
वाप्यः सरांसि सरितो विविधानि वनानि च । 008a
गृहाणि पर्वताश्चैव यावद्द्रव्यं च किञ्चन ॥ 008c
मनोज्ञं सर्वभूतेभ्यस्तद्वनं तत्र दृश्यते । 009a
ईदृशान्विद्धि ताल्ँलोकान्नास्ति लोकस्तथाविधः ॥ 009c
तत्र सर्वसहाः क्षान्ता वत्सला गुरुवर्तिनः । 010a
अहङ्कारैर्विरहिता यान्ति शक्र नरोत्तमाः ॥ 010c
यः सर्वमांसानि न भक्षयीत पुमान्सदा भावितो धर्मयुक्तः । 011a
मातापित्रोरर्चिता सत्ययुक्तः शुश्रुषिता ब्राह्मणानामनिन्द्यः ॥ 011c
अक्रोधनो गोषु तथा द्विजेषु धर्मे रतो गुरुशुश्रूषकश्च । 012a
यावज्जीवं सत्यवृत्ते रतश्च दाने रतो यः क्षमी चापराधे ॥ 012c
मृदुर्दान्तो देवपरायणश्च सर्वातिथिश्चापि यथा दयावान् । 013a
ईदृग्गुणो मानवस्तं प्रयाति लोकं गवां शाश्वतं चाव्ययं च ॥ 013c
न पारदारी पश्यति लोकमेतं न वै गुरुघ्नो न मृषा सम्प्रलापी । 014a
सदापवादी ब्राह्मणेष्वात्तवैरो दोषैरन्यैर्यश्च युक्तो दुरात्मा ॥ 014c
न मित्रध्रुङ्नैकृतिकः कृतघ्नः शठोऽनृजुर्धर्मविद्वेषकश्च । 015a
न ब्रह्महा मनसाऽपि प्रपश्येद्गवां लोकं पुण्यकृतां निवासम् ॥ 015c
एतत्ते सर्वमाख्यातं नैपुण्येन सुरेश्वर । 016a
गोप्रदानरतानां तु फलं शृणु शतक्रतो ॥ 016c
दायाद्यलब्धैरर्थैर्यो गाः क्रीत्वा सम्प्रयच्छति । 017a
धर्मार्जितान्धनैः क्रीतान्स लोकानाप्नुतेऽक्षयान् ॥ 017c
यो वै द्यूते धनं जित्वा गाः क्रीत्वा सम्प्रयच्छति । 018a
स दिव्यमयुतं शक्र वर्षाणां फलमश्नुते ॥ 018c
दायाद्याद्याः स्म वै गावो न्यायपूर्वैरुपार्जिताः । 019a
प्रदद्यात्ताः प्रदातॄणां सम्भवन्त्यपि च ध्रुवाः ॥ 019c
प्रतिगृह्य तु यो दद्याद्गाः संशुद्धेन चेतसा । 020a
तस्यापीहाक्षयाल्ँलोकान्ध्रुवान्विद्धि शचीपते ॥ 020c
जन्मप्रभृति सत्यं च यो ब्रूयान्नियतेन्द्रियः । 021a
गुरुद्विजसहः क्षान्तस्तस्य गोभिः समा गतिः ॥ 021c
न जातु ब्राह्मणो वाच्यो यदवाच्यं शचीपते । 022a
मनसा गोषु न द्रुह्येद्गोवृत्तिर्गोनुकम्पकः ॥ 022c
सत्ये धर्मे च निरतस्तस्य शक्र फलं शृणु । 023a
गोसहस्रेण समिता तस्य धेनुर्भवत्युत ॥ 023c
क्षत्रियस्य गुणैरेतैरन्वितस्य फलं शृणु । 024a
सप्तार्धशततुल्या गौर्भवतीति विनिश्चयः ॥ 024c
वैश्यस्यैते यदि गुणास्तस्य पञ्चशतं भवेत् । 025a
