श्रीः अध्यायः 106

भीष्मेण युधिष्ठिरम् प्रति गोदानप्रशंसापरनाचिकेतोपाख्यानकथनम् ॥ 1 ॥

युधिष्ठिर उवाच 001
दत्तानां फलसम्प्राप्तिं गवां प्रब्रूहि मेऽनघ । 001a
विस्तरेण महाबाहो न हि तृप्यामि कथ्यताम् ॥ 001c
भीष्म उवाच 002
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 002a
ऋषेरौद्दालकेर्वाक्यं नाचिकेतस्य चोभयोः ॥ 002c
ऋषिरौद्दालकिर्दीक्षामुपगम्य ततः सुतम् । 003a
त्वं मामुपचरस्वेति नाचिकेतमभाषत ॥ 003c
समाप्ते नियमे तस्मिन्महर्षिः पुत्रमब्रवीत् । 004a
उपस्पर्शनसक्तस्य स्वाध्यायाभिरतस्य च ॥ 004c
इध्मा दर्भाः सुमनसः कलशश्चाभितो जलम् । 005a
विस्मृतं मे तदादाय नदीतीरादिहाव्रज ॥ 005c
गत्वानवाप्य तत्सर्वं नदीवेगसमाप्लुतम् । 006a
न पश्यामि तदित्येवं पितरं सोऽब्रवीन्मुनिः ॥ 006c
क्षुत्पिपासाश्रमाविष्टो मुनिरौद्दालकिस्तदा । 007a
यमं पश्येति तं पुत्रमशपत्क्रोधमूर्च्छितः ॥ 007c
तथा स पित्राऽभिहतो वाग्वज्रेण कृताञ्जलिः । 008a
प्रसीदेति ब्रुवन्नेव गतसत्वोऽपतद्भुवि ॥ 008c
नाचिकेतं प्रिता दृष्ट्वा पतितं दुःखमूर्च्छितः । 009a
किं मया कृतमित्युक्त्वा निपपात महीतले ॥ 009c
तस्य दुःखपरीतस्य स्वं पुत्रमनुशोचतः । 010a
व्यतीतं तदहःशेषं सा चोग्रा तत्र शर्वरी ॥ 010c
पित्र्येणाश्रुप्रपातेन नाचिकेतः कुरूद्वह । 011a
प्रास्यन्दच्छयने कौश्ये वृष्ट्या सस्यमिवाप्लुतम् ॥ 011c
स पर्यपृच्छत्तं पुत्रं श्लाघ्यं पर्यागतं पुनः । 012a
दिव्यैर्गन्धैः समादिग्धं क्षीणस्वप्नमिवोत्थितम् ॥ 012c
अपि पुत्र जिता लोकाः शुभास्ते स्वेन कर्मणा । 013a
दिष्ट्या चासि पुनः प्राप्तो न हि ते मानुषं वपुः ॥ 013c
प्रत्यक्षदर्शी सर्वस्य पित्रा पृष्टो महात्मना । 014a
अभ्युत्थाय पितुर्मध्ये महर्षीणां न्यवेदयत् ॥ 014c
कुर्वन्भवच्छासनमाशु यातो ह्यहं विशालां रुचिरप्रभासाम् । 015a
वैवस्वतीं प्राप्य सभामवश्यं सहस्रशो योजनहैमभौमाम् ॥ 015c
दृष्टैव मामभिमुखमापतन्तं गृहं निवेद्यासनमादिदेश । 016a
वैवस्वतोऽर्घ्यादिभिरर्हणैश्च भवत्कृते पूजयामास मां सः ॥ 016c
ततस्त्वहं तं शनकैरवोचं वृतः सदस्यैरभिपूज्यमानः । 017a
प्राप्तोऽस्मि ते विषयं धर्मराज लोकानर्हो यानहं तान्विधत्स्व ॥ 017c
यमोऽब्रवीन्मां न मृतोसि सौम्य यमं पश्येत्याह स त्वां तपस्वी । 018a
पिता प्रदीप्ताग्निसमानतेजा न तत्छक्यमनृतं विप्र कर्तुम् ॥ 018c
