श्रीः अध्यायः 102
भीष्मेण युधिष्ठिरम् प्रति जलप्रभाववर्णनपूर्वकं तद्दानप्रशंसनम् ॥ 1 ॥
युधिष्ठिर उवाच 001
श्रुतं दानफलं तात यत्त्वया परिकीर्तितम् । 001a
अन्नदानं विशेषेण प्रशस्तमिह भारत ॥ 001c
पानीयदानमेवैतत्कथं चेह महाफलम् । 002a
इत्येतच्छ्रोतुमिच्छामि विस्तरेण पितामह ॥ 002c
भीष्म उवाच 003
हन्त ते वर्तयिष्यामि यथावद्भरतर्षभ । 003a
गदतस्तन्ममाद्येह शृणु सत्यपराक्रम । 003c
पानीयदानात्प्रभृति सर्वं वक्ष्यामि तेऽनघ ॥ 003e
यदन्नं यच्च पानीयं सम्प्रदायाश्नुते फलम् । 004a
न ताभ्यां परमं दानं किञ्चिदस्तीति मे मनः ॥ 004c
अन्नात्प्राणभृतस्तात प्रवर्तन्ते हि सर्वशः । 005a
तस्मादन्नं परं लोके सर्वदानेषु कथ्यते ॥ 005c
अन्नाद्बलं च तेजश्च प्राणिनां वर्धते सदा । 006a
अन्नदानमतस्तस्माच्छ्रेष्ठमाह प्रजापतिः ॥ 006c
सावित्र्या ह्यपि कौन्तेय श्रूयते वचनं शुभम् । 007a
यच्चेदं नान्यथा चैतद्देव सत्रे महामखे ॥ 007c
अन्ने दत्ते नरेणेह प्राणा दत्ता भवन्त्युत । 008a
प्राणदानाद्धि परमं न दानमिह विद्यते ॥ 008c
श्रुतं हि ते महाबाहो लोमशस्यापि तद्वचः । 009a
प्राणान्दत्त्वा कपोताय यत्प्राप्तं शिबिना पुरा ॥ 009c
यां गतिं लभते दत्त्वा द्विजस्यान्नं विशाम्पते । 010a
ततो विशिष्टां गच्छन्ति प्राणदा इति नः श्रुतम् ॥ 010c
अन्नं चापि प्रभवति पानीयात्कुरुसत्तम । 011a
नीरजातेन हि विना न किञ्चित्सम्प्रवर्तते ॥ 011c
नीरजातश्च भगवान्सोमो ग्रहगणेश्वरः । 012a
अमृतं च सुधा चैव सुधा चैवामृतं तथा ॥ 012c
अन्नौषध्यो महाराज वीरुधश्च जलोद्भवाः । 013a
यतः प्राणभृतां प्राणाः सम्भवन्ति विशाम्पते ॥ 013c
देवानाममृतं ह्यन्नं नागानां च सुधा तथा । 014a
पितॄणां च स्वधा प्रोक्ता पशूनां चापि वीरुधः ॥ 014c
अन्नमेव मनुष्याणां प्राणानाहुर्मनीषिणः । 015a
तच्च सर्वं नरव्याघ्र पानीयात्सम्प्रवर्तते ॥ 015c
तस्मात्पानीयदानाद्वै न परं विद्यते क्वचित् । 016a
तच्च दद्यान्नरो नित्यं यदीच्छेद्भूतिमात्मनः ॥ 016c
धन्यं यशस्यमायुष्यं जलदानमिहोच्यते । 017a
शत्रूंश्चाप्यधि कौन्तेय सदा तिष्ठति तोयदः ॥ 017c
सर्वकामानवाप्नोति कीर्तिं चैव हि शाश्वतीम् । 018a
प्रेत्य चानन्त्यमश्नाति पापेभ्यश्च प्रमुच्यते ॥ 018c
तोयदो मनुजव्याघ्र स्वर्गं गत्वा महाद्युते । 019a
अक्षयान्समवाप्नोति लोकानित्यब्रवीन्मनुः ॥ 019c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि द्व्यधिकशततमोऽध्यायः ॥ 102 ॥
7-102-11 नीरजातेन जलोद्भवेन धान्यादिना ॥ 7-102-12 स्वधा चैव सुरा तथेति ध. पाठः ॥