श्रीः अध्यायः 105
भीष्मेण युधिष्ठिरम् प्रति ब्राह्मणस्वापहारस्यानर्थहेतुतायां दृष्टान्ततया नृगोपाख्यानकथनम् ॥ 1 ॥
भीष्म उवाच 001
अत्रैव कीर्त्यते सद्भिर्ब्राह्मणस्वाभिमर्शने । 001a
नृगेण सुमहत्कृच्छ्रं यदवाप्तं कुरूद्वह ॥ 001c
निविशन्त्यां पुरा पार्थ द्वारवत्यामिति श्रुतिः । 002a
अदृश्यत महाकूपस्तृणवीरुत्समावृतः || 002c
प्रयत्नं तत्र कुर्वाणास्तस्मात्कूपाज्जलार्थिनः । 003a
श्रमेण महता युक्तास्तस्मिंस्तोये सुसंवृते ॥ 003c
ददृशुस्ते महाकायं कृकलासमवस्थितम् । 004a
तस्य चोद्धरणे यत्नमकुर्वंस्ते सहस्रशः ॥ 004c
प्रग्रहैश्चर्मपट्टैश्च तं बद्ध्वा पर्वतोपमम् । 005a
नाशक्नुवन्समुद्धर्तुं ततो जग्मुर्जनार्दनम् ॥ 005c
खमावृत्योदपानस्य कृकलासः स्थितो महान् । 006a
तस्य नास्ति समुद्धर्तेत्येतत्कृष्णे न्यवेदयन् ॥ 006c
स वासुदेवेन समुद्धृतश्च पृष्टश्च कामान्निजगाद राजा । 007a
नृगस्तदाऽऽत्मानमथो न्यवेदयत्पुरातनं यज्ञसहस्रयाजिनम् ॥ 007c
तथा ब्रुवाणं तु तमाह माधवः शुभं त्वया कर्म कृतं न पापकम् । 008a
कथं भवान्दुर्गतिमीदृशीं गतो नरेन्द्र तद्ब्रूहि किमेतदीदृशम् ॥ 008c
शतं सहस्राणि गवां शतं पुनः पुनः शतान्यष्टशतायुतानि । 009a
त्वया पुरा दत्तमितीह शुश्रुम नृप द्विजेभ्यः क्व नु तद्गतं तव ॥ 009c
नृगस्ततोऽब्रवीत्कृष्णं ब्राह्मणस्याग्निहोत्रिणः । 010a
प्रोषितस्य परिभ्रष्टा गौरेका मम गोधने ॥ 010c
गवां सहस्रे सङ्ख्याता तदा सा पशुपैर्मम । 011a
सा ब्राह्मणाय मे दत्ता प्रेत्यार्थमभिकाङ्क्षता ॥ 011c
अपश्यत्परिमार्गंश्च तां गां परगृहे द्विजः । 012a
ममेयमिति चोवाच ब्राह्मणो यस्य साऽभवत् ॥ 012c
तावुभौ समनुप्राप्तौ विवदन्तौ भृशज्वरौ । 013a
भवान्दाता भवान्हर्तेत्यथ तौ मामवोचताम् ॥ 013c
शतेन शतसङ्ख्येन गवां विनिमयेन वै । 014a
याचे प्रतिग्रहीतारं स तु मामब्रवीदिदम् ॥ 014c
देशकालोपसम्पन्ना दोग्ध्री शान्ताऽतिवत्सला । 015a
स्वादुक्षीरप्रदा धन्या मम नित्यं निवेशने ॥ 015c
कृशं च भरते सा गौर्मम पुत्रमपस्तनम् । 016a
न सा शक्या मया दातुमित्युक्त्वा स जगाम ह ॥ 016c
ततस्तमपरं विप्रं याचे विनिमयेन वै । 017a
गवां शतसहस्रं हि तत्कृते गृह्यतामिति ॥ 017c
ब्राह्मण उवाच 018
न राज्ञां प्रतिगृह्णामि शक्तोऽहं स्वस्य मार्गणे । 018a
सैव गौर्दीयतां शीघ्रं ममेति मधुसूदन ॥ 018c
रुक्ममश्वांश्च ददतो रजतस्यन्दनांस्तथा । 019a
न जग्राह ययौ चापि तदा स ब्राह्मणर्षभः ॥ 019c
एतस्मिन्नेव काले तु चोदितः कालधर्मणा । 020a
पितृलोकमहं प्राप्य धर्मराजमुपागमम् ॥ 020c
यमस्तु पूजयित्वा मां ततो वचनमब्रवीत् । 021a
नान्तः सङ्ख्यायते राजंस्तव पुण्यस्य कर्मणः ॥ 021c
अस्ति चैव कृतं पापमज्ञानात्तदपि त्वया । 022a
चरस्व पापं पश्चाद्वा पूर्वं वा त्वं यथेच्छसि ॥ 022c
रक्षितास्मीति चोक्तं ते प्रतिज्ञा चानृता तव । 023a
ब्राह्मणस्वस्य चादानं द्विविधस्ते व्यतिक्रमः ॥ 023c
पूर्वं कृच्छ्रं चरिष्येऽहं पश्चाच्छुभमिति प्रभो । 024a
धर्मराजं ब्रुवन्नेवं पतितोस्मि महीतले ॥ 024c
अश्रौषं पतितश्चाहं यमस्योच्चैः प्रभाषतः । 025a
वासुदेवः समुद्धर्ता भविता ते जनार्दनः ॥ 025c
पूर्णे वर्षसहस्रान्ते क्षीणे कर्मणि दुष्कृते । 026a
प्राप्लस्यसे शाश्वताल्ँलोकाञ्जितान्स्वेनैव कर्मणा ॥ 026c
कूपेऽऽत्मानमधःशीर्षमपश्यं पतितं च ह । 027a
तिर्यग्योनिमनुप्राप्तं न च मामजहात्स्मृतिः ॥ 027c
त्वया तु तारितोऽस्म्यद्य किमन्यत्र तपोबलात् । 028a
अनुजानीहि मां कृष्ण गच्छेयं दिवमद्य वै ॥ 028c
अनुज्ञातः स कृष्णेन नमस्कृत्य जनार्दनम् । 029a
विमानं दिव्यमास्थाय ययौ दिवमरिन्दमः ॥ 029c
ततस्तस्मिन्दिवं याते नृगे भरतसत्तम । 030a
वासुदेव इमाञ्श्लोकाञ्जगाद कुरुनन्दन ॥ 030c
ब्राह्मणस्वं न हर्तव्यं पुरुषेण विजानता । 031a
ब्राह्मणस्वं हृतं हन्ति नृगं ब्राह्मणगौरिव ॥ 031c
सतां समागमः सद्भिर्नाफलः पार्थ विद्यते । 032a
विमुक्तं नरकात्पश्य नृगं साधुसमागमात् ॥ 032c
प्रदानं फलवत्तत्र द्रोहस्तत्र तथाऽफलः । 033a
अपहारं गवां तस्माद्वर्जयेत युधिष्ठिर ॥ 033c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि पञ्चाधिकशततमोऽध्यायः ॥ 105 ॥
7-105-23 प्रतिज्ञा च कृता त्वयेति, त्रिविधस्ते व्यतिक्रम इति च. थ. ध. पाठः ॥ 7-105-24 कृच्छ्रं चरिष्ये पापफलं भोक्ष्ये ॥ 7-105-31 न हर्तव्यं क्षत्रियेण विशेषत इति थ. ध. पाठः ॥