दृष्टस्तेऽहं प्रतिगच्छस्व तात शोचत्यसौ तव देहस्य कर्ता । 019a
ददानि किञ्चापि मनःप्रणीतं प्रियातिथेस्तव कामान्वृणीष्व ॥ 019c
तेनैवमुक्तस्तमहं प्रत्यवोचं प्राप्तोस्मि ते विषयं दुर्निवर्त्यम् । 020a
इच्छाम्यहं पुण्यकृतां समृद्धाल्ँलोकान्द्रष्टुं यदि तेऽहं वरार्हः ॥ 020c
यानं समारोप्य तु मां स देवो वाहैर्युक्तं सुप्रभं भानुमत्तत् । 021a
सन्दर्शयामास तदाऽऽत्मलोकान्सर्वांस्तथा पुण्यकृतां द्विजेन्द्र ॥ 021c
अपश्यं तत्र वेश्मानि तैजसानि महात्मनाम् । 022a
नानासंस्थानरूपाणि सर्वरत्नमयानि च ॥ 022c
चन्द्रमण्डलशुभ्राणि किङ्किणीजालवन्ति च । 023a
अनेकशतभौमानि सान्तर्जलवनानि च ॥ 023c
वैडूर्यार्कप्रकाशानि रूप्यरुक्ममयानि च । 024a
तरुणादित्यवर्णानि स्थावराणि चराणि च ॥ 024c
भक्ष्यभोज्यमयाञ्शैलान्वासांसि शयनानि च । 025a
सर्वकामफलांश्चैव वृक्षान्भवनसंस्थितान् ॥ 025c
नद्यो वीथ्यः सभा वाप्यो दीर्घिकाश्चैव सर्वशः । 026a
घोषवन्ति च यानानि युक्तान्यथ सहस्रशः ॥ 026c
क्षीरस्रवा वै सरितो गिरींश्च सर्पिस्तथा विमलं चापि तोयम् । 027a
वैवस्वतस्यानुमतांश्च देशानदृष्टपूर्वान्सुबहूनपश्यम् ॥ 027c
सर्वान्दृष्ट्वा तदहं धर्मराजमवोचं वै सर्वदेवं सहिष्णुम् । 028a
क्षीरस्यैताः सर्पिषश्चैव नद्यः शश्वत्स्रोताः कस्य भोज्याः प्रवृत्ताः ॥ 028c
यमोऽब्रवीद्विद्धि भोज्यांस्त्वमेतान्ये दातारः साधवो गोरसानाम् । 029a
अन्ये लोकाः शाश्वता वीतशोकैः समाकीर्णा गोप्रदाने रतानाम् ॥ 029c
न त्वेतासां दानमात्रं प्रशस्तं पात्रं कालो गोविशेषो विधिश्च । 030a
ज्ञात्वा देयं विप्र गवान्तरं हि दुःखं ज्ञातुं पावकादित्यभूतम् ॥ 030c
स्वाध्यायवान्योऽतिमात्रं तपस्वी वैतानस्थो ब्राह्मणः पात्रमासाम् । 031a
गोषु क्षान्तं गोशरण्यं कृतज्ञं वृत्तिग्लानं तादृशं पात्रमाहुः ॥ 031c
कृच्छ्रोत्सृष्टाः पोषणाभ्यागताश्च द्वारैरेतैर्गोविशेषाः प्रशस्ताः । 032a
अन्तर्जाताः सुक्रयज्ञानलब्धाः प्राणक्रीताः सोदकाः सोद्वहाश्च ॥ 032c
तिस्रो रात्र्यस्त्वद्भिरुपोष्य भूमौ तृप्ता गावस्तर्पितेभ्यः प्रदेयाः । 033a
वत्सैः प्रीताः सुप्रजाः सोपचारास्त्र्यहं दत्त्वा गोरसैर्वर्तितव्यम् ॥ 033c
दत्त्वा धेनुं सुव्रतां साधुदोहां कल्याणवत्सामपलायिनीं च । 034a
यावन्ति रोमाणि भवन्ति तस्यास्तावद्वर्षाण्यश्नुते स्वर्गलोकम् ॥ 034c