शूद्रस्यापि विनीतस्य चतुर्भागफलं स्मृतम् ॥ 025c
एतच्चैनं योऽनुतिष्ठेत युक्तः सत्ये रतो गुरुशुश्रूषया च । 026a
दक्षः क्षान्तो देवतार्थी प्रशान्तः शुचिर्बुद्धो धर्मशीलोऽनहंवाक् ॥ 026c
महत्फलं प्राप्यते सद्द्विजाय दत्त्वा दोग्ध्रीं विधिनाऽनेन धेनुम् । 027a
नित्यं दद्यादेकभक्तः सदा च सत्ये स्थितो गुरुशुश्रूषिता च ॥ 027c
वेदाध्यायी गोषु यो भक्तिमांश्च नित्यं दत्त्वा योऽभिनन्देत गाश्च । 028a
आजातितो यश्च गवां नमेत इदं फलं शक्र निबोध तस्य ॥ 028c
यत्स्यादिष्ट्वा राजमूये फलं तु यत्स्यादिष्ट्वा बहुना काञ्चनेन । 029a
एतत्तुल्यं फलमप्याहुरग्र्यं सर्वे सन्तस्त्वृषयो ये च सिद्धाः ॥ 029c
योऽग्रं भक्तं किञ्चिदप्राश्य दद्याद्गोभ्यो नित्यं गोव्रती सत्यवादी । 030a
शान्तोऽलुब्धो गोसहस्रस्य पुण्यं संवत्सरेणाप्नुयात्सत्यशीलः ॥ 030c
यदेकभक्तमश्नीयाद्दद्यादेकं गवां च यत् । 031a
दशवर्षाण्यनन्तानि गोव्रती गोनुकम्पकः ॥ 031c
एकेनैव च भक्तेन यः क्रीत्वा गां प्रयच्छति । 032a
यावन्ति तस्या रोमाणि सम्भवन्ति शतक्रतो ॥ 032c
तावच्छतानां स गवां फलमाप्नोति शाश्वतम् । 033a
ब्राह्मणस्य फलं हीदं क्षत्रियस्य तु वै शृणु ॥ 033c
पञ्चवार्षिकमेवं तु क्षत्रियस्य फलं स्मृतम् । 034a
ततोऽर्धेन तु वैश्यस्य शूद्रो वैश्यार्धतः स्मृतः ॥ 034c
यश्चात्मविक्रयं कृत्वा गाः क्रीत्वा सम्प्रयच्छति । 035a
यावत्सन्दर्शयेद्गां वै स तावत्फलमश्नुते ॥ 035c
रोम्णि रोम्णि महाभाग लोकाश्चास्याक्षयाः स्मृताः | 036a
सङ्ग्रामेष्वर्जयित्वा तु यो वै गाः सम्प्रयच्छति । 036c
आत्मविक्रयतुल्यास्ताः शाश्वता विद्धि कौशिक ॥ 036e
अभावे यो गवां दद्यात्तिलधेनुं यतव्रतः । 037a
दुर्गात्स तारितो धेन्वा क्षीरनद्यां प्रमोदते ॥ 037c
न त्वेवासां दानमात्रं प्रशस्तं पात्रं कालो गोविशेषो विधिश्च । 038a
कालज्ञानं विप्रगवान्तरं हि दुःखं ज्ञातुं पावकादित्यभूतम् ॥ 038c
स्वाध्यायाढ्यं शुद्धयोनिं प्रशान्तं वैतानस्थं पापभीरुं बहुज्ञम् । 039a
गोषु क्षान्तं नातितीक्ष्णं शरण्यं वृत्तिग्लानं तादृशं पात्रमाहुः || 039c
वृत्तिग्लाने सीदति चातिमात्रं तुष्ट्यर्थं वा होम्यहेतोः प्रसूतेः । 040a
गुर्वर्थं वा बालसंवृद्धये वा धेनुं दद्याद्देशकाले विशिष्टे ॥ 040c
