श्रीः अध्यायः 104
भीष्मेण युधिष्ठिरम् प्रति गोभूविद्यादानप्रशंसनम् ॥ 1 ॥
युधिष्ठिर उवाच 001
भूय एव कुरुश्रेष्ठ दानानां विधिमुत्तमम् । 001a
कथयस्व महाप्राज्ञ भूमिदानं विशेषतः ॥ 001c
पृथिवीं क्षत्रियो दद्याद्ब्राह्मणायेष्टिकर्मिणे । 002a
विधिवत्प्रतिगृह्णीयान्न त्वन्यो दातुमर्हति ॥ 002c
सर्ववर्णैस्तु यच्छक्यं प्रदातुं फलकाङ्क्षिभिः । 003a
वेदे वा यत्समाख्यातं तन्मे व्याख्यातुमर्हसि ॥ 003c
भीष्म उवाच 004
तुल्यनामानि देयानि त्रीणि तुल्यफलानि च । 004a
सर्वकामफलानीह गावः पृथ्वी सरस्वती ॥ 004c
यो ब्रूयाच्चापि शिष्याय धर्म्यां ब्राह्मीं सरस्वतीम् । 005a
पृथिवीगोप्रदानाभ्यां तुल्यं स फलमश्नुते ॥ 005c
तथैव गाः प्रशंसन्ति न तु देयं ततः परम् । 006a
सन्निकृष्टफलास्ता हि लघ्वर्थाश्च युधिष्ठिर ॥ 006c
मातरः सर्वभूतानां गावः सर्वसुखप्रदाः । 007a
वृद्धिमाकाङ्क्षता नित्यं गावः कार्याः प्रदक्षिणाः || 007c
सन्ताड्या न तु पादेन गवां मध्ये न च व्रजेत् । 008a
मङ्गलायतनं देव्यस्तस्मात्पूज्याः सदैव गाः ॥ 008c
प्रचोदनं देवकृतं गवां कर्मसु वर्तताम् । 009a
पूर्वमेवाक्षरं चान्यदभिधेयं ततः परम् ॥ 009c
प्रचारे वा निवाते वा बुधो नोद्वेजयेत गाः । 010a
तृषिता ह्यभिवीक्षन्त्यो नरं हन्युः सबान्धवम् ॥ 010c
पितृसद्मानि सततं देवतायतनानि च । 011a
पूयन्ते शकृता यासां पूतं किमधिकं ततः ॥ 011c
घासमुष्टिं परगवे दद्यात्संवत्सरं तु यः । 012a
अकृत्वा स्वयमाहारं व्रतं तत्सार्वकामिकम् ॥ 012c
स हि पुत्रान्यशोऽर्थं च श्रियं चाप्यधिगच्छति । 013a
नाशयत्यशुभं चैव दुःस्वप्नं चाप्यपोहति ॥ 013c
युधिष्ठिर उवाच 014
देयाः किंलक्षणा गावः काश्चापि परिवर्जयेत् । 014a
कीदृशाय प्रदातव्या न देयाः कीदृशाय च ॥ 014c
भीष्म उवाच 015
असद्वृत्ताय पापाय लुब्धायानृतवादिने । 015a
हव्यकव्यव्यपेताय न देया गौः कथञ्चन ॥ 015c
भिक्षवे बहुपुत्राय श्रोत्रियायाहिताग्नये । 016a
दत्त्वा दशगवां दाता लोकानाप्नोत्यनुत्तमान् ॥ 016c
'जुहोति यद्भोजयति यद्ददाति गवां रसैः । 017a
सर्वस्यैवांशभाग्दाता तन्निमित्तं प्रवर्तितः ॥' 017c
यश्चैव धर्मं कुरुते तस्य धर्मफलं च यत् । 018a
सर्वस्यैवांशभाग्दाता तन्निमित्तं प्रवृत्तयः ॥ 018c
यश्चैनमुत्पादयते यश्चैनं त्रायते भयात् । 019a
यश्चास्य कुरुते वृत्तिं सर्वे ते पितरस्त्रयः ॥ 019c
कल्मषं गुरुशुश्रूषा हन्ति मानो महद्यशः । 020a
अपुत्रतां त्रयः पुत्रा अवृत्तिं दश धेनवः ॥ 020c
वेदान्तनिष्ठस्य बहुश्रुतस्य प्रज्ञानतृप्तस्य जितेन्द्रियस्य । 021a
शिष्टस्य दान्तस्य यतस्य चैव भूतेषु नित्यं प्रियवादिनश्च ॥ 021c
यः क्षुद्भयाद्वै न विकर्म कुर्यान्मृदुश्च शान्तौ ह्यतिथिप्रियश्च । 022a
वृत्तिं द्विजायातिसृजेत तस्मै यस्तुल्यशीलश्च सपुत्रदारः || 022c
शुभे पात्रे ये गुणा गोप्रदाने तावान्दोषो ब्राह्मणस्वापहारे । 023a
सर्वावस्थं ब्राह्मणस्वापहारे दाराश्चैषां दूरतो वर्जनीयाः ॥ 023c
'विप्रदारे परिहृते तद्धनेऽपहृते च तु । 024a
परित्रायन्ति शक्तास्तु नमस्तेभ्यो मृताश्च ये ॥ 024c
न पालयन्ति निहतान्ये तान्वैवस्वतो यमः । 025a
दण्डयन्भर्सयन्नित्यं निरयेभ्यो न मुञ्चति ॥ 025c
तथा गवां परित्राणे पीडने च शुभाशुभम् । 026a
विप्रगोषु विशेषेण रक्षितेषु गृहेषु वा ॥' 026c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि चतुरधिकशततमोऽध्यायः ॥ 104 ॥
7-104-2 इष्टिकर्मिणे याज्ञिकाय ॥ 7-104-4 तुल्यनामानि गोपदवाच्यानि ॥ 7-104-6 देयं दानयोग्यम् । परं श्रेष्ठम् ॥ 7-104-9 गवां बलीवर्दानां कर्मसु यज्ञाद्यर्थेषु कृष्याद्यर्थेषु कर्षणादिषु वर्ततां प्रचोदनं प्रतोदेन प्रेरणं देवैः कृतमिति न तत्र दोष इति भावः । तथापि पूर्वं यज्ञार्थमेव चोदनमक्षरं श्रेयस्करम् । अन्यत्कृष्याद्यर्थं तु ततः परं वैदिककर्षणमनुप्रवृत्तमभिधेयं वाच्यं निन्द्यमित्यर्थः ॥ 7-104-10प्रचारे पलायने | निवाते कठिनोपवेशने । अभिवीक्षन्त्यो जलमलभमानाः ॥ 7-104-12 आहारं तदीयतक्राद्याहरणमकृत्वा ॥ 7-104-21 वेदान्तनिष्ठस्य वृत्तिम् अतिसृजेतेत्युत्तरेणान्वयः । चतुर्थ्यर्थे षष्ठी ॥