श्रीः अध्यायः 103

भीष्मेण युधिष्ठिरम् प्रति तिलजलदीपादिदानप्रशंसापरयमब्राह्मणसंवादानुवादः ॥ 1 ॥

युधिष्ठिर उवाच 001
तिलानां कीदृशं दानमथ दीपस्य चैव हि । 001a
अन्नानां वाससां चैव भूय एव ब्रवीहि मे ॥ 001c
भीष्म उवाच 002
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 002a
ब्राह्मणस्य च संवादं यमस्य च युधिष्ठिर ॥ 002c
मध्यदेशे महान्ग्रामो ब्राह्मणानां बभूव ह । 003a
गङ्गायमुनयोर्मध्ये यामुनस्य गिरेरधः ॥ 003c
पर्णशालेति विख्यातो रमणीयो नराधिप । 004a
विद्वांसस्तत्र भूयिष्ठा ब्राह्मणाश्चावसंस्तथा ॥ 004c
अथ प्राह यमः कञ्चित्पुरुषं कृष्णवाससम् । 005a
रक्ताक्षमूर्ध्वरोमाणं काकजङ्घाक्षिनासिकम् ॥ 005c
गच्छ त्वं ब्राह्मणग्रामं ततो गत्वा तमानय । 006a
अगस्त्यं गोत्रतश्चापि नामतश्चापि शर्मिणम् ॥ 006c
शमे निविष्टं विद्वांसमध्यापकमनावृतम् । 007a
मा चान्यमानयेथास्त्वं सगोत्रं तस्य पार्श्वतः ॥ 007c
स हि तादृग्गुणस्तेन तुल्योऽध्ययनजन्मना । 008a
अपत्येषु तथा वृत्ते समस्तेनैव धीमता । 008c
तमानय यथोद्दिष्टं पूजा कार्या हि तस्य मे ॥ 008e
स गत्वा प्रतिकूलं तच्चकार यमशासनम् । 009a
तमाक्रम्यानयामास प्रतिषिद्धो यमेन यः ॥ 009c
तस्मै यमः समुत्थाय पूजा कृत्वा च वीर्यवान् । 010a
प्रोवाच नीयतामेष सोऽन्य आनीयतामिति ॥ 010c
एवमुक्ते तु वचने धर्मराजेन स द्विजः । 011a
उवाच धर्मराजानं निर्विण्णोऽध्ययनेन वै । 011c
यो मे कालो भवेच्छेषस्तं वसेयमिहाच्युत ॥ 011e
यम उवाच 012
नाहं कालस्य विहितं प्राप्नोमीह कथञ्चन । 012a
यो हि धर्मं चरति वै तं तु जानामि केवलम् ॥ 012c
गच्छ विप्र त्वमद्यैव आलयं स्वं महाद्युते । 013a
ब्रूहि सर्वं यथा स्वैरं करवाणि किमच्युत ॥ 013c
ब्राह्मण उवाच 014
शुद्धदानं च सुमहत्पुण्यं स्यात्तद्ब्रवीहि मे । 014a
सर्वस्य हि प्रमाणं त्वं त्रैलोक्यस्यापि सत्तम ॥ 014c
यम उवाच 015
शृणु तत्त्वेन विप्रर्षे प्रदानविधिमुत्तमम् । 015a
तिलाः परमकं दानं पुण्यं चैवेह शाश्वतम् ॥ 015c
तिलाश्च सम्प्रदातव्या यथाशक्ति द्विजर्षभ । 016a
नित्यदानात्सर्वकामांस्तिला निर्वर्तयन्त्युत ॥ 016c
तिलाञ्श्राद्धे प्रशंसन्ति दानमेतद्ध्यनुत्तमम् । 017a
तान्प्रयच्छस्व विप्रेभ्यो विधिदृष्टेन कर्मणा ॥ 017c
वैशाख्यां पौर्णमास्यां तु तिलान्दद्याद्द्विजातिषु । 018a
तिला भक्षयितव्याश्च सदा त्वालम्भनं च तैः || 018c
कार्यं सततमिच्छद्भिः श्रेयः सर्वात्मना गृहे । 019a
तथाऽऽपः सर्वदा देयाः पेयाश्चैव न संशयः ॥ 019c