तथाऽनड्वाहं ब्राह्मणेभ्यः प्रदाय दान्तं धुर्यं बलवन्तं युवानम् । 035a
कुलानुजीव्यं वीर्यवन्तं बृहन्तं भुङ्क्ते लोकान्सम्मितान्धेनुदस्य ॥ 035c
वृद्धे ग्लाने सम्भ्रमे वा महार्थे कृष्यर्थं वा हौम्यहेतोः प्रसूत्याम् । 036a
गुर्वर्थं वा यज्ञसमाप्तये वा गां वै दातुं देशकालोऽविशिष्टः ॥ 036c
नाचिकेत उवाच 037
श्रुत्वा वैवस्वतवचस्तमहं पुनरब्रवम् । 037a
अगोमी गोप्रदातॄणां कथं लोकान्हि गच्छति ॥ 037c
ततोऽब्रवीद्यमो धीमान्गोप्रदानं ततो गतिम् । 038a
गोप्रदानानुकल्पात्तु गामृते सन्तु गोप्रदाः ॥ 038c
अलाभे यो गवां दद्याद्धृतधेनुं यतव्रतः । 039a
तस्यैता घृतवाहिन्यः क्षरन्ते वत्सला इव ॥ 039c
घृतालाभे तु यो दद्यात्तिलधेनुं यतव्रतः । 040a
स दुर्गात्तारितो धेन्वा क्षीरनद्यां प्रमोदते ॥ 040c
तिलालाभे तु यो दद्याज्जलधेनुं यतव्रतः । 041a
स कामप्रवहां शीतां नदीमेतामुपाश्नुते ॥ 041c
एवमेतानि मे तत्र धर्मराजो न्यदर्शयत् । 042a
दृष्ट्वा च परमं हर्षमवापमहमच्युत ॥ 042c
निवेदये चाहमिमं प्रियं ते क्रतुर्महानल्पधनप्रचारः । 043a
प्राप्तो मया तात स मत्प्रसूतः प्रपत्स्यते वेदविधिप्रवृत्तः ॥ 043c
शापो ह्ययं भवतोऽनुग्रहाय प्राप्तो मया यत्र दृष्टो यमो वै । 044a
दानव्युष्टिं तत्र दृष्ट्वा महात्मन्निःसन्दिग्धान्दानधर्मांश्चरिष्ये ॥ 044c
इदं च मामब्रवीद्धर्मराजः पुनः पुनः सम्प्रहृष्टो महर्षे । 045a
दानेन यः प्रयतोऽभूत्सदैव विशेषतो गोप्रदानं च कुर्याम् ॥ 045c
शुद्धो ह्यर्थो नावमन्यस्व धर्मान्पात्रे देयं देशकालोपपन्ने । 046a
तस्माद्गावस्ते नित्यमेव प्रदेया माभूच्च ते संशयः कश्चिदत्र ॥ 046c
एताः पुरा ह्यददन्नित्यमेव शान्तात्मानो दानपथे निविष्टाः । 047a
तपांस्युग्राण्यप्रतिशङ्कमानास्ते वै दानं प्रददुश्चैव शक्त्या ॥ 047c
काले च शक्त्या मत्सरं वर्जयित्वा शुद्धात्मानः श्रद्धिनः पुण्यशीलाः । 048a
दत्त्वा गा वै लोकममुं प्रपन्ना देदीप्यन्ते पुण्यशीलास्तु नाके ॥ 048c
एतद्दानं न्यायलब्धं द्विजेभ्यः पात्रे दत्तं प्रापणीयं परीक्ष्य । 049a
काम्याष्टम्यां वर्तितव्यं दशाहं रसैर्गवां शकृता प्रस्नवैर्वा ॥ 049c
देवव्रती स्याद्वृषभप्रदानैर्वेदावाप्तिर्गोयुगस्य प्रदाने । 050a
तीर्थावाप्तिर्गोप्रयुक्तप्रदाने पापोत्सर्गः कपिलायाः प्रदाने ॥ 050c
गामप्येकां कपिलां सम्प्रदाय न्यायोपेतां कलुषाद्विप्रमुच्येत् । 051a