अन्तर्ज्ञाताः सक्रयज्ञानलब्धाः प्राणैः क्रीतास्तेजसा यौतकाश्च । 041a
कृच्छ्रोत्सृष्टाः पोषणाभ्यागताश्च द्वारैरेतैर्गोविशेषाः प्रशस्ताः ॥ 041c
बलान्विताः शीलवयोपपन्नाः सर्वाः प्रशंसन्ति सुगन्धवत्यः | 042a
यथा हि गङ्गा सरितां वरिष्ठा तथाऽर्जुनीनां कपिला वरिष्ठा ॥ 042c
तिस्रो रात्रीस्त्वद्भिरुपोष्य भूमौ तृप्ता गावस्तर्पितेभ्यः प्रदेयाः । 043a
वत्सैः पुष्टैः क्षीरपैः सुप्रचारास्त्र्यहं दत्त्वा गोरसैर्वर्तितव्यम् ॥ 043c
दत्त्वा धेनुं सुव्रतां साधुदोहां कल्याणवत्सामपलायिनीं च । 044a
यावन्ति रोमाणि भवन्ति तस्यास्तावन्ति वर्षाणि भवन्त्यमुत्र ॥ 044c
तथाऽनड्वाहं ब्राह्मणाय प्रदाय धुर्यं युवानं बलिनं विनीतम् । 045a
हलस्य वोढारमनन्तवीर्यं प्राप्नोति लोकान्दशधेनुदस्य ॥ 045c
कान्ताराद्ब्राह्म्णान्गाश्च यः परित्राति कौशिक । 046a
क्षेमेण स विमुच्येत तस्य पुण्यफलं शृणु ॥ 046c
अश्वमेधक्रतोस्तुल्यं फलं भवति शाश्वतम् । 047a
मृत्युकाले सहस्राक्ष यां वृत्तिमनुकाङ्क्षते ॥ 047c
लोकान्बहुविधान्दिव्यान्यच्चास्य हृदि वर्तते । 048a
तत्सर्वं समवाप्नोति कर्मणैतेन मानवः ॥ 048c
गोभिश्च समनुज्ञातः सर्वत्र च महीयते । 049a
यस्त्वेतेनैव कल्पेन गां वनेष्वनुगच्छति ॥ 049c
तृणगोमयपर्णाशी निस्पृहो नियतः शुचिः । 050a
अकामं तेन वस्तव्यं मुदितेन शतक्रतो ॥ 050c
मम लोके वसति स लोके वा यत्र चेच्छति ॥ 051ac

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि अष्टाधिकशततमोऽध्यायः ॥ 108 ॥

7-108-4 शरीरस्य न्यासः समाधिकाले । मोक्षः मरणे ॥ 7-108-15 नैकृतिको वञ्चकः । शठः समर्थोऽपि दारिद्र्यभाषी ॥ 7-108-21 गुरूणां द्विजानां वापराधं सहते इति गुरुद्विजसहः ॥ 7-108-22 गोवृत्तिरसङ्ग्रहपरः ॥ 7-108-24 सप्तार्धशतं पञ्चाशदधिकसप्तशतम् ॥ 7-108-31 दशवर्षाणि च फलं वाजपेयस्य विन्दतीति ध. पाठः ॥ 7-108-32 यावन्ति तस्य प्रोक्तानि दिवसानि शतक्रतो इति ध. पाठः ॥ 7-108-35 सन्दर्शयेत्पश्येत् । यावद्ब्रह्माण्डे गोजातीयमस्ति तावत्तत्र वसेदित्यर्थः ॥ 7-108-37 अलाभे यो गवामिति ध. पाठः ॥ 7-108-41 अन्तर्जाताः सुक्रयज्ञानलब्धाः प्राणक्रीताः सोदकाः सोद्वहाश्चेति ध. पाठः ॥ 7-108-42 अर्जुनीनां गवाम् ॥ 7-108-45 कुलस्य कर्तारमनन्तवीर्यमिति ध. पाठः ॥