पुष्करिण्यस्तटाकानि कूपांश्चैवात्र खानयेत् । 020a
एतत्सुदुर्लभतरमिह लोके द्विजोत्तम ॥ 020c
आपो नित्यं प्रदेयास्ते पुण्यं ह्येतदनुत्तमम् । 021a
प्रपाश्च कार्या दानार्थं नित्यं ते द्विजसत्तम । 021c
भुक्तेऽप्यथ प्रदेयं तु पानीयं वै विशेषतः ॥ 021e
'पानीयाभ्यर्थिनं दृष्ट्वा प्रीत्या दत्त्वा त्वरान्वितः । 022a
वस्त्रे तन्तुप्रमाणेन दीपे निमिषवत्सरम् ॥ 022c
गवां रोमप्रमाणेन स्वर्गभोगमुपाश्नुते । 023a
जलबिन्दुप्रमाणेन तदेतान्युपवर्तय ॥' 023c
भीष्म उवाच 024
इत्युक्ते स तदा तेन यमदूतेन वै गृहान् । 024a
नीतश्च कारयामास सर्वं तद्यमशासनम् ॥ 024c
नीत्वा तं यमदूतोऽपि गृहीत्वा शर्मिणं तदा । 025a
ययौ स धर्मराजाय न्यवेदयत चापि तम् ॥ 025c
तं धर्मराजो धर्मज्ञं पूजयित्वा प्रतापवान् । 026a
कृत्वा च संविदं तेन विससर्ज यथागतम् ॥ 026c
तस्यापि च यमः सर्वमुपदेशं चकार ह । 027a
प्रेत्यैत्य च ततः सर्वं चकारोक्तं यमेन तत् ॥ 027c
तथा प्रशंसते दीपान्यमः पितृहितेप्सया । 028a
तस्माद्दीपप्रदो नित्यं सन्तारति वै पितॄन् ॥ 028c
दातव्याः सततं दीपास्तस्माद्भरतसत्तम । 029a
देवतानां पितॄणां च चक्षुष्यं चात्मनां विभो ॥ 029c
रत्नदानं च सुमहत्पुण्यमुक्तं जनाधिप । 030a
यस्तान्विक्रीय यजते ब्राह्मणो ह्यभयङ्करम् ॥ 030c
यद्वै ददाति विप्रेभ्यो ब्राह्मणः प्रतिगृह्य वै । 031a
उभयोः स्यात्तदक्षय्यं दातुरादातुरेव च ॥ 031c
यो ददाति स्थितः स्थित्यां तादृशाय प्रतिग्रहम् । 032a
उभयोरक्षयं धर्मं तं मनुः प्राह धर्मवित् ॥ 032c
वाससां सम्प्रदानेन स्वदारनिरतो नरः । 033a
सुवस्त्रश्च सुवेषश्च भवतीत्यनुशुश्रुम ॥ 033c
गावः सुवर्णं च तथा तिलाश्चैवानुवर्णिताः । 034a
बहुशः पुरुषव्याघ्र वेदप्रामाण्यदर्शनात् ॥ 034c
विवाहांश्चैव कुर्वीत पुत्रानुत्पादयेत च । 035a
पुत्रलाभो हि कौरव्य सर्वलाभाद्विशिष्यते ॥ 035c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि त्र्यधिकशततमोऽध्यायः ॥ 103 ॥

7-103-7 अध्यापकमनानृतमिति थ. पाठः । अध्यापकमनारतमिति ध. पाठः ॥ 7-103-9 चकारचयमाश्रय इति थ. ध. पाठः ॥ 7-103-11 इह यमलोके ॥ 7-103-13 कालस्य विहितम् आयुःप्रमाणं न प्राप्नोमि न जानामि । कालेनाप्रवर्तितं त्वामिह स्थापयितुं न शक्नोमीत्यर्थः । विहितं प्रापयामीह कञ्चनेति थ. पाठः ॥ 7-103-14 ब्रूहि पृच्छ ॥ 7-103-17 निर्वर्तयन्ति साधयन्ति ॥ 7-103-18 आलम्भनं सर्वतः स्पर्शनम् उद्वर्तनमित्यर्थः ॥ 7-103-32 एतद्दि तस्याऽभयङ्करं प्रतिग्रहविक्रयजदोषघ्नम् ॥