गवां रसात्परमं नास्ति किञ्चिद्गवां प्रदानं सुमहद्वदन्ति ॥ 051c
गावो लोकांस्तारयन्ति क्षरन्त्यो गावश्चान्नं सञ्जनयन्ति लोके । 052a
यस्तं जानन्न गवां हार्दमेति स वै गन्ता निरयं पापचेताः ॥ 052c
यैस्तद्दत्तं गोसहस्रं शतं वा दशार्धं वा दश वा साधुवत्सम् । 053a
अप्येका वै साधवे ब्राह्मणाय सास्यामुष्मिन्पुण्यतीर्था नदी वै ॥ 053c
प्राप्त्या पुष्ट्या लोकसंरक्षणेन गावस्तुल्याः सूर्यपादैः पृथिव्याम् । 054a
शब्दश्चैकः सन्नतिश्चोपभोगास्तस्माद्गोदः सूर्य इवावभाति ॥ 054c
गुरुं शिष्यो वरयेद्गोप्रदाने स वै गन्ता नियतं स्वर्गमेव । 055a
विधिज्ञानां सुमहान्धर्म एष विधिं ह्याद्यं विधयः संविशन्ति ॥ 055c
इदं दानं न्यायलब्धं द्विजेभ्यः पात्रे दत्त्वा प्रापयेथाः परीक्ष्य । 056a
त्वय्याशंसन्त्यमरा दानवाश्च वयं चापि प्रसृते पुण्यशीले ॥ 056c
इत्युक्तोऽहं धर्मराजं द्विजर्षे धर्मात्मानं शिरसाऽभिप्रणम्य । 057a
अनुज्ञातस्तेन वैवस्वतेन प्रत्यागमं भगवत्पादमूलम् ॥ 057c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि षडधिकशततमोऽध्यायः ॥ 106 ॥

7-106-5 कलशश्चातिभोजनम् इति झ. पाठ. । तत्र अतिभोजनं भोजनसामग्रिकं शाकादि ॥ 7-106-8 गतसत्वो मृतः ॥ 7-106-11 सस्यं शुष्यमाणम् ॥ 7-106-15 योजनेति लुप्ततृतीयान्तं पदम् । योजनैः सहस्रशः सम्मितामिति शेषः ॥ 7-106-23 अनेकशतानि भौमानि उपर्युपरि भूमिसमूहा येषु तानि प्रासादमण्डलानि ॥ 7-106-30 गवामन्तरमन्योन्यतारतम्यम् । अवङ् ॥ 7-106-31 कृच्छ्रोत्सृष्टाः सङ्कटात् निरोधात् मुक्ताः । पोषणार्थं दरिद्रागारादागताः । तादृशीनां पालनं प्रशस्ततरमित्यर्थः ॥ 7-106-33 त्र्यहमम्मात्राहारो भूमिशायी भूत्वा चतुर्थं दिनमारभ्य त्र्यहमेकैकां गां दत्त्वा गोरसैर्वृत्तिं कुर्यात् । एवं व्रतपूर्वकं गोत्रयं ददत उक्तं वक्ष्यमाणं च फलं भवतीत्यर्थः ॥ 7-106-36 वृद्धे ग्लाने रोगिणि पथ्याशनार्थे सम्भ्रमे दुर्भिक्षे । महार्थे यज्ञाद्यर्थे च । प्रसूत्यां पुत्रजन्मनि ॥ 7-106-43 क्रतुः गोदानरूपः ॥ 7-106-49 प्रापणीयं गोः आहारादि । कामे इच्छापूरणे साधुः काम्या या अष्टमी शुक्लकृष्णान्यतरा तस्याम् ॥7-106-050 गोप्रयुक्तं रथशकटादि || 7-106-052 हार्दम् हृत्स्थम् | भक्ष्यपानकण्डूयनादिकं कर्तुं न एति नानुसरति || 7-106-055 विधिं गुर्वाराधनपरम् | विधयो गोदानविधयः ||