श्रीः अध्यायः 107 युधिष्ठिरम् प्रति भीष्मेण गोदानफलविशेषविषयकेन्द्रप्रश्नानुवादः ॥ 1 ॥
युधिष्ठिर उवाच 001
उक्तं ते गोप्रदानं वै नाचिकेतमृषिं प्रति । 001a
माहात्म्यमपि चैवोक्तमुद्देशेन गवां प्रभो ॥ 001c
नृगेण च महद्दुःखमनुभूतं महात्मना । 002a
एकापराधादज्ञानात्पितामह महामते ॥ 002c
द्वारवत्यां यथा चासौ निविशन्त्यां समुद्धृतः । 003a
मोक्षहेतुरभूत्कृष्णस्तदप्यवधृतं मया ॥ 003c
किं त्वस्ति मम सन्देहो गवां लोकं प्रति प्रभो । 004a
तत्त्वतः श्रोतुमिच्छामि गोदा यत्र वसन्त्युत ॥ 004c
भीष्म उवाच 005
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 005a
यथाऽपृच्छत्पद्मयोनिमेतदेव शतक्रतुः ॥ 005c
शक्र उवाच 006
स्वर्लोकवासिनां लक्ष्मीमभिभूय स्वयाऽर्चिषा । 006a
गोलोकवासिनः पश्ये वदतां संशयोऽत्र मे ॥ 006c
कीदृशा भगवल्ँलोका गवां तद्बूहि मेऽनघ । 007a
यानावसन्ति दातार एतदिच्छामि वेदितुम् ॥ 007c
कीदृशाः किम्फलाः किंस्वित्परमस्तत्र को गुणः । 008a
कथं च पुरुषास्तत्र गच्छन्ति विगतज्वराः ॥ 008c
कियत्कालं प्रदानस्य दाता च फलमश्नुते । 009a
कथं बहुविधं दानं स्यादल्पमपि वा कथम् ॥ 009c
बह्वीनां कीदृशं दानमल्पानां वाऽपि कीदृशम् । 010a
अदत्त्वा गोप्रदाः सन्ति केन वा तच्च शंस मे || 010c
कथं वा बहुदाता स्यादल्पदात्रा समः प्रभो । 011a
अल्पप्रदाता बहुदः कथं स्वित्स्यादिहेश्वर ॥ 011c
कीदृशी दक्षिणा चैव गोप्रदाने विशिष्यते । 012a
एतत्तथ्येन भगवन्मम शंसितुमर्हसि ॥ 012c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि सप्ताधिकशततमोऽध्यायः ॥ 107 ॥
7-107-2 एकापराधादज्ञानान्नृगस्तां दुर्गतिं गतः । इति ट. ध. पाठः